Templesinindiainfo

Best Spiritual Website

kāmākṣyaṣṭakam Hindi Lyrics

Kamakshyashtakam Lyrics in Hindi With Meaning | कामाक्ष्यष्टकम्

कामाक्ष्यष्टकम् Lyrics in Hindi: श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां कल्याणीं कमनीयचारुमकुटां कौसुम्भवस्त्रान्विताम् । श्रीवाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां कामाक्क्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १॥ मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् । वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २॥ श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां शर्वालिङ्गितनीलचारुवपुषीं शान्तां प्रवालाधराम् । बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलां कामाक्षीं करुणामयीं […]

Scroll to top