Templesinindiainfo

Best Spiritual Website

Swami Brahmananda’s Shri Govindashtakam Lyrics in Hindi | गोविन्दाष्टकं स्वामिब्रह्मानन्दकृतम्

गोविन्दाष्टकं स्वामिब्रह्मानन्दकृतम् Lyrics in Hindi:

श्री गणेशाय नमः ॥
चिदानन्दाकारं श्रुतिसरससारं समरसं
निराधाराधारं भवजलधिपारं परगुणम् ।
रमाग्रीवाहारं व्रजवनविहारं हरनुतं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १॥

महाम्भोदिस्थानं स्थिरचरनिदानं दिविजपं
सुधाधारापानं विहगपतियानं यमरतम् ।
मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदम्
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ २॥

धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैः
महावाक्यैज्ञेयं त्रिभुवनविधेयं विधिपरम् ।
मनोमानामेयं सपदि हृदि नेयं नवतनुं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ३॥

महामायाजालं विमलवनमालं मलहरं
सुबालं गोपालं निहतशिशुपालं शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ४॥

नभोबिम्बस्फीतं निगमगणगीतं समगतिं
सुरौघे सम्प्रीतं दितिजविपरीतं पुरिशयम् ।
गिरां पन्थातीतं स्वदितनवनीतं नयकरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ५॥

परेशं पद्मेशं शिवकमलजेशम् शिवकरं
द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं नगधरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ६॥

रमाकान्तं कान्तं भवभयलयान्तं भवसुखं
दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम् ।
विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ७॥

जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं
बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् ।
स्वनिष्ठं धार्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं
सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ ८॥

गदापाणेरेतद्दुरितदलनं दुःखशमनं
विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।
स भुक्त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो
वरं विष्णोः स्थानं व्रजति खलु वैकुण्ठभुवनम् ॥

॥ इति श्री परमहंस स्वामि ब्रह्मानन्द विरचितं
श्री गोविन्दाष्टकं सम्पूर्णम् ॥

Swami Brahmananda’s Shri Govindashtakam Lyrics in Hindi | गोविन्दाष्टकं स्वामिब्रह्मानन्दकृतम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top