Templesinindiainfo

Best Spiritual Website

1000 Names of Shri Shiva Kama Sundari | Sahasranamavali Stotram 2 from Rudrayamala in Hindi

Shri Shiva Kamasundari Sahasranamavali 2 Lyrics in Hindi:

॥ श्रीशिवकामसुन्दरीसहस्रनामावलिः रुद्रयामलान्तर्गता ॥
अस्य श्रीशिवकामसुन्दरीसहस्रनाम स्तोत्रमहामन्त्रस्य ।
सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीमच्छिवकामसुन्दरी देवता ।
वाग्भवस्वरूपं ऐं बीजम् । चिदानन्दात्मकं ह्रीं शक्तिः ।
कामराजात्मकं क्लीं कीलकम् ।
श्रीमच्छिवकामसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

षोडशार्णमूलेन न्यासः ॥

षोडशार्णध्यानमेव अत्रापि ध्यानम् ।

सिद्धसिद्धनवरत्नभूमिके कल्पवृक्षनववाटिसंवृते ।
रत्नसालवनसम्भृतेऽनिशं तत्र वापिशतकेन संवृते ॥

रत्नवाटिमणिमण्डपेऽरुणे चपडभानुशतकोटिभासुरे ।
आदिशैवमणिमञ्चके परे शङ्कराङ्कमणिपीठकोपरि ॥

कादिहान्तमनुरूपिणीं शिवां संस्मरेच्च शिवकामसुन्दरीम् ॥

लमित्यादि पञ्चपूजा ॥

शिवकामेश्वरीनामसाहस्रस्तोत्रमुत्तमम् ।
प्रोच्यते श्रद्धया देवि श‍ृणुष्वावहिता प्रिये ॥

कामेशीनामसाहस्रे सदाशिव ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् देवता च शिवकामेश्वरी स्मृता ॥

ऐं बीजं कीलकं क्लीं च ह्रीं शक्तिः कथिता प्रिये ।
न्यासध्यानादिकं सर्वं षोडशार्णवदीरितम् ॥

अनेन स्तोत्रराजेन सर्वाभीष्टं लभेत ना ॥

अथ सहस्रनामावलिः ॥

ॐ श्रीशिवायै नमः ।
ॐ शिवकाम्यै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ आनन्दसिन्धवे नमः ।
ॐ आनन्दायै नमः ।
ॐ आनन्दमूर्तये नमः ।
ॐ विनोदिन्यै नमः ।
ॐ त्रैपुर्यै सुन्दर्यै नमः ।
ॐ प्रेमपाथोनिधये नमः । १० ।

ॐ अनुत्तमायै नमः ।
ॐ रामोल्लासायै नमः ।
ॐ परायै नमः ।
ॐ भूत्यै नमः ।
ॐ विभूत्यै नमः ।
ॐ शङ्करप्रियायै नमः ।
ॐ श‍ृङ्गारमूर्तये नमः ।
ॐ विरतायै नमः ।
ॐ रसानुभवरोचनायै नमः ।
ॐ परमानन्दलहर्यै नमः । २० ।

ॐ रत्यै नमः ।
ॐ अङ्गवत्यै नमः ।
ॐ सत्यै नमः ।
ॐ रङ्गमालायै नमः ।
ॐ अङ्गकलाकेल्यै नमः ।
ॐ कैवल्यदायै नमः ।
ॐ कलायै नमः ।
ॐ रसकल्पायै नमः ।
ॐ कल्पलतायै नमः ।
ॐ कुतूहलवत्यै नमः । ३० ।

ॐ गत्यै नमः ।
ॐ विनोददुग्धायै नमः ।
ॐ सुस्निग्धायै नमः ।
ॐ मुग्धमूर्तये नमः ।
ॐ मनोहरायै नमः ।
ॐ बालार्ककोटिकिरणायै नमः ।
ॐ चन्द्रकोटिसुशीतलायै नमः ।
ॐ स्रवत्पीयूषदिग्धाङ्ग्यै नमः ।
ॐ सङ्गीत नटिकायै नमः ।
ॐ शिवायै नमः । ४० ।

ॐ कुरङ्गनयनायै नमः ।
ॐ कान्तायै नमः ।
ॐ सुखसन्तत्यै नमः ।
ॐ इन्दिरायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ मधुरापाङ्गायै नमः ।
ॐ रञ्जन्यै नमः ।
ॐ रमणीरत्यै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ राज्ञ्यै नमः । ५० ।

ॐ महेन्द्रपरिवन्दितायै नमः ।
ॐ प्रपञ्चगत्यै नमः ।
ॐ इशान्यै नमः ।
ॐ सामरस्यपरायणायै नमः ।
ॐ हंसोल्लासायै नमः ।
ॐ हंसगत्यै नमः ।
ॐ शिञ्जत्कनकनूपुरायै नमः ।
ॐ मेरुमन्दरवक्षोजायै नमः ।
ॐ सृणिपाशवरायुधायै नमः ।
ॐ शङ्खकोदण्डसस्ताब्जपाणिद्वयविराजितायै नमः । ६० ।

ॐ चन्द्रबिम्बाननायै नमः ।
ॐ चारुमकुटोत्तंसचन्द्रिकायै नमः ।
ॐ सिन्दूरतिलकायै नमः ।
ॐ चारुधम्मिल्लामलमालिकायै नमः ।
ॐ मन्दारदाममुदितायै नमः ।
ॐ रक्तपुष्पविभूषितायै नमः ।
ॐ सुवर्णाभरणप्रीतायै नमः ।
ॐ मुक्तादाममनोहरायै नमः ।
ॐ ताम्बूलपूरवदनायै नमः ।
ॐ मदनानन्दमानसायै नमः । ७० ।

ॐ सुखाराध्यायै नमः ।
ॐ तपस्सारायै नमः ।
ॐ कृपावारिधये नमः ।
ॐ इश्वर्यै नमः ।
ॐ वक्षःस्थललसन्मग्नायै नमः ।
ॐ प्रभायै नमः ।
ॐ मधुरसोन्मुखायै नमः ।
ॐ बिन्दुनादात्मिकायै नमः ।
ॐ चारुरसितायै नमः ।
ॐ तुर्यरूपिण्यै नमः । ८० ।

ॐ कमनीयाकृत्यै नमः ।
ॐ धन्यायै नमः ।
ॐ शङ्करप्रीतिमञ्जर्यै नमः ।
ॐ कन्यायै नमः ।
ॐ कलावत्यै नमः ।
ॐ मात्रे नमः ।
ॐ गजेन्द्रगमनायै नमः ।
ॐ शुभायै नमः ।
ॐ कुमार्यै नमः ।
ॐ करभोरु श्रीयै नमः । ९० ।

ॐ रूपलक्ष्मीयै नमः ।
ॐ सुराजितायै नमः ।
ॐ सन्तोषसीमायै नमः ।
ॐ सम्पत्त्यै नमः ।
ॐ शातकुम्भप्रियायै नमः ।
ॐ द्युत्यै नमः ।
ॐ परिपूर्णायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ विधात्र्यै नमः ।
ॐ बलवर्धिन्यै नमः । १०० ।

ॐ सार्वभौमनृपश्रीयै नमः ।
ॐ साम्राज्यगतिरासिकायै नमः ।
ॐ सरोजाक्ष्यै नमः ।
ॐ दीर्घदृष्ट्यै नमः ।
ॐ सौचक्षणविचक्षणायै नमः ।
ॐ रङ्गस्रवन्त्यै नमः ।
ॐ रसिकायै नमः ।
ॐ प्रधानरसरूपिण्यै नमः ।
ॐ रससिन्धवे नमः ।
ॐ सुगात्र्यै नमः । ११० ।

ॐ युवत्यै नमः ।
ॐ मैथुनोन्मुख्यै नमः ।
ॐ निरन्तरायै नमः ।
ॐ रसासक्तायै नमः ।
ॐ शक्तियै नमः ।
ॐ त्रिभुवनात्मिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कामनिष्ठायै नमः ।
ॐ कामेश्यै नमः ।
ॐ भगमङ्गलायै नमः । १२० ।

ॐ सुभगायै नमः ।
ॐ भगिन्यै नमः ।
ॐ भोग्यायै नमः ।
ॐ भाग्यदायै नमः ।
ॐ भगदायै नमः ।
ॐ भगायै नमः ।
ॐ भगलिङ्गानन्दकलायै नमः ।
ॐ भगमध्यनिवासिन्यै नमः ।
ॐ भगरूपायै नमः ।
ॐ भगमय्यै नमः । १३० ।

ॐ भगयन्त्रायै नमः ।
ॐ भगोत्तमायै नमः ।
ॐ योनये नमः ।
ॐ जयायै नमः ।
ॐ कामकलायै नमः ।
ॐ कुलामृतपरायणायै नमः ।
ॐ कुलकुण्डालयायै नमः ।
ॐ सूक्ष्मजीवस्फुलिङ्गरूपिण्यै नमः ।
ॐ मूलस्थितायै नमः ।
ॐ केलिरतायै नमः । १४० ।

ॐ वलयाकृत्ये नमः ।
ॐ इडितायै नमः ।
ॐ सुषुम्नायै नमः ।
ॐ कमलानन्दायै नमः ।
ॐ चित्रायै नमः ।
ॐ कूर्मगतये नमः ।
ॐ गिरये नमः ।
ॐ सितारुणायै नमः ।
ॐ सिन्धुरूपायै नमः ।
ॐ प्रवेगायै नमः । १५० ।

ॐ निर्धन्यै नमः ।
ॐ क्षमायै नमः ।
ॐ धण्टाकोटिरसारावायै नमः ।
ॐ रविबिम्बोत्थितायै नमः ।
ॐ अद्भूतायै नमः ।
ॐ नादान्तलीनायै नमः ।
ॐ सम्पूर्णायै नमः ।
ॐ प्रणवायै नमः ।
ॐ बहुरूपिण्यै नमः ।
ॐ भृङ्गारावायै नमः । १६० ।

ॐ वशगत्यै नमः ।
ॐ वागीश्यै नमः ।
ॐ मधुरध्वन्यै नमः ।
ॐ वर्णमालायै नमः ।
ॐ सिद्धिकलायै नमः ।
ॐ षट्चक्रक्रमवासिन्यै नमः ।
ॐ मणिपूरस्थितायै नमः ।
ॐ स्निग्धायै नमः ।
ॐ कूर्मचक्रपरायणायै नमः ।
ॐ मूलकेलिरतायै नमः । १७० ।

ॐ साध्व्यै नमः ।
ॐ स्वाधिष्ठाननिवासिन्यै नमः ।
ॐ अनाहतगतये नमः ।
ॐ दीपायै नमः ।
ॐ शिवानन्दमयद्युत्यै नमः ।
ॐ विरुद्धरुधायै नमः ।
ॐ सम्बुद्धायै नमः ।
ॐ जीवभोक्त्र्यै नमः ।
ॐ स्थलीरतायै नमः ।
ॐ आज्ञाचक्रोज्ज्वलस्फारस्फुरन्त्यै नमः । १८० ।

ॐ निर्गतद्विषायै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रकोटीश्यै नमः ।
ॐ सूर्यकोटिप्रभामय्यै नमः ।
ॐ पद्मरागारुणच्छायायै नमः ।
ॐ नित्याह्लादमय्ये नमः ।
ॐ प्रभायै नमः ।
ॐ महाशून्यालयायै नमः ।
ॐ चन्द्रमण्डलामृतनन्दितायै नमः ।
ॐ कान्ताङ्गसङ्गमुदितायै नमः । १९० ।

ॐ सुधामाधुर्यसम्भृतायै नमः ।
ॐ महाचन्द्रस्मितालिसायै नमः ।
ॐ मृत्पात्रस्थायै नमः ।
ॐ सुधाद्युत्यै नमः ।
ॐ स्रवत्पीमूषसंसक्तायै नमः ।
ॐ शश्वत्कुण्डालयायै नमः ।
ॐ भवायै नमः ।
ॐ श्रेयोद्युत्यै नमः ।
ॐ प्रत्यगर्थायै नमः ।
ॐ सेवाफलवत्यै नमः । २०० ।

ॐ मह्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ शैवायै नमः ।
ॐ शङ्कर्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ विभवे नमः ।
ॐ स्वयम्भू नमः ।
ॐ स्वप्रियायै नमः ।
ॐ स्वीयायै नमः । २१० ।

ॐ स्वकीयायै नमः ।
ॐ जनमातृकायै नमः ।
ॐ सुरामायै नमः ।
ॐ स्वप्रियायै नमः ।
ॐ श्रेयसे नमः ।
ॐ स्वाधिकाराधिनायिकायै नमः ।
ॐ मण्डलायै नमः ।
ॐ जनन्यै नमः ।
ॐ मान्यायै नमः ।
ॐ सर्वमङ्गलसन्तत्यै नमः । २२० ।

ॐ भद्रायै नमः ।
ॐ भगवत्यै नमः ।
ॐ भाव्यायै नमः ।
ॐ कलितार्धेन्दुभासुरायै नमः ।
ॐ कल्याणललितायै नमः ।
ॐ काम्यायै नमः ।
ॐ कुकर्मकुमतिप्रदायै नमः ।
ॐ कुरङ्गाक्ष्यै नमः ।
ॐ क्षीरनेत्रायै नमः ।
ॐ क्षीरायै नमः । २३० ।

ॐ मधुरसोन्मदायै नमः ।
ॐ वारुणीपानमुदितायै नमः ।
ॐ मदिरामुदितायै नमः ।
ॐ स्थिरायै नमः ।
ॐ कादम्बरीपानरुच्यै नमः ।
ॐ विपाशायै नमः ।
ॐ पशुभावनायै नमः ।
ॐ मुदितायै नमः ।
ॐ ललितापाङ्गायै नमः ।
ॐ दरान्दोलितदीर्घदृक् नमः । २४० ।

ॐ दैत्याकुलानलशिखायै नमः ।
ॐ मनोरथसुधाद्युत्यै नमः ।
ॐ सुवासिन्यै नमः ।
ॐ पीतगात्र्यै नमः ।
ॐ पीनश्रोणिपयोधरायै नमः ।
ॐ सुचारुकबर्यै नमः ।
ॐ दध्युदध्युत्थिमौक्तिकायै नमः ।
ॐ बिम्बाधरद्युत्यै नमः ।
ॐ मुग्धायै नमः ।
ॐ प्रवालोत्तमदीधित्यै नमः । २५० ।

ॐ तिलप्रसूननासाग्रायै नमः ।
ॐ हेममौक्तिककोरकायै नमः ।
ॐ निष्कलङ्केन्दुवदनायै नमः ।
ॐ बालेन्दुवदनोज्वलायै नमः ।
ॐ नृत्यन्त्यै नमः ।
ॐ अञ्जननेत्रान्तायै नमः ।
ॐ प्रस्फुरत्कर्णशष्कुल्यै नमः ।
ॐ भालचन्द्रातपोन्नद्धायै नमः ।
ॐ मणिसूर्यकिरीटिन्यै नमः ।
ॐ कचौघचम्पकश्रेणीमालिनीदाममण्डितायै नमः । २६० ।

ॐ हेममाणिक्य ताटङ्कायै नमः ।
ॐ मणिकाञ्चन कुण्डलायै नमः ।
ॐ सुचारुचुबुकायै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कुण्डावल्यै नमः ।
ॐ रमायै नमः ।
ॐ गङ्गातरङ्गहारोर्म्यै नमः ।
ॐ मत्तकोकिलनिस्वनायै नमः ।
ॐ मृणालविलसद्बाहुपाशाकुशधनुर्धरायै नमः ।
ॐ केयूरकङ्कणश्रेण्यै नमः । २७० ।

ॐ नानामणिमनोरमायै नमः ।
ॐ ताम्रपङ्कजपाणिश्रीयै नमः ।
ॐ नवरत्नप्रभावत्यै नमः ।
ॐ अङ्गुलीयमणिश्रेण्यै नमः ।
ॐ कान्तिमङ्गलसन्तत्यै नमः ।
ॐ मन्दरद्वन्द्वसुकुचायै नमः ।
ॐ रोमराजिभुजङ्गिकायै नमः ।
ॐ गम्भीरनाभ्यै नमः ।
ॐ त्रिवलीभङ्गुरायै नमः ।
ॐ क्षीणमध्यमायै नमः । २८० ।

ॐ रणत्काञ्चीगुणानद्धायै नमः ।
ॐ पट्टांशुकनितम्बिकायै नमः ।
ॐ मेरुसन्धिनितम्बाढ्यायै नमः ।
ॐ गजशुण्डोरुयुग्मयुजे नमः ।
ॐ सुजानुवे नमः ।
ॐ मदनानन्दमयजङ्घाद्वयान्वितायै नमः ।
ॐ गूढगुल्फायै नमः ।
ॐ मञ्जुशिञ्जन्मणिनूपुरमण्डितायै नमः ।
ॐ पदद्वन्द्वजिताम्भोजायै नमः ।
ॐ नखचन्द्रावलीप्रभायै नमः । २९० ।

ॐ सुसीमप्रपदायै नमः ।
ॐ राजंहसमत्तेभमन्दगायै नमः ।
ॐ योगिध्येयपदद्वन्दायै नमः ।
ॐ सौन्दर्यामृतसारिण्यै नमः ।
ॐ लावपयसिन्धवे नमः ।
ॐ सिन्दूरतिलकायै नमः ।
ॐ कुटिलालकायै नमः ।
ॐ साधुसीमन्तिन्यै नमः ।
ॐ सिद्धबुद्धवृन्दारकोदयायै नमः ।
ॐ बालार्ककिरणश्रेणिशोणश्रीयै नमः । ३०० ।

ॐ प्रेमकामधुक् नमः ।
ॐ रसगम्भीरसरस्यै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ रससारसायै नमः ।
ॐ प्रसन्नासन्नवरदायै नमः ।
ॐ शारदायै नमः ।
ॐ भुवि भाग्यदायै नमः ।
ॐ नटराजप्रियायै नमः ।
ॐ विश्वानाद्यायै नमः ।
ॐ नर्तकनर्तक्यै नमः । ३१० ।

ॐ चित्रयन्त्रायै नमः ।
ॐ चित्रतन्त्रायै नमः ।
ॐ चित्रविद्यावलीयत्यै नमः ।
ॐ चित्रकूटायै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ पन्धकूटायै नमः ।
ॐ पञ्चम्यै नमः ।
ॐ चतुष्ट्कूटायै नमः ।
ॐ शम्भुविद्यायै नमः ।
ॐ षट्कूटायै नमः । ३२० ।

ॐ विष्णुपूजितायै नमः ।
ॐ कूटषोडशसम्पन्नायै नमः ।
ॐ तुरीयायै नमः ।
ॐ परमायै कलायै नमः ।
ॐ षोडश्यै नमः ।
ॐ मन्त्रयन्त्राणां ईश्वर्यै नमः ।
ॐ मेरुमण्डलायै नमः ।
ॐ षोडशार्णायै नमः ।
ॐ त्रिवर्णायै नमः ।
ॐ बिन्दुनादस्वरूपिण्यै नमः । ३३० ।

ॐ वर्णातीतायै नमः ।
ॐ वर्णमतायै नमः ।
ॐ शब्दब्रह्ममय्यै नमः ।
ॐ सुखायै नमः ।
ॐ सुखज्योत्स्नानन्दविद्युते नमः ।
ॐ अन्तराकाशदेवतायै नमः ।
ॐ चैतन्यायै नमः ।
ॐ विधिकूटात्मायै नमः ।
ॐ कामेश्यै नमः ।
ॐ स्वप्नदर्शनायै नमः । ३४० ।

ॐ स्वप्नरूपायै नमः ।
ॐ बोधकर्यै नमः ।
ॐ जाग्रत्यै नमः ।
ॐ जागराश्रयायै नमः ।
ॐ स्वप्नाश्रयायै नमः ।
ॐ सुषुप्तिस्थायै नमः ।
ॐ तन्त्रमूर्त्यै नमः ।
ॐ माधव्यै नमः ।
ॐ लोपामुद्रायै नमः ।
ॐ कामराज्ञ्यै नमः । ३५० ।

ॐ माधव्यै नमः ।
ॐ मित्ररूपिण्यै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ नन्दिविद्यायै नमः ।
ॐ भास्वन्मण्डलमध्यगायै नमः ।
ॐ माहेन्द्रस्वर्गसम्पत्त्यै नमः ।
ॐ दूर्वासस्सेवितायै नमः ।
ॐ श्रुत्यै नमः ।
ॐ साधकेन्द्रगत्यै नमः ।
ॐ साध्व्यै नमः । ३६० ।

ॐ सुलिप्तायै नमः ।
ॐ सिद्धिकन्धरायै नमः ।
ॐ पुरत्रयेश्यै नमः ।
ॐ पुरकृते नमः ।
ॐ षष्ठ्यै नमः ।
ॐ परदेवतायै नमः ।
ॐ विघ्नदूर्यै नमः ।
ॐ भूरिगुणायै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ पूजितकामधुहे नमः । ३७० ।

ॐ हेरम्बमात्रे नमः ।
ॐ गणपायै नमः ।
ॐ गुहाम्बायै नमः ।
ॐ आर्यायै नमः ।
ॐ नितम्बिन्यै नमः ।
ॐ एतस्यै नमः ।
ॐ सीमन्तिन्यै नमः ।
ॐ मोक्षदक्षायै नमः ।
ॐ दीक्षितमातृकायै नमः ।
ॐ साधकाम्बायै नमः । ३८० ।

ॐ सिद्धमात्रे नमः ।
ॐ साधकेन्द्रमनोरमायै नमः ।
ॐ यौवनोन्मादिन्यै नमः ।
ॐ तुङ्गस्तन्यै नमः ।
ॐ सुश्रोणिमण्डितायै नमः ।
ॐ पद्मरक्तोत्पलवत्यै नमः ।
ॐ रक्तमाल्यानुलेपनायै नमः ।
ॐ रक्तमाल्यरुचये नमः ।
ॐ दक्षायै नमः ।
ॐ शिखण्डिन्यै नमः । ३९० ।

ॐ अतिसुन्दर्यै नमः ।
ॐ शिखण्डिनृत्यसन्तुष्टायै नमः ।
ॐ शिखण्डिकुलपालिन्यै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ सुरभयै नमः ।
ॐ कमनीयतनवे नमः ।
ॐ शुभायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ त्रीक्षणवत्यै नमः ।
ॐ वसिष्ठालयदेवतायै नमः । ४०० ।

ॐ गोलकेश्यै नमः ।
ॐ लोकेन्द्रायै नमः ।
ॐ नृलोकपरिपालिकायै नमः ।
ॐ हविर्धात्र्यै नमः ।
ॐ देवमात्रे नमः ।
ॐ वृन्दारकपरात्मयुकजे नमः ।
ॐ रुद्रमात्रे नमः ।
ॐ रुद्रपत्न्यै नमः ।
ॐ मदोद्गारभरायै नमः ।
ॐ क्षित्यै नमः । ४१० ।

ॐ दक्षिणायै नमः ।
ॐ यज्ञसम्पत्त्यै नमः ।
ॐ स्वबलायै नमः ।
ॐ धीरनन्दितायै नमः ।
ॐ क्षीरपूर्णार्णवगत्यै नमः ।
ॐ सुधायोनये नमः ।
ॐ सुलोचनायै नमः ।
ॐ रमायै नमः ।
ॐ तुङ्गायै नमः ।
ॐ सदासेव्यायै नमः । ४२० ।

ॐ सुरसङ्घदयायै नमः ।
ॐ उमायै नमः ।
ॐ सुचरित्रायै नमः ।
ॐ चित्रवरायै नमः ।
ॐ सुस्तन्यै नमः ।
ॐ वत्सवत्सलायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ रजोयुक्तायै नमः ।
ॐ रञ्जितायै नमः ।
ॐ रङ्गमालिकायै नमः । ४३० ।

ॐ रक्तप्रियायै नमः ।
ॐ सुरक्तायै नमः ।
ॐ रतिरङ्गस्वरूपिण्यै नमः ।
ॐ रजश्शुक्लाक्षिकायै नमः ।
ॐ निष्ठायै नमः ।
ॐ ऋतुस्नातायै नमः ।
ॐ रतिप्रियायै नमः ।
ॐ भाव्यभाव्यायै नमः ।
ॐ कामकेल्यै नमः ।
ॐ स्मरभूवे नमः । ४४० ।

ॐ स्मरजीविकायै नमः ।
ॐ समाधिकुसुमानन्दायै नमः ।
ॐ स्वयम्भुकुसुमप्रियायै नमः ।
ॐ स्वयम्भुप्रेमसन्तुष्टायै नमः ।
ॐ स्वयम्भूनिन्दकान्तकायै नमः ।
ॐ स्वयम्भुस्थायै नमः ।
ॐ शक्तिपुटायै नमः ।
ॐ रवये नमः ।
ॐ सर्वस्वपेटिकायै नमः ।
ॐ अत्यन्तरसिकायै नमः । ४५० ।

ॐ दूत्यै नमः ।
ॐ विदग्धायै नमः ।
ॐ प्रीतिपूजितायै नमः ।
ॐ तूलिकायन्त्रनिलयायै नमः ।
ॐ योगपीठनिवासिन्यै नमः ।
ॐ सुलक्षणायै नमः ।
ॐ दृश्यरूपायै नमः ।
ॐ सर्व लक्षणलक्षितायै नमः ।
ॐ नानालङ्कारसुभगायै नमः ।
ॐ पञ्चकामशरार्चितायै नमः । ४६० ।

ॐ ऊर्ध्वत्रिकोणयन्त्रस्थायै नमः ।
ॐ बालायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ गुणाध्यक्षायै नमः ।
ॐ कुलाध्यक्षायै नमः ।
ॐ लक्ष्मीयै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ वसन्तमदायै नमः ।
ॐ उत्तुङ्गस्तन्यै नमः ।
ॐ कुचभरोन्नतायै नमः । ४७० ।

ॐ कलाधरमुख्यै नमः ।
ॐ मूर्धपाथोधये नमः ।
ॐ कलावत्यै नमः ।
ॐ दक्षपादादिशीर्षान्तषोडशस्वरसंयुतायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ पूर्त्यै नमः ।
ॐ रत्यै नमः ।
ॐ भूत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ मनोरमायै नमः । ४८० ।

ॐ विमलायै नमः ।
ॐ योगिन्यै नमः ।
ॐ घोरायै नमः ।
ॐ मदनोन्मादिन्यै नमः ।
ॐ मदायै नमः ।
ॐ मोदिन्यै नमः ।
ॐ दीपिन्यै नमः ।
ॐ शोषिण्यै नमः ।
ॐ वशङ्कर्यै नमः ।
ॐ रजन्यन्तायै नमः । ४९० ।

ॐ कामकलायै नमः ।
ॐ लसत्कमलधारिण्यै नमः ।
ॐ वाममूर्धादिपादान्तषोडशस्वरसं युतायै नमः ।
ॐ पूषरूपायै नमः ।
ॐ सुमनसां सेव्यायै नमः ।
ॐ प्रीत्यै नमः ।
ॐ द्युत्यै नमः ।
ॐ ऋद्ध्यै नमः ।
ॐ सौदामिन्यै नमः ।
ॐ चिदे नमः । ५०० ।

ॐ हंसमालावृतायै नमः ।
ॐ शशिन्यै नमः ।
ॐ स्वस्थायै नमः ।
ॐ सम्पूर्णमण्डलोदयायै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ अमृतपूर्णायै नमः ।
ॐ भगमालास्वरूपिण्यै नमः ।
ॐ भगयन्त्राश्रयायै नमः ।
ॐ शम्भुरूपायै नमः ।
ॐ संयोगयोगिन्यै नमः । ५१० ।

ॐ द्राविण्यै नमः ।
ॐ बीजरूपायै नमः ।
ॐ अक्षुब्धायै नमः ।
ॐ साधकप्रियायै नमः ।
ॐ रजः पीठमय्यै नमः ।
ॐ नाद्यायै नमः ।
ॐ सुखदायै नमः ।
ॐ वाञ्छितप्रदायै नमः ।
ॐ रजस्संविदे नमः ।
ॐ रजश्शक्त्यै नमः । ५२० ।

ॐ शुक्लबिन्दुस्वरूपिण्यै नमः ।
ॐ सर्वसाक्ष्यै नमः ।
ॐ सामरस्यायै नमः ।
ॐ शिवशक्तिमय्यै नमः ।
ॐ प्रभायै नमः ।
ॐ संयोगानन्दनिलयायै नमः ।
ॐ संयोगप्रीतिमातृकायै नमः ।
ॐ संयोगकुसुमानन्दायै नमः ।
ॐ संयोगयोगपद्धत्यै नमः ।
ॐ संयोगसुखदावस्थायै नमः । ५३० ।

ॐ चिदानन्दार्ध्यसेवितायै नमः ।
ॐ अर्घ्यपूज्यायै नमः ।
ॐ सम्पत्त्यै नमः ।
ॐ अर्ध्यदाभिन्नरूपिण्यै नमः ।
ॐ सामरस्यपरायै नमः ।
ॐ प्रीतायै नमः ।
ॐ प्रियसङ्गमरङ्गिण्यै नमः ।
ॐ ज्ञानदूत्यै नमः ।
ॐ ज्ञानगम्यायै नमः ।
ॐ ज्ञानयोनये नमः । ५४० ।

ॐ शिवालायायै नमः ।
ॐ चित्कलायै नमः ।
ॐ सत्कलायै नमः ।
ॐ ज्ञानकलायै नमः ।
ॐ संवित्कलात्मिकायै नमः ।
ॐ कलाचतुष्टय्यै नमः ।
ॐ पद्मवासिन्यै नमः ।
ॐ सूक्ष्मरूपिण्यै नमः ।
ॐ हंसकेलिस्थलस्वस्थायै नमः ।
ॐ हंसद्वयविकासिन्यै नमः । ५५० ।

ॐ विरागितायै नमः ।
ॐ मोक्षकलायै नमः ।
ॐ परमात्मकलावत्यै नमः ।
ॐ विद्याकलायै नमः ।
ॐ अन्तरात्मस्थायै नमः ।
ॐ चतुष्टयकलावत्यै नमः ।
ॐ विद्यासन्तोषणायै नमः ।
ॐ तृप्त्यै नमः ।
ॐ परब्रह्मप्रकाशिन्यै नमः ।
ॐ परमात्मपरायै नमः । ५६० ।

ॐ वस्तुलीनायै नमः ।
ॐ शक्तिचतुष्टय्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ बोधकलायै नमः ।
ॐ व्याप्त्यै नमः ।
ॐ परज्ञानात्मिकायै कलायै नमः ।
ॐ पश्यन्त्यै नमः ।
ॐ परमात्मस्थायै नमः ।
ॐ अन्तरात्मकलायै नमः ।
ॐ शिवायै नमः । ५७० ।

ॐ मध्यमायै नमः ।
ॐ वैखर्यै नमः ।
ॐ आत्मकलायै नमः ।
ॐ आनन्दकलावत्यै नमः ।
ॐ तरुण्यै नमः ।
ॐ तारकायै नमः ।
ॐ तारायै नमः ।
ॐ शिवलिङ्गालयायै नमः ।
ॐ आत्मविदे नमः ।
ॐ परस्परस्वभावायै नमः । ५८० ।

ॐ ब्रह्मज्ञानविनोदिन्यै नमः ।
ॐ रामोल्लासायै नमः ।
ॐ दुर्धर्षायै नमः ।
ॐ परमार्घ्यप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ जात्यादिरहितायै नमः ।
ॐ योगिन्यै नमः ।
ॐ आनन्दमात्रपद्धत्यै नमः ।
ॐ कान्तायै नमः ।
ॐ शान्तायै नमः । ५९० ।

ॐ कलितायै नमः ।
ॐ होमपद्धत्यै नमः ।
ॐ दिव्यभावप्रदायै नमः ।
ॐ दिव्यायै नमः ।
ॐ वीरसूवे नमः ।
ॐ वीरभावदायै नमः ।
ॐ पशुदेहायै नमः ।
ॐ वीरगत्यै नमः ।
ॐ वीरहंसमनोदयायै नमः ।
ॐ मूर्धाभिषिक्तायै नमः । ६०० ।

ॐ राजश्रीयै नमः ।
ॐ क्षत्रियोत्तममातृकायै नमः ।
ॐ शस्त्रास्त्रकुशलायै नमः ।
ॐ शोभायै नमः ।
ॐ रथस्थायै नमः ।
ॐ युद्धजीविकायै नमः ।
ॐ अश्वारूढायै नमः ।
ॐ गजारूढायै नमः ।
ॐ भूतोक्त्यै नमः ।
ॐ सुरसुश्रयायै नमः । ६१० ।

ॐ राजनीत्यै नमः ।
ॐ शान्तिकर्त्र्य नमः ।
ॐ चतुरङ्गबलाश्रयायै नमः ।
ॐ पोषिण्यै नमः ।
ॐ शरणायै नमः ।
ॐ पद्मपालिकायै नमः ।
ॐ जयपालिकायै नमः ।
ॐ विजयायै नमः ।
ॐ योगिन्यै नमः ।
ॐ यात्रायै नमः । ६२० ।

ॐ परसैन्यविमर्दिन्यै नमः ।
ॐ पूर्णवित्तायै नमः ।
ॐ वित्तगम्यायै नमः ।
ॐ वित्तसञ्चय शालिन्यै नमः ।
ॐ महेश्यै नमः ।
ॐ राज्यभोगायै नमः ।
ॐ गणिकागणभोगभृते नमः ।
ॐ उकारिण्यै नमः ।
ॐ रमायोग्यायै नमः ।
ॐ मन्दसेव्यायै नमः । ६३० ।

ॐ पदात्मिकायै नमः ।
ॐ सैन्यश्रेण्यै नमः ।
ॐ शौर्यरतायै नमः ।
ॐ पताकाध्वजमालिन्यै नमः ।
ॐ सच्छात्रयै नमः ।
ॐ चामरश्रेण्यै नमः ।
ॐ युवराजविवर्धिन्यै नमः ।
ॐ पूजासर्वस्वसम्भारायै नमः ।
ॐ पूजापालनलालसायै नमः ।
ॐ पूजाभिपूजनीयायै नमः । ६४० ।

ॐ राजकार्यपरायणायै नमः ।
ॐ ब्रह्मक्षत्रमय्यै नमः ।
ॐ सोमसूर्यवह्निस्वरूपिण्यै नमः ।
ॐ पौरोहित्यप्रियायै नमः ।
ॐ साध्व्यै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ यन्त्रसन्तत्यै नमः ।
ॐ सोमपानजनाप्रीतायै नमः ।
ॐ योजनाध्वगतिक्षमायै नमः ।
ॐ प्रीतिग्रहायै नमः । ६५० ।

ॐ परायै दात्र्यै नमः ।
ॐ श्रेष्ठजात्यै नमः ।
ॐ सताङ्गत्यै नमः ।
ॐ गायत्र्यै नमः ।
ॐ वेदविद्ध्येयायै नमः ।
ॐ दीक्षायै नमः ।
ॐ सन्तोषतर्पणायै नमः ।
ॐ रत्नदीधितिविद्युत्सहसनायै नमः ।
ॐ वैश्यजीविकायै नमः ।
ॐ कृषये नमः । ६६० ।

ॐ वाणिज्यभूत्यै नमः ।
ॐ वृद्धिदायै नमः ।
ॐ वृद्धसेवितायै नमः ।
ॐ तुलाधारायै नमः ।
ॐ स्वप्नकामायै नमः ।
ॐ मानोन्मानपरायणायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ विप्रगत्यै नमः ।
ॐ कर्मकर्यै नमः ।
ॐ कौतुकपूजितायै नमः । ६७० ।

ॐ नानाभिचारचतुरायै नमः ।
ॐ वारस्त्रीश्रीयै नमः ।
ॐ कलामय्यै नमः ।
ॐ सुकर्णधारायै नमः ।
ॐ नौपारायै नमः ।
ॐ सर्वाशायै नमः ।
ॐ रतिमोहिन्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ विन्ध्यवनस्थायै नमः ।
ॐ कालदर्पनिषूदिन्यै नमः । ६८० ।

ॐ भूमारशमन्यै नमः ।
ॐ कृष्णायै नमः ।
ॐ रक्षोराक्षससाहसायै नमः ।
ॐ विविधोत्पातशमन्यै नमः ।
ॐ समयायै नमः ।
ॐ सुरसेवितायै नमः ।
ॐ पञ्चावयववाक्यश्रीयै नमः ।
ॐ प्रपञ्चोद्यानचन्द्रिकायै नमः ।
ॐ सिद्धिसन्दोहसंसिद्धयोगिनीवृन्दसेवितायै नमः ।
ॐ नित्याषोडशिकारूपायै नमः । ६९० ।

ॐ कामेश्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ निराधारायै नमः ।
ॐ वह्निमण्डलवासिन्यै नमः ।
ॐ महावज्रेश्वर्यै नमः ।
ॐ नित्यशिवदूतीति विश्रुतायै नमः ।
ॐ त्वरितायै नमः ।
ॐ प्रथिताख्यातायै नमः ।
ॐ विख्यातायै नमः । ७०० ।

ॐ कुलसुन्दर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नीलपताकायै नमः ।
ॐ विजयायै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ ज्वालामालायै नमः ।
ॐ विचित्रायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ गुरुवृन्दायै नमः ।
ॐ परगुरवे नमः । ७१० ।

ॐ प्रकाशानन्ददायिन्यै नमः ।
ॐ शिवानन्दायै नमः ।
ॐ नादरूपायै नमः ।
ॐ शक्रानन्दस्वरूपिण्यै नमः ।
ॐ देव्यानन्दायै नमः ।
ॐ नादमय्यै नमः ।
ॐ कौलेशानन्दनाथिन्यै नमः ।
ॐ शुक्लदेव्यानन्दनाथायै नमः ।
ॐ कुलेशानन्ददायिन्यै नमः ।
ॐ दिव्यौघसेवितायै नमः । ७२० ।

ॐ दिव्यभोगदानपरायणायै नमः ।
ॐ क्रीडानन्दायै नमः ।
ॐ क्रीडमानायै नमः ।
ॐ समयानन्ददायिन्यै नमः ।
ॐ वेदानन्दायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ सहजानन्ददायिन्यै नमः ।
ॐ सिद्धौघगुरुरूपायै नमः ।
ॐ अपरायै गुरुरूपिण्यै नमः ।
ॐ गगनानन्दनाथायै नमः । ७३० ।

ॐ विश्वाद्यानन्ददायिन्यै नमः ।
ॐ विमलानन्दनाथायै नमः ।
ॐ मदनानन्ददायिन्यै नमः ।
ॐ भुवनानन्दनाथायै नमः ।
ॐ लीलोद्यानप्रियायै नमः ।
ॐ गत्यै नमः ।
ॐ स्वात्मान्दविनोदायै नमः ।
ॐ प्रियाद्यानन्दनाथिन्यै नमः ।
ॐ मानवाद्यायै नमः ।
ॐ गुरुश्रेष्ठायै नमः । ७४० ।

ॐ परमेष्ठिगुरुप्रभायै नमः ।
ॐ परमाद्यायै नमः ।
ॐ गुरुवे नमः ।
ॐ शक्त्यै नमः ।
ॐ स्वगुरोः किर्तनप्रियायै नमः ।
ॐ त्रैलोक्यमोहनाख्यायै नमः ।
ॐ सर्वाशापरिपूरकायै नमः ।
ॐ सर्वसङ्क्षोभिण्यै नमः ।
ॐ पूर्वाम्नायचक्रत्रयालयायै नमः ।
ॐ सर्वसौभाग्यदात्र्यै नमः । ७५० ।

ॐ सर्वार्थसाधकप्रियायै नमः ।
ॐ सर्वरक्षाकर्यै नमः ।
ॐ साधवे नमः ।
ॐ दक्षिणाम्नायदेवतायै नमः ।
ॐ मध्यचक्रैकनिलयायै नमः ।
ॐ पश्चिमाम्नायदेवतायै नमः ।
ॐ नवचक्रकृतावासायै नमः ।
ॐ कौबेराम्नायदेवतायै नमः ।
ॐ बिन्दुचक्रकृतायासायै नमः ।
ॐ मध्यसिंहासनेश्वर्यै नमः । ७६० ।

ॐ श्रीविद्यायै नमः ।
ॐ नवदुर्गायै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ सर्वसाम्राज्यलक्ष्म्यै नमः ।
ॐ अष्टलक्ष्म्यै नमः ।
ॐ संश्रुतायै नमः ।
ॐ शैलेन्द्रतनयायै नमः ।
ॐ ज्योतिषे नमः ।
ॐ निष्कलायै नमः ।
ॐ शाम्भव्यै नमः । ७७० ।

ॐ उमायै नमः ।
ॐ अजपायै नमः ।
ॐ मातृकायै नमः ।
ॐ शुक्लवर्णायै नमः ।
ॐ षडाननायै नमः ।
ॐ पारिजातेश्वर्यै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ पञ्चबाणदायै नमः ।
ॐ पञ्चकल्पलतायै नमः ।
ॐ त्र्यक्षर्यै नमः । ७८० ।

ॐ मूलपीठिकायै नमः ।
ॐ सुधाश्रिये नमः ।
ॐ अमृतेशान्यै नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ कामदुहे नमः ।
ॐ पाशहस्तायै नमः ।
ॐ सिद्धलक्ष्म्यै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ वाराह्यै नमः । ७९० ।

ॐ नवरत्नानामीश्वर्यै नमः ।
ॐ प्रकीर्तिदायै नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ कोशरूपायै नमः ।
ॐ सैन्धव्यै नमः ।
ॐ शिवदर्शनायै नमः ।
ॐ परापरस्वामिन्यै नमः ।
ॐ शाक्तदर्शनविश्रुतायै नमः ।
ॐ ब्रह्मदर्शनरूपायै नमः ।
ॐ शिवदर्शनरूपिण्यै नमः । ८०० ।

ॐ विष्णुदर्शनरूपायै नमः ।
ॐ स्रष्टॄदर्शनरूपिण्यै नमः ।
ॐ सौरदर्शनरूपायै नमः ।
ॐ स्थितिचक्र कृताश्रयायै नमः ।
ॐ बौद्धदर्शनरूपायै नमः ।
ॐ तुरीयायै नमः ।
ॐ बहुरूपिण्यै नमः ।
ॐ तत्वमुद्रास्वरूपायै नमः ।
ॐ प्रसन्नायै नमः ।
ॐ ज्ञानमातृकायै नमः । ८१० ।

ॐ सर्वोपचारसन्तुष्टायै नमः ।
ॐ हृन्मय्यै नमः ।
ॐ शीर्षदेवतायै नमः ।
ॐ शिखास्थितायै नमः ।
ॐ वर्ममय्यै नमः ।
ॐ नेत्रत्रयविलासिन्यै नमः ।
ॐ अस्त्रस्थायै नमः ।
ॐ चतुरस्रस्थायै नमः ।
ॐ द्वारस्थायै नमः ।
ॐ द्वारदेवतायै नमः । ८२० ।

ॐ अणिमायै नमः ।
ॐ पश्चिमस्थायै नमः ।
ॐ दक्षिणद्वारदेवतायै नमः ।
ॐ वशित्वायै नमः ।
ॐ वायुकोणस्थायै नमः ।
ॐ प्राकाम्यायै नमः ।
ॐ इशानदेवतायै नमः ।
ॐ महिमायै नमः ।
ॐ पूर्वनाथायै नमः ।
ॐ लघिमायै नमः । ८३० ।

ॐ उत्तरदेवतायै नमः ।
ॐ अग्निकोणस्थगरिमायै नमः ।
ॐ प्राप्त्यै नमः ।
ॐ र्नैऋतिवासिन्यै नमः ।
ॐ ईशित्वसिद्धिसुरथायै नमः ।
ॐ सर्वकामाये नमः ।
ॐ उर्ध्ववासिन्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ कौमार्यै नमः । ८४० ।

ॐ वैष्णव्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ एन्द्र्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ वामायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ क्षोभिण्यै नमः ।
ॐ द्राविण्यै नमः ।
ॐ रौद्र्यै नमः । ८५० ।

ॐ काल्यै नमः ।
ॐ उन्मादनकारिण्यै नमः ।
ॐ खेचरायै नमः ।
ॐ कालकरण्यै नमः ।
ॐ बलानां विकरण्यै नमः ।
ॐ मनोन्मन्यै नमः ।
ॐ सर्वभूतदमन्यै नमः ।
ॐ सर्वसिद्धिदायै नमः ।
ॐ बलप्रमथिन्ये शक्त्यै नमः ।
ॐ बुद्ध्याकर्षणरूपिण्यै नमः । ८६० ।

ॐ अहङ्काराकर्षिण्यै नमः ।
ॐ शब्दाकर्षणरूपिण्यै नमः ।
ॐ स्पर्शाकर्षणरूपायै नमः ।
ॐ रूपाकर्षणरूपिण्यै नमः ।
ॐ रसाकर्षणरूपायै नमः ।
ॐ गन्धाकर्षणरूपिण्यै नमः ।
ॐ चित्राकर्षणरूपायै नमः ।
ॐ धैर्याकर्षणरूपिण्यै नमः ।
ॐ स्मृत्याकर्षणरूपायै नमः ।
ॐ नामाकर्षणरुपिण्यै नमः । ८७० ।

ॐ बीजाकर्षणरूपायै नमः ।
ॐ आत्माकर्षणरूपिण्यै नमः ।
ॐ अमृताकर्षिण्यै नमः ।
ॐ शरीराकर्षण्यै नमः ।
ॐ षोडशस्वरसम्पन्नायै नमः ।
ॐ स्रवत्पीयूषमण्डितायै नमः ।
ॐ त्रिपुरेश्यै नमः ।
ॐ सिद्धिदात्र्यै नमः ।
ॐ कलादर्शनवासिन्यै नमः ।
ॐ सर्वसङ्क्षोभचक्रेश्यै नमः । ८८० ।

ॐ गुह्यतराभिधायै शक्त्ये नमः ।
ॐ अनङ्गकुसुमाशक्त्यै नमः ।
ॐ अनङ्गमेखलायै नमः ।
ॐ अनङ्गमदनाये नमः ।
ॐ अङ्गमदनातुररूपिण्यै नमः ।
ॐ अनङ्गरेखायै नमः ।
ॐ अनङ्गवेगा नमः ।
ॐ अनङ्गाकुशाभिधायै नमः ।
ॐ अनङ्गमालिन्यै नमः ।
ॐ अष्टवर्गाधिगामिन्यै नमः । ८९० ।

ॐ वस्वष्टककृतावासायै नमः ।
ॐ श्रीमत्त्रिपुरसुन्दर्यै नमः ।
ॐ सर्वसाम्राज्यसुभगायै नमः ।
ॐ सर्वभाग्यप्रदेश्वर्यै नमः ।
ॐ संप्रदायेश्वर्यै नमः ।
ॐ सर्वसङ्क्षोभणकर्यै नमः ।
ॐ सर्वविद्रावण्यै नमः ।
ॐ सर्वाकर्षिण्यै नमः ।
ॐ रूपकारिण्यै नमः ।
ॐ सर्वाह्लादनशक्त्यै नमः । ९०० ।

ॐ सर्वसम्मोहिन्यै नमः ।
ॐ सर्वस्तम्भनशक्त्यै नमः ।
ॐ सर्वजृम्भणकारिण्यै नमः ।
ॐ सर्ववश्यकशक्त्यै नमः ।
ॐ सर्वानुरञ्जन्यै नमः ।
ॐ सर्वोन्मादनशक्त्यै नमः ।
ॐ सर्वार्थसाधिकायै नमः ।
ॐ सर्वसम्पत्तिदायै नमः ।
ॐ सर्वमातृमय्यै नमः ।
ॐ सर्वद्वन्द्वक्षयकर्यै नमः । ९१० ।

ॐ त्रिपुरवसिन्यै सिद्ध्ये नमः ।
ॐ चतुर्दशारचक्रेश्यै नमः ।
ॐ कुलयोगसमन्वयायै नमः ।
ॐ सर्वसिद्धिप्रदायै नमः ।
ॐ सर्वसम्पत्प्रदायै नमः ।
ॐ सर्वप्रियकर्यै नमः ।
ॐ सर्वमङ्गलकारिण्यै नमः ।
ॐ सर्वकामप्रपूर्णायै नमः ।
ॐ सर्वदुःखविमोचिन्यै नमः ।
ॐ सर्वमृत्युप्रशमन्यै नमः । ९२० ।

ॐ सर्व विघ्नविनाशिन्यै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वसौभाग्यदायिन्यै नमः ।
ॐ त्रिपुराश्रिये नमः ।
ॐ सर्वार्थसाधिकायै नमः ।
ॐ दशकोणगायै नमः ।
ॐ सर्वरक्षाकर्यै ईश्वर्यै नमः ।
ॐ योगिन्ये सर्वज्ञायै नमः ।
ॐ सर्वशक्त्यै नमः ।
ॐ सर्वैश्वर्यप्रदायै नमः । ९३० ।

ॐ सर्वज्ञानमय्यै नमः ।
ॐ सर्वव्याधिविनाशिन्यै नमः ।
ॐ सर्वाधारस्वरूपायै नमः ।
ॐ सर्वपापहरायै नमः ।
ॐ सर्वानन्दमय्यै नमः ।
ॐ सर्वरक्षास्वरूपिण्यै नमः ।
ॐ महाशक्त्यै सर्वेसितफलप्रदायै नमः ।
ॐ अन्तर्दशारचक्रस्थायै नमः ।
ॐ त्रिपुरमालिन्यै नमः ।
ॐ सर्वरोगहरायै नमः । ९४० ।

ॐ रहस्ययोगिन्यै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ वशिन्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ मोदिन्यै नमः ।
ॐ विमलायै नमः ।
ॐ अरुणायै नमः ।
ॐ जयिन्यै नमः ।
ॐ शिवकामप्रदायै देव्यै नमः ।
ॐ शिवकामस्य सुन्दर्यै नमः । ९५० ।

ॐ ललितायै नमः ।
ॐ ललिताध्यानफलदायै नमः ।
ॐ शुभकारिण्यै नमः ।
ॐ सर्वेश्वर्यै नमः ।
ॐ कौलिन्यै नमः ।
ॐ वसुवंशाभिवर्द्धिन्यै नमः ।
ॐ सर्वकामप्रदायै नमः ।
ॐ परापररहस्यविदे नमः ।
ॐ त्रिकोणचतुरश्रस्थ कामेश्वर्यायुधात्मिकायै नमः ।
ॐ कामेश्वरीबाणरूपायै नमः । ९६० ।

ॐ कामेशीचापरूपिण्यै नमः ।
ॐ कामेशी पाशहस्तायै नमः ।
ॐ कामेश्यङ्कुशरूपिण्यै नमः ।
ॐ कामेश्वरी रुद्रशक्त्यै नमः ।
ॐ अग्निचक्रकृतालयायै नमः ।
ॐ कामाभिन्त्रायै नमः ।
ॐ कामदोग्ध्र्यै नमः ।
ॐ कामदायै नमः ।
ॐ त्रिकोणगायै नमः ।
ॐ दक्षकोणेश्वर्यै नमः । ९७० ।

ॐ विष्णुशक्तियै नमः ।
ॐ जालन्धरालयायै नमः ।
ॐ सूर्यचक्रालयायै नमः ।
ॐ वामकोणगायै नमः ।
ॐ सोमचक्रगायै नमः ।
ॐ भगमालायै नमः ।
ॐ बृहच्छक्तिपूर्णायै नमः ।
ॐ पूर्वास्ररागिण्यै नमः ।
ॐ श्रीमत्त्रिकोणभुवनायै नमः ।
ॐ त्रिपुराख्यमहेश्वर्यै नमः । ९८० ।

ॐ सर्वानन्दमयीशान्यै नमः ।
ॐ बिन्दुगातिरहस्यगायै नमः ।
ॐ परब्रह्मस्वरूपायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ सर्वचक्रान्तरस्थायै नमः ।
ॐ सर्वचक्राधिदेवतायै नमः ।
ॐ सर्वचक्रेश्वर्यै नमः ।
ॐ सर्वमन्त्राणामीश्वर्यै नमः ।
ॐ सर्वविद्येश्वर्यै नमः ।
ॐ सर्ववागीश्वर्यै नमः । ९९० ।

ॐ सर्वयोगेश्वर्यै नमः ।
ॐ सर्वपीठेश्वर्यै नमः ।
ॐ अखिलेश्वर्यै नमः ।
ॐ सर्वकामेश्वर्यै नमः ।
ॐ सर्वतत्वेश्वर्यै नमः ।
ॐ आगमेश्वर्यै नमः ।
ॐ शक्तिभृदुल्लासायै शक्त्यै नमः ।
ॐ निर्द्वन्द्वाद्वैतगर्भिण्यै नमः ।
ॐ निष्प्रपञ्चायै नमः ।
ॐ प्रपञ्चाभायै नमः । १००० ।

ॐ महामायायै नमः ।
ॐ प्रपञ्चसूवे नमः ।
ॐ सर्वविश्वोत्पत्तिधात्र्यै नमः ।
ॐ परमानन्दकारणायै नमः ।
ॐ लावण्यसिन्धुलहर्यै नमः ।
ॐ सुन्दरीतोषमन्दिरायै नमः ।
ॐ शिवकामसुन्दरीदेव्यै नमः ।
ॐ सर्वमङ्गलदायिन्यै नमः । १००८ ।

इति श्रीरुद्रयामले उमामहेशसंवादे श्रीशिवकामसुन्दर्याः
श्रीमत्त्रिपुरसुन्दर्याः षोडशार्णायाः तुरीयसहस्रनामावलिः
सम्पूर्णम् ॥

Also Read 1000 Names of Rudrayamala’s Shivakamasundari Stotram 2:

Shri Shiva Kama Sundari | Sahasranamavali Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shri Shiva Kama Sundari | Sahasranamavali Stotram 2 from Rudrayamala in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top