Shri Gokulesha Ashtakam 3 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् ३
श्रीगोकुलेशाष्टकम् ३ Lyrics in Hindi: यतिवशधरणीशे धर्मलोपप्रवृत्ते हरिचरणसहायो यः स्वधर्मं जुगोप । विहितभजनभारो धर्मरक्षावतारः स जगति जयति श्रीवल्लभो गोकुलेशः ॥ १॥ असदुदितविदारी वेदवादानुसारी यदुचितहितकारी भक्तिमार्गप्रचारी । रुचिरतिलकधारी मालधारी तुलस्याः स जयति जयति श्रीवल्लभो गोकुलेशः ॥ २॥ बहुविधिजननर्मप्रोक्तिबाणैरधर्मः प्रकटमयति मर्मस्फोटमाराद्विधाय । वपुषि भजनवर्म प्राप्य कल्याणधर्मः स जयति नवकर्मा गोकुले गोकुलेशः ॥ ३॥ निगमजनितधर्मद्रोहिणि क्षोणिनाथे सकलसहजवेशस्तत्समीपं समेत्य […]