Shri Minakshimanimal Ashtakam Lyrics in Hindi with Meaning
श्रीमीनाक्षीमणिमालाष्टकम् Lyrics in Hindi: मधुरापुरिनायिके नमस्ते मधुरालापिशुकाभिरामहस्ते । मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां विधेहि धन्ये ॥ १॥ कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते । मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि कृपां विधेहि शान्ते ॥ २॥ कुचयुग्मविधूतचक्रवाके कृपयापालितसर्वजीवलोके । मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निधेहि पाके ॥ ३॥ विधिवाहनजेतृकेलियाने विमतामोटनपूजितापदाने । मधुरेक्षणभावभूतमीने मयि मीनाक्षि कृपां विधेहि दीने ॥ ४॥ तपनीयपयोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे । मदनारिपरिग्रहे कृतार्थे […]