Shri Purnashtakam Lyrics in Hindi | श्रीपूर्णाष्टकम्
श्रीपूर्णाष्टकम् Lyrics in Hindi: भगवति भवबन्धच्छेदिनि ब्रह्मवन्द्ये शशिमुखि रुचिपूर्णे भालचन्द्रेऽन्नपूर्णे । सकलदुरितहन्त्रि स्वर्गमोक्षादिदात्रि जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ १॥ तव गुणगरिमाणं वर्णितुं नैव शक्ता विधि-हरि-हरदेवा नैव लोका न वेदाः । कथमहमनभिज्ञो वागतीतां स्तुवीयां जननि निटिलनेत्रे देवि पूर्णे प्रसीद ॥ २॥ भगवति वसुकामाः स्वर्गमोक्षादिकामा- दितिजसुर-मुनीन्द्रास्त्वां भजन्त्यम्ब सर्वे । तव पदयुगभक्तिं भिक्षुकस्त्वां नमामि जननि निटिलनेत्रे देवि […]