Templesinindiainfo

Best Spiritual Website

Sri Bhramaramba Ashtakam Text in Hindi

Sri Bhramaramba Ashtakam Lyrics in Hindi

भ्रमराम्बाष्टकम् अथवा श्रीमातृस्तवः Lyrics in Hindi: चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् । चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १॥ कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीटिकाम् । लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २॥ राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् । राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३॥ षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् । षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं […]

Scroll to top