Templesinindiainfo

Best Spiritual Website

Sri Gokulnathji Ashtakam Text in Hindi

Shri Gokulanathashtakam Lyrics in Hindi | श्रीगोकुलनाथाष्टकम्

श्रीगोकुलनाथाष्टकम् Lyrics in Hindi: भवभीतजनाखिलभीतिहरं हरवन्दितनन्दतनूजरतम् । रतवृद्धगुरुद्विजभृत्यजनं जनदुर्लभमार्गसुबोधकरम् ॥ १॥ करपद्मसुसेवितशैलधरं धरणीतलविश्रुतसाधुगुणम् । गुणसिन्धुविमर्दितदुष्टमुखं मुखकल्पितमार्गनिवृत्तिपरम् ॥ २॥ परमप्रियमङ्गलवेषधरं वरबन्धुसुहृत्सुतलब्धसुखम् । सुखसागरमम्बुजचारुमुखं मुखपङ्कजकीर्तितकृष्णकथम् ॥ ३॥ कथनीयगुणामृतवारिनिधिं निधिसेवितमर्चितपद्मपदम् । पदपङ्कजसंश्रितविज्ञबुधं बुधविठ्ठलनाथचतुर्थसुतम् ॥ ४॥ सुतरां करुणाब्धिमनन्तगुणं गुणरत्नविराजितशुद्धतनुम् । तनुरत्नवशीकृतनन्दसुतं सुतमित्रकलत्रसुसेव्यपदम् ॥ ५॥ पदपङ्कजपावितसाधुजनं जनहेतुगृहीतमनुष्यतनुम् । तनुकान्तितिरस्कृतपञ्चशरं शरणागतरक्षितभक्तजनम् ॥ ६॥ जनतोषणपोषणदत्तहृदं हृदयार्पितगोपवधूरमणम् । रमणीयतरामलभक्तिकृतं कृतकृष्णकथामृततृप्तजनम् ॥ ७॥ जनवाञ्छितकामदरत्नगुणं […]

Scroll to top