Templesinindiainfo

Best Spiritual Website

Sri Chandrashekhara Bharati Stotra Text in Hindi

Shri Chandrashekharabharati Ashtakam Lyrics in Hindi | श्रीचन्द्रशेखरभारत्यष्टकम्

श्रीचन्द्रशेखरभारत्यष्टकम् Lyrics in Hindi: शिष्यवृन्दसेवितं समस्तदोषवर्जितं भस्ममन्द्रराजितं पवित्रदण्डशोभितं । नम्रलोकपूजितं सुराधिराजभावितं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ १॥ चन्द्रचूडपूजनप्रसक्तचित्तमानसं सत्त्वबोधनास्तहृद्यशिष्यवर्गसाध्वसं । पूर्णचन्द्रबिम्बकान्तिकान्तवक्त्रसारसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ २॥ पादपद्मनम्रकामितार्थकल्पपादपं सत्प्रसक्तिशुद्धचित्तभूमितापसाधिपं । विस्मितात्महृत्तमिस्रवारणे दिनाधिपं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ३॥ प्राक्तनातिभाग्यराशिलब्धशैवतेजसं शङ्करार्यसाम्प्रदायबोधनैकमानसं । वेदशास्त्रभाष्यतत्त्ववेदिनं महौजसं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ४॥ शृङ्गशैलधर्मपीठशोभमानमूर्तिकं शङ्करार्यशारदापदार्चकं सुबोधकं । चक्रराजपूजकं किरीटचारुमस्तकं चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ५॥ राजलक्ष्मलक्षितं समग्रराजपूजितं सर्वशास्त्रपण्डितं स्वधर्मरक्षणीरतं […]

Scroll to top