Kunjabihari Ashtakam 2 Lyrics in Hindi | कुञ्जविहार्यष्टकम् २
कुञ्जविहार्यष्टकम् २ Lyrics in Hindi: द्वितीयं श्रीकुञ्जविहार्यष्टकं नमः कुञ्जविहारिणे । अविरतरतिबन्धुस्मेरताबन्धुरश्रीः कबलित इव राधापाङ्गभङ्गीतरङ्गैः । मुदितवदनचन्द्रश्चन्द्रिकापीतधारी मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥ ततसुषिरघनानां नादमानद्धभाजां जनयति तरुणीनां मण्डले मण्डितानाम् । तटभुवि नटराजक्रीडया भानुपुत्र्याः विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २॥ शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् । धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३॥ अनुपमकरशाखोपात्तराधाङ्गुलीको लघु लघु कुसुमानां पर्यटन् वाटिकायाम् […]