Shri Bhavasodarya Ashtakam Lyrics in Hindi | श्रीभवसोदर्यष्टकम्
श्रीभवसोदर्यष्टकम् Lyrics in Hindi: भजतां कल्पलतिका भवभीतिविभञ्जनी । भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥ १॥ करनिर्जितपाथोजा शरदभ्रनिभाम्बरा । वरदानरता भूयाद्भव्याय भवसोदरी ॥ २॥ काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः । रभ्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥ ३॥ कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी । कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥ ४॥ मेनकादिसमाराध्या शौनकादिमुनिस्तुता । कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥ ५॥ वरदा पदनम्रेभ्यः पारदा भववारिधेः । नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥ ६॥ […]