Templesinindiainfo

Best Spiritual Website

1000 Names of Shastri Shavarna | Sahasranama Stotram Lyrics in Hindi

 

Shastrishavarna Sahasranamastotram Lyrics in Hindi:

॥ शास्तृशवर्णसहस्रनामस्तोत्रम् ॥
॥ श्रीः ॥

अस्य श्रीशास्तृशवर्णसहस्रनामस्तोत्रमहामन्त्रस्य
नैध्रुव ऋषिः, अनुष्टुप्छन्दः, शास्ता देवता ।
ॐ भूताधिपाय विद्महे इति बीजम् ।
ॐ महादेवाय धीमहि इति शक्तिः ।
ॐ तन्नः शास्ता प्रचोदयात् इति कीलकम् ।
साधकाभीष्टसाधने पूजने विनियोगः ।
ॐ ह्रां भूताधिपाय विद्महे अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं महादेवाय धीमहि तर्जनीभ्यां नमः ।
ॐ ह्रूं तन्नः शास्ता प्रचोदयात् मध्यमाभ्यां नमः ।
ॐ ह्रैं तन्नः शास्ता प्रचोदयात् अनामिकाभ्यां नमः ।
ॐ ह्रौं महादेवाय धीमहि कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः भूताधिपाय विद्महे करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
ध्यानम् –
श्रीशोमेशात्मपुत्रं श्रितजनवरदं श्लाघनीयापदानं
क्लेशोद्भ्रान्तिप्रणाशं क्लिशितरिपुचयं क्लेदसङ्काशमात्रम् ।
कोशोच्चाश्वाधिरूढं परिगतमृगयाखेलनानन्दचित्तं
पाशोच्चण्डास्त्रपाणिं वरदमभयदं स्तौमि शास्तारमीशम् ॥

ॐ शन्नो दाता शम्भृताङ्कः शन्तनुः शन्तनुस्तुतः ।
शंवाच्यः शङ्कृतिप्रीतः शन्दः शान्तनवस्तुतः ॥ १ ॥

शङ्करः शङ्करी शम्भुः शम्भूर्वै शम्भुवल्लभः ।
शंसः शंस्थापतिः शंस्यः शंसितः शङ्करप्रियः ॥ २ ॥

शंयुः शङ्खः शम्भवोऽपि शंसापात्रं शकेडितः ।
शकटघ्नार्चितः शक्तः शकारिपरिपूजितः ॥ ३ ॥

शकुनज्ञः शकुनदः शकुनीश्वरपालकः ।
शकुनारूढविनुतः शकटासुफल (प्रदः) प्रियः ॥ ४ ॥

शकुन्तेशात्मजस्तुत्यः शकलाक्षकयुग्रथः ।
शकृत्करिस्तोमपालः शक्वरीच्छन्दईडितः ॥ ५ ॥

शक्तिमान् शक्तिभृद्भक्तः शक्तिभृच्छक्तिहेतिकः ।
शक्तः शक्रस्तुतः शक्यः शक्रगोपतनुच्छविः ॥ ६ ॥

शक्रजायाभीष्टदाता शक्रसारथिरक्षकः ।
शक्राणीविनुतः शक्लः शक्रोत्सवसमातृकः ॥ ७ ॥

शक्वरध्वजसंप्राप्तबलैश्वर्यविराजितः ।
शक्रोत्थानक्रियारम्भबलिपूजाप्रमोदितः ॥ ८ ॥

शङ्कुः शङ्काविरहितः शङ्करीचित्तरञ्जकः ।
शङ्करावासधौरेयः शङ्करालयभोगदः ॥ ९ ॥

शङ्करालङ्कृतदरः शङ्खी शङ्खनिधीश्वरः ।
शङ्खध्मः शङ्खभृच्छङ्खनखः शङ्खजभूषणः ॥ १० ॥

शङ्खास्यः शङ्खिनीलोलः शङ्खिकः शङ्खभृत्प्रियः ।
शचीविरहविध्वस्तः शचीपतिविनोददः ॥ ११ ॥

शटीगन्धः शटाजूटः शठमूलकृतादरः ॥

शठपुष्पधरः शस्ता शठात्मकनिबर्हणः ॥ १२ ॥

शणसूत्रधरः शाणी शाण्डिल्यादिमुनिस्तुतः ।
शतकीर्तिः शतधृतिः शतकुन्दसुमप्रियः ॥ १३ ॥

शतकुम्भाद्रिनिलयः शतक्रतुजयप्रदः ।
शतद्रुतटसञ्चारी शतकण्ठसमद्युतिः ॥ १४ ॥

शतवीर्यः शतबलः शताङ्गी शतवाहनः ।
शत्रुघ्नः शत्रुघ्ननुतः शत्रुजिच्छत्रुवञ्चकः ॥ १५ ॥

शलालुकन्धरधरः शनिपीडाहरः शिखी ।
शनिप्रदोषसञ्जातस्वभक्तभरणोत्सुकः ॥ १६ ॥

शन्यर्चितः शनित्राणः शन्यनुग्रहकारकः ।
शबराखेटनरतः शपथः शपथक्षणः ॥ १७ ॥

शब्दनिष्ठः शब्दवेदी शमी शमधनस्तुतः ।
शमीगर्भप्रियः शम्बः शम्बरारिसहोदरः ॥ १८ ॥

शयण्डविमुखः शण्डी शरणागतरक्षकः ।
शरजन्मप्राणसखः शरजन्मसहोदरः ॥ १९ ॥

शरजन्मानुसरणः शरजन्मचमूपतिः ।
शरजन्मामात्यवर्यः शरजन्मप्रियङ्करः ॥ २० ॥

शरजन्मगणाधीशः शरजन्माश्रयाधरः ।
शरजन्माग्रसञ्चारी शरासनधरः शरी ॥ २१ ॥

शरारुघ्नः शर्कुरेष्टः शर्मदः शर्मविग्रहः ।
शर्यातिजयदः शस्त्री शशभृद्भूषनन्दनः ॥ २२ ॥

शश्वद्बलानुकूलोऽपि शष्कुलीभक्षणादरः ।
शस्तः शस्तवरः शस्तकेशकः शस्तविग्रहः ॥ २३ ॥

शस्त्राढ्यः शस्त्रभृद्देवः शस्त्रक्रीडाकुतूहलः ।
शस्यायुधः शार्ङ्गपाणिः शार्ङ्गिस्त्रीप्रियनन्दनः ॥ २४ ॥

शाकप्रियः शाकदेवः शाकटायनसंस्तुतः ।
शाक्तधर्मरतः शाक्तः शाक्तिकः शाक्तरञ्जकः ॥ २५ ॥

शाकिनीडाकिनीमुख्ययोगिनीपरिसेवितः ।
तथा शाड्वलनाथश्च शाठ्यकर्मरताहितः ॥ २६ ॥

शाण्डिल्यगोत्रवरदः शान्तात्मा शातपत्रकः ।
शातकुम्भसुमप्रीतः शातकुम्भजटाधरः ॥ २७ ॥

शातोदरप्रभः शाभः शाड्वलक्रीडनादरः ।
शानपादारसञ्चारी शात्रवान्वयमर्दनः ॥ २८ ॥

शान्तः शान्तनिधिः शान्तिः शान्तात्मा शान्तिसाधकः ।
शान्तिकृच्छान्तिकुशलः शान्तधीः शान्तविग्रहः ॥ २९ ॥

शान्तिकामः शान्तिपतिः शान्तीड्यः शान्तिवाचकः ।
शान्तस्तुतः शान्तनुतः शान्तेड्यः शान्तपूजितः ॥ ३० ॥

शापास्त्रः शापकुशलः शापायुधसुपूजितः ।
शापघ्नः शापदीनेड्यः शापद्विट् शापनिग्रहः ॥ ३१ ॥

शापार्जितः शाकटिकवाहप्रीतश्च शामिनी ।
शाब्दिकः शाब्दिकनुतः शाब्दबोधप्रदायकः ॥ ३२ ॥

शाम्बरागमवेदी च शाम्बरः शाम्बरोत्सवः ।
शामिनीदिग्विहारोऽथ शामित्रगणपालकः ॥ ३३ ॥

शाम्भवः शाम्भवाराध्यः शामिलालेपनादरः ।
शाम्भवेष्टः शाम्भवाढ्यः शाम्भवी शम्भुपूजकः ॥ ३४ ॥

शारभ्रूः शारदः शारी शारदानिवहद्युतिः ।
शारदेड्यः शारदीष्टः शारिस्थः शारुकान्तकः ॥ ३५ ॥

शार्कुखादी शार्कुरेष्टः शारीरमलमोचकः ।
शार्ङ्गी शार्ङ्गिसुतः शार्ङ्गिप्रीतः शार्ङ्गिप्रियादरः ॥ ३६ ॥

शार्दूलाक्षः शार्वराभः शार्वरीप्रियशेखरः ।
शालङ्कीड्यः शालवाभः शालकामार्चकादरः ॥ ३७ ॥

शाश्वतः शाश्वतैश्वर्यः शासिता शासनादरः ।
शास्त्रज्ञः शास्रतत्त्वज्ञः शास्त्रदर्शी च शास्त्रवित् ॥ ३८ ॥

शास्त्रचक्षुः शास्त्रकर्षी (कुक्षी) शास्त्रकृच्छास्त्रचारणः ।
शास्त्री शास्त्रप्रतिष्ठाता शास्त्रार्थः शास्त्रपोषकः ॥ ३९ ॥

शास्त्रहेतुः शास्त्रसेतुः शास्त्रकेतुश्च शास्त्रभूः ।
शास्त्राश्रयः शास्त्रगेयः शास्त्रकारश्च शास्त्रदृक् ॥ ४० ॥

शास्त्राङ्गः शास्त्रपूज्यश्च शास्त्रग्रथनलालसः ।
शास्त्रप्रसाधकः शास्त्रज्ञेयः शास्त्रार्थपण्डितः ॥ ४१ ॥

शास्त्रपारङ्गतः शास्त्रगुणविच्छास्त्रशोधकः ।
शास्त्रकृद्वरदाता च शास्त्रसन्दर्भबोधकः ॥ ४२ ॥

शास्त्रकृत्पूजितः शास्त्रकरः शास्त्रपरायणः ।
शास्त्रानुरक्तः शास्त्रात्मा शास्त्रसन्देहभञ्जकः ॥ ४३ ॥

शास्त्रनेता शास्त्रपूतः शास्त्रयोनिश्च शास्त्रहृत् ।
शास्त्रलोलः शास्त्रपालः शास्त्रकृत्परिरक्षकः ॥ ४४ ॥

शास्त्रधर्मः शास्त्रकर्मा शास्त्रशीलश्च शास्त्रनुत् ।
शास्त्रदृष्टिः शास्त्रपुष्टिः शास्त्रतुष्टिश्च शास्त्रचित् ॥ ४५ ॥

शास्त्रशुद्धिः शास्त्रबुद्धिः शास्त्रधीः शास्त्रवर्धनः ।
शास्त्रप्रज्ञः शास्त्रविज्ञः शास्त्रार्थी शास्त्रमण्डलः ॥ ४६ ॥

शास्त्रस्पृकू शास्त्रनिपुणः शास्त्रसृक् शास्त्रमङ्गलः ।
शास्त्रधीरः शास्त्रशूरः शास्त्रवीरश्च शास्त्रसत् ॥ ४७ ॥

शास्त्राधिपः शास्त्रदेवः शास्त्रक्रीडोऽथ शास्त्रराट् ।
शास्त्राढ्यः शास्त्रसारज्ञः शास्त्रं शास्त्रप्रदर्शकः ॥ ४८ ॥

शास्त्रप्रौढः शास्त्ररूढः शास्त्रगूढश्च शास्त्रपः ।
शास्त्रध्यानः शास्त्रगुणः शास्त्रेशानश्च शास्त्रभूः ॥ ४९ ॥

शास्त्रज्येष्ठः शास्त्रनिष्ठः शास्त्रश्रेष्ठश्च शास्त्ररुक् ।
शास्त्रत्राता शास्त्रभर्ता शास्त्रकर्ता च शास्त्रमुत् ॥ ५० ॥

शास्त्रधन्यः शास्त्रपुण्यः शास्त्रगण्यश्च शास्त्रधीः ।
शास्त्रस्फूर्तिः शास्त्रमूर्तिः शास्त्रकीर्तिश्च शास्त्रभृत् ॥ ५१ ॥

शास्त्रप्रियः शास्त्रजायः शास्त्रोपायश्च शास्त्रगीः ।
शास्त्राधारः शास्त्रचरः शास्त्रसारश्च शास्त्रधुक् ॥ ५२ ॥

शास्त्रप्राणः शास्त्रगणः शास्त्रत्राणश्च शास्त्रभाक् ।
शास्त्रनाथः शास्त्ररथः शास्त्रसेनश्च शास्त्रदः ॥ ५३ ॥

शास्त्रस्वामी शास्त्रभूमा शास्त्रकामी च शास्त्रभुक् ।
शास्त्रप्रख्यः शास्त्रमुख्यः शास्त्रविख्योऽथ शास्त्रवान् ॥ ५४ ॥

शास्त्रवर्णः शास्त्रपूर्णः शास्त्रकर्णोऽथ शास्त्रपुट् ।
शास्त्रभोगः शास्त्रयोगः शास्त्रभागश्च शास्त्रयुक् ॥ ५५ ॥

शास्त्रोज्ज्वलः शास्त्रबालः शास्त्रनामा च शास्त्रभुक् ।
शास्त्रश्रीः शास्त्रसन्तुष्टः शास्त्रोक्तः शास्त्रदैवतम् ॥ ५६ ॥

शास्त्रमौलिः शास्त्रकेलिः शास्त्रपालिश्च शास्त्रमुक् ।
शास्त्रराज्यः शास्त्रभोज्यः शास्त्रेज्यः शास्त्रयाजकः ॥ ५७ ॥

शास्त्रसौख्यः शास्त्रविभुः शास्त्रप्रेष्ठश्च शास्त्रजुट् ।
शास्त्रवीर्यः शास्त्रकार्यः शास्त्रार्हः शास्त्रतत्परः ॥ ५८ ॥

शास्तग्राही शास्त्रवहः शास्त्राक्षः शास्त्रकारकः ।
शास्त्रश्रीदः शास्त्रदेहः शास्त्रशेषश्च शास्त्रत्विट् ॥ ५९ ॥

शास्त्रह्लादी शास्त्रकलः शास्त्ररश्मिश्च शास्त्रधीः ।
शास्त्रसिन्धुः शास्त्रबन्धुः शास्त्रयत्नश्च शास्त्रभित् ॥ ६० ॥

शाखप्रदर्शी शास्त्रेष्टः शास्त्रभूषश्च शास्त्रगः ।
शास्त्रसङ्घः शास्त्रसखस्तथा शास्त्रविशारदः ॥ ६१ ॥

शास्त्रप्रीतः शास्त्रहितः शास्त्रपूतोऽथ शास्त्रकृत् ।
शास्त्रमाली शास्त्रयायी शास्त्रीयः शास्त्रपारदृक् ॥ ६२ ॥

शास्त्रस्थायी शास्त्रचारी शास्त्रगीः शास्त्रचिन्तनः ।
शास्त्रध्यानः शास्त्रगानः शास्त्राली शास्त्रमानदः ॥ ६३ ॥

शिक्यपालः शिक्यरक्षः शिखण्डी शिखरादरः ।
शिखरं शिखरीन्द्रस्थः शिखरीव्यूहपालकः ॥ ६४ ॥

शिखरावासनप्रीतः शिखावलवशादृतः ।
शिखावान्शिखिमित्रश्च शिखीड्यः शिखिलोचनः ॥ ६५ ॥

शिखायोगरतः शिग्रुप्रीतः शिग्रुजखादनः ।
शिग्रुजेक्षुरसानन्दः शिखिप्रीतिकृतादरः ॥ ६६ ॥

शितः शितिः शितिकण्ठादरश्च शितिवक्षरुक् ।
शिञ्जञ्चिकाहेमकान्तिवस्त्रः शिञ्जितमण्डितः ॥ ६७ ॥

शिथिलारिगणः शिञ्जी शिपिविष्टप्रियः शिफी ।
शिबिप्रियः शिबिनुतः शिबीड्यश्च शिबिस्तुतः ॥ ६८ ॥

शिबिकष्टहरः शिब्याश्रितश्च शिबिकाप्रियः ।
शिबिरी शिबिरत्राणः शिबिरालयवल्लभः ॥ ६९ ॥

शिबिवल्लभसत्प्रेमा शिराफलजलादरः ।
शिरजालङ्कृतशिराः शिरस्त्राणविभूषितः ॥ ७० ॥

शिरोरत्नप्रतीकाशः शिरोवेष्टनशोभितः ।
शिलादसंस्तुतः शिल्पी शिवदश्च शिवङ्करः ॥ ७१ ॥

शिवः शिवात्मा शिवभूः शिवकृच्छिवशेखरः ।
शिवज्ञः शिवकर्मज्ञः शिवधर्मविचारकः ॥ ७२ ॥

शिवजन्मा शिवावासः शिवयोगी शिवास्पदः ।
शिवस्मृतिः शिवधृतिः शिवार्थः शिवमानसः ॥ ७३ ॥

शिवाढ्यः शिववर्यज्ञः शिवार्थः शिवकीर्तनः ।
शिवेश्वरः शिवाराध्यः शिवाध्यक्षः शिवप्रियः ॥ ७४ ॥

शिवनाथः शिवस्वामी शिवेशः शिवनायकः ।
शिवमूर्तिः शिवपतिः शिवकीर्तिः शिवादरः ॥ ७५ ॥

शिवप्राणः शिवत्राणः शिवत्राता शिवाज्ञकः ।
शिवपश्च शिवक्रीडः शिवदेवः शिवाधिपः ॥ ७६ ॥

शिवज्येष्ठः शिवश्रेष्ठः शिवप्रेष्ठः शिवाधिराट् ।
शिवराट् शिवगोप्ता च शिवाङ्गः शिवदैवतः ॥ ७७ ॥

शिवबन्धुः शिवसुहृच्छिवाधीशः शिवप्रदः ।
शिवाग्रणीः शिवेशानः शिवगीतः शिवोच्छ्रयः ॥ ७८ ॥

शिवस्फूर्तिः शिवसुतः शिवप्रौढःशिवोद्यतः ।
शिवसेनः शिवचरः शिवभर्ता शिवप्रभुः ॥ ७९ ॥

शिवैकराट् शिवप्रज्ञः शिवसारः शिवस्पृहः ।
शिवग्रीवः शिवनामा शिवभूतिः शिवान्तरः ॥ ८० ॥

शिवमुख्यः शिवप्रख्यः शिवविख्यः शिवाख्यगः ।
शिवध्याता शिवोद्गाता शिवदाता शिवस्थितिः ॥ ८१ ॥

शिवानन्दः शिवमतिः शिवार्हः शिवतत्परः ।
शिवभक्तः शिवासक्तः शिवशक्तः शिवात्मकः ॥ ८२ ॥

शिवदृक् शिवसम्पन्नः शिवहृच्छिवमण्डितः ।
शिवभाक् शिवसन्धाता शिवश्लाघी शिवोत्सुकः ॥ ८३ ॥

शिवशीलः शिवरसः शिवलोलः शिवोत्कटः ।
शिवलिङ्गः शिवपदः शिवसन्धः शिवोज्ज्वलः ॥ ८४ ॥

शिवश्रीदः शिवकलः शिवमान्यः शिवप्रदः ।
शिवव्रतः शिवहितः शिवप्रीतः शिवाशयः ॥ ८५ ॥

शिवनिष्ठः शिवजपः शिवसंज्ञः शिवोर्जितः ।
शिवमानः शिवस्थानः शिवगानः शिवोपमः ॥ ८६ ॥

शिवानुरक्तः शिवहृच्छिवहेतुः शिवार्चकः ॥

शिवकेलिः शिववटुः शिवचाटुः शिवास्त्रवित् ॥ ८७ ॥

शिवसङ्गः शिवधरः शिवभावः शिवार्थकृत् ।
शिवलीलः शिवस्वान्तः शिवेच्छः शिवदायकः ॥ ८८ ॥

शिवशिष्यः शिवोपायः शिवेष्टः शिवभावनः ।
शिवप्रधीः शिवविभुः शिवाभीष्टः शिवध्वजः ॥ ८९ ॥

शिववान् शिवसम्मोहः शिवर्धिः शिवसम्भ्रमः ।
शिवश्रीः शिवसङ्कल्पः शिवगात्रः शिवोक्तिदः ॥ ९० ॥

शिववेषः शिवोत्कर्षः शिवभाषः शिवोत्सुकः ।
शिवमूलः शिवापालः शिवशूलः शिवाबलः ॥ ९१ ॥

शिवाचारः शिवाकारः शिवोदारः शिवाकरः ।
शिवहृष्टः शिवोद्दिष्टः शिवतुष्टः शिवेष्टदः ॥ ९२ ॥

शिवडिम्भः शिवारम्भः शिवोज्जृम्भः शिवाभरः ।
शिवमायः शिवचयः शिवदायः शिवोच्छ्रयः ॥ ९३ ॥

शिवव्यूहः शिवोत्साहः शिवस्नेहः शिवावहः ।
शिवलोकः शिवालोकः शिवौकाः शिवसूचकः ॥ ९४ ॥

शिवबुद्धिः शिवर्धिश्च शिवसिद्धिः शिवर्धिदः ।
शिवधीः शिवसंशुद्धिः शिवधीः शिवसिद्धिदः ॥ ९५ ॥

शिवनामा शिवप्रेमा शिवभूः शिववित्तमः ।
शिवाविष्टः शिवादिष्टः शिवाभीष्टः शिवेष्टकृत् ॥ ९६ ॥

शिवसेवी शिवकविः शिवख्यातः शिवच्छविः ॥

शिवलीनः शिवच्छन्नः शिवध्यानः शिवस्वनः ॥ ९७ ॥

शिवपालः शिवस्थूलः शिवजालः शिवालयः ।
शिवावेशः शिवोद्देशः शिवादेशः शिवोद्यतः ॥ ९८ ॥

शिवपक्षः शिवाध्यक्षः शिवरक्षः शिवेक्षणः ।
शिवपद्यः शिवोद्विद्यः शिवहृद्यः शिवाद्यकः ॥ ९९ ॥

शिवपाद्यः शिवस्वाद्यः शिवार्घ्यः शिवपाद्यकः ।
शिवार्हः शिवहार्दश्च शिवबिम्बः शिवार्भकः ॥ १०० ॥

शिवमण्डलमध्यस्थः शिवकेलिपरायणः ॥

शिवामित्रप्रमथनः शिवभक्तार्तिनाशनः ॥ १०१ ॥

शिवभक्तिप्रियरतः शिवप्रवणमानसः ।
शिववाल्लभ्यपुष्टाङ्गः शिवारिहरणोत्सुकः ॥ १०२ ॥

शिवानुग्रहसन्धाता शिवप्रणयतत्परः ।
शिवपादाब्जलोलम्बः शिवपूजापरायणः ॥ १०३ ॥

शिवकीर्तनसन्तुष्टः शिवोल्लासक्रियादरः ।
शिवापदानचतुरः शिवकार्यानुकूलदः ॥ १०४ ॥

शिवपुत्रप्रीतिकरः शिवाश्रितगणेष्टदः ।
शिवमूर्धाभिषिक्ताङ्गः शिवसैन्यपुरःसरः ॥ १०५ ॥

शिवविश्वाससम्पूर्णः शिवप्रमथसुन्दरः ।
शिवलीलाविनोदज्ञः शिवविष्णुमनोहरः ॥ १०६ ॥

शिवप्रेमार्द्रदिव्याङ्गः शिववागमृतार्थवित् ।
शिवपूजाग्रगण्यश्च शिवमङ्गलचेष्टितः ॥ १०७ ॥

शिवदूषकविध्वंसी शिवाज्ञापरिपालकः ।
शिवसंसारश‍ृङ्गारः शिवज्ञानप्रदायकः ॥ १०८ ॥

शिवस्थानधृतोद्दण्डः शिवयोगविशारदः ।
शिवप्रेमास्पदोच्चण्डदण्डनाडम्बरोद्भटः ॥ १०९ ॥

शिवार्चकपरित्राता शिवभक्तिप्रदायकः ।
शिवध्यानैकनिलयः शिवधर्मपरायणः ॥ ११० ॥

शिवस्मरणसान्निध्यः शिवानन्दमहोदरः ।
शिवप्रसादसन्तुष्टः शिवकैवल्यमूलकः ॥ १११ ॥

शिवसङ्कीर्तनोल्लासः शिवकैलासभोगदः ।
शिवप्रदोषपूजात्तसर्वसौभाग्यसुन्दरः ॥ ११२ ॥

शिवलिङ्गार्चनासक्तः शिवनामस्मृतिप्रदः ।
शिवालयस्थापकश्च शिवाद्रिक्रीडनोत्सुकः ॥ ११३ ॥

शिवापदाननिपुणः शिववाक्परिपालकः ।
शिवानीप्रीतिकलशः शिवारातिविनाशकः ॥ ११४ ॥

शिवात्मकक्रियालोलः शिवसायुज्यसाधकः ।
शिशिरेष्टः शिशिरदः शिशिरर्तुप्रियः शिशुः ॥ ११५ ॥

शिशुप्रियः शिशुत्राता शिशुभाषी शिशूत्सवः ।
शिशुपालनतात्पर्यः शिशुपूज्यः शिशुक्षमः ॥ ११६ ॥

शिशुपालक्रोधहरः शिशुशक्तिधरस्तुतः ।
शिशुपालघ्नविनुतः शिशुपालनचेष्टितः ॥ ११७ ॥

शिशुचान्द्रायणप्रीतः शिशुभावावनप्रभुः ।
शीकरप्रणयः शीकराङ्गः शीघ्रश्च शीघ्रशः ॥ ११८ ॥

शीघ्रवेदी शीघ्रगामी शीघ्रयोद्धा च शीघ्रधीः ।
शीघ्रकप्रियकृच्छीघ्री शीघ्रदाता च शीघ्रभृत् ॥ ११९ ॥

शीतालङ्करणः शीतजलास्वादनतत्परः ।
शीतः शीतकरः शीतपुष्पधारी च शीतगुः ॥ १२० ॥

शीतप्रियः शीतभानुः शीतरश्मिश्च शीतलः ।
शीताप्रभः शीतलाढ्यः शीतांशुः शीतवीर्यकः ॥ १२१ ॥

शीतलाङ्गः शीतसहः शीताद्रिनिलयप्रियः ।
शीत्पुटभ्रुः शीतनेत्रः शीर्णाङ्घ्रिभयनाशनः ॥ १२२ ॥

शीतात्मगिरिसञ्चारी शीर्णपर्णसुमोत्करः ।
शीभज्ञः शीर्षण्यधरः शीर्षरक्षोऽथ शीलवान् ॥ १२३ ॥

शीलज्ञः शीलदः शीलपालकः शीलवत्प्रभुः ।
शुकतुण्डनिभापाङ्गः शुकवाहनसोदरः ॥ १२४ ॥

शुकप्रियफलास्वादः शुकवाक्यप्रियः शुभी ।
शुकवाहप्रियः शुक्तिकाजहारः शुकप्रियः ॥ १२५ ॥

शुक्रः शुक्रभुगारूढभूतः शुक्रप्रपूजितः ।
शुक्रशिष्यान्तकः शुक्रवर्णः शुक्रकरः शुचिः ॥ १२६ ॥

शुक्लः शुक्लनुतः शुक्ली शुक्लपुष्पश्च शुक्लदः ।
शुक्लाङ्गः शुक्लकर्मा च शुचिभूमिनिवासकः ॥ १२७ ॥

शुचिप्रदः शुचिकरः शुचिकर्मा शुचिप्रियः ।
शुचिरोचिः शुचिमतिः शुण्ठीगुडजलादरः ॥ १२८ ॥

शुद्धः शुद्धफलाहारः शुद्धान्तपरिपालकः ।
शुद्धचेताः शुद्धकर्मा शुद्धभावोऽथ शुद्धिदः ॥ १२९ ॥

शुभः शुभाङ्गः शुभकृच्छुभेच्छः शुभमानसः ।
शुभभापी शुभनुतः शुभवर्षी शुभादरः ॥ १३० ॥

शुभशीलः शुभप्रीतः शुभंयुः शुभपोषकः ।
शुभङ्करः शुभगणः शुभाचारः शुभोत्सवः ॥ १३१ ॥

शुभादरः शुभोदारः शुभाहारः शुभावहः ।
शुभान्वितः शुभहितः शुभवर्णः शुभाम्बरः ॥ १३२ ॥

शुभभक्तः शुभासक्तः शुभयुक्तः शुभेक्षणः ।
शुभ्रः शुभ्रगणः शुभ्रवस्त्रः शुभ्रविभूषणः ॥ १३३ ॥

शुभविध्वंसिनीभूतः शुल्कादाननिपातकः ।
शुष्मद्युतिः शुष्मिसखः शुश्रूषादूतशङ्करः ॥ १३४ ॥

शूरः शूराश्रितः शूरगणः शूरचमूपतिः ।
शूरप्रवरसन्दोहः शूरभक्तश्च शूरवान् ॥ १३५ ॥

शूरसेनः शूरनुतः शूरपालश्च शूरजित् ।
शूरदेवः शूरविभुः शूरनेता च शूरराट् ॥ १३६ ॥

शूलपाणियुतः शूली शूलयुद्धविशारदः ।
शूलिनीप्रियकृच्छूलवित्रस्तरिपुमण्डलः ॥ १३७ ॥

श‍ृङ्गारखेलः श‍ृङ्गारगात्रः श‍ृङ्गारशेखरः ॥

श‍ृङ्गारजटिलः श‍ृङ्गाटकसञ्चारकौतुकः ॥ १३८ ॥

श‍ृङ्गारभूषणः श‍ृङ्गारयोनिजननार्भकः ।
शेमुषीदुःखहन्ता च शेखरीकृतमूर्धजः ॥ १३९ ॥

शेषस्तुतः शेषपाणिः शेषभूषणनन्दनः ।
शेषाद्रिनिलयप्रीतः शेषोदरसहोदरः ॥ १४० ॥

शैलजाप्रियकृत्कर्मा शैलराजप्रपूजितः ।
शैलादिविनुतः शैवः शैवशास्त्रप्रचारकः ॥ १४१ ॥

शैवधीरः शैववीरः शैवशूरश्च शैवराट् ।
शैवत्राणः शैवगणः शैवप्राणश्च शैववित् ॥ १४२ ॥

शैवशास्त्रः शैवशास्त्राढ्यः शैवभृच्छैवपालकः ।
शैवदक्षः शैवपक्षः शैवरक्षोऽथ शैवहृत् ॥ १४३ ॥

शैवाङ्गः शैवमन्त्रज्ञः शैवतन्त्रश्च शैवदः ।
शैवमौनी शैवमतिः शैवयन्त्रविधायकः ॥ १४४ ॥

शैवव्रतः शैवनेता शैवज्ञः शैवसैन्यकः ।
शैवनन्द्यः शैवपूज्यः शैवराज्योऽथ शैवपः ॥ १४५ ॥

शोणापाङ्गः शोणनखः शोणरत्नविभूषितः ।
शोकघ्नः शोभनास्त्रश्च शोधकः शोभनप्रदः ॥ १४६ ॥

शोषितारिः शोषहारी शोषिताश्रितरक्षकः ।
शौरीड्यः शौरिवरदः शौरिद्विट्प्राणहारकः ॥ १४७ ॥

श्रद्धाधारश्च श्रद्धालुः श्रद्धावित्परिपालकः ।
श्रवणानन्दजनकः श्रवणाभरणोज्ज्वलः ॥ १४८ ॥

श्रीदः श्रीदप्रियः श्रीदस्तुतः श्रीदप्रपूजितः ।
श्रुतिज्ञः श्रुतिवित्पूज्यः श्रुतिसारः श्रुतिप्रदः ॥ १४९ ॥

श्रुतिमौलिनुतप्रेमडिम्भः श्रुतिविचारकः ।
श्लाघ्यः श्लाघापरः श्लाघ्यगणः श्लाघ्यगुणाकरः ॥ १५० ॥

श्वेताङ्गश्च श्वेतगजरथः श्वेतसुमादरः ।
श्रीधृक् श्रीधरदाम्पत्यसार्थसम्मोहनाकृतिः ॥ १५१ ॥

श्रीकामाश्रितसन्दोहकैरवानन्दचन्द्रमाः ।
इतीदं शास्तृदेवस्य शिवविष्णुस्वरूपिणः ॥ १५२ ॥

नाम्नां सहस्रं दिव्यानां शादीनां संप्रकीर्तितम् ।
य इदं श‍ृणुयान्नित्यं प्रपठेच्च प्रयत्नतः ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १५३ ॥

इति श्रीशास्तृशवर्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Shastri Shavarna:

1000 Names of Shastri Shavarna | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shastri Shavarna | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top