Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bala 1 | Sahasranamavali Stotram Lyrics in Hindi

Shri Balasahasranamavali 1 Lyrics in Hindi:

॥ श्रीबालासहस्रनामावलिः १ ॥

श्रीदेव्युवाच –
भगवन्भाषिताशेषसिद्धान्तकरुणानिधे ।
देव्यास्त्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १ ॥

श्रुत्वा धारयितुं देव ममेच्छा वर्ततेऽधुना ।
कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २ ॥

ईश्वर उवाच –
मन्त्रनामसहस्रं ते कथयामि वरानने ।
गोपनीयं प्रयत्नेन श‍ृणु तत्त्वं महेश्वरि ॥ ३ ॥

अस्य श्रीबालात्रिपुरसुन्दरीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
ईश्वर ऋषिः अनुष्टुप् छन्दः श्रीबालात्रिपुरसुन्दरी देवता ।
ऐं बीजं सौः शक्तिः क्लीं कीलकम् ।
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् –
ऐङ्कारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीम् ।
सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् ॥

वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्कराम् ।
तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥ ४ ॥

ॐ सुभगायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सुषुम्नायै नमः ।
ॐ सुखदायिन्यै नमः ।
ॐ मनोज्ञायै नमः ।
ॐ सुमनसे नमः ।
ॐ रम्यायै नमः ।
ॐ शोभनायै नमः ।
ॐ ललितायै नमः । १० ।

ॐ शिवायै नमः ।
ॐ कान्तायै नमः ।
ॐ कान्तिमत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ कामदायै नमः ।
ॐ कमलालयायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कमलायै नमः ।
ॐ हृद्यायै नमः ।
ॐ पेशलायै नमः । २० ।

ॐ हृदयङ्गमायै नमः ।
ॐ सुभद्राख्यायै नमः ।
ॐ अतिरमण्यै नमः ।
ॐ सर्वायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सुमङ्गलायै नमः ।
ॐ रामायै नमः ।
ॐ भव्यवत्यै नमः ।
ॐ भव्यायै नमः ।
ॐ कमनीयायै नमः । ३० ।

ॐ अतिकोमलायै नमः ।
ॐ शोभायै नमः ।
ॐ अभिरामायै नमः ।
ॐ रमण्यै नमः ।
ॐ रमणीयायै नमः ।
ॐ रतिप्रियायै नमः ।
ॐ मनोन्मन्यै नमः ।
ॐ महामायायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मदिराप्रियायै नमः । ४० ।

ॐ महालक्ष्म्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ महाविद्यास्वरूपिण्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ महानन्दायै नमः ।
ॐ महानन्दविधायिन्यै नमः ।
ॐ मानिन्यै नमः ।
ॐ माधव्यै नमः ।
ॐ माध्व्यै नमः ।
ॐ मदरूपायै नमः । ५० ।

ॐ मदोत्कटायै नमः ।
ॐ आनन्दकन्दायै नमः ।
ॐ विजयायै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्वरूपिण्यै नमः ।
ॐ सुप्रभायै नमः ।
ॐ कौमुद्यै नमः ।
ॐ शान्तायै नमः ।
ॐ बिन्दुनादस्वरूपिण्यै नमः ।
ॐ कामेश्वर्यै नमः । ६० ।

ॐ कामकलायै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामवर्धिन्यै नमः ।
ॐ भेरुण्डायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चामुण्ड्यै नमः ।
ॐ मुण्डमालिन्यै नमः ।
ॐ अणुरूपायै नमः ।
ॐ महारूपायै नमः । ७० ।

ॐ भूतेश्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ चित्रायै नमः ।
ॐ विचित्रायै नमः ।
ॐ चित्राङ्ग्यै नमः ।
ॐ हेमगर्भस्वरूपिण्यै नमः ।
ॐ चैतन्यरूपिण्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नित्यानित्यस्वरूपिण्यै नमः ।
ॐ ह्रींकार्यै नमः । ८० ।

ॐ कुण्डल्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ विधात्र्यै नमः ।
ॐ भूतसम्प्लवायै नमः ।
ॐ उन्मादिन्यै नमः ।
ॐ महामाल्यै नमः ।
ॐ सुप्रसन्नायै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ परमायै नमः ।
ॐ आनन्दनिष्यन्दायै नमः । ९० ।

ॐ परमार्थस्वरूपिण्यै नमः ।
ॐ योगीश्वर्यै नमः ।
ॐ योगमात्रे नमः ।
ॐ हंसिन्यै नमः ।
ॐ कलहंसिन्यै नमः ।
ॐ कलायै नमः ।
ॐ कलावत्यै नमः ।
ॐ रक्तायै नमः ।
ॐ सुषुम्नावर्त्मशालिन्यै नमः ।
ॐ विन्ध्याद्रिनिलयायै नमः । १०० ।

ॐ सूक्ष्मायै नमः ।
ॐ हेमपद्मनिवासिन्यै नमः ।
ॐ बालायै नमः ।
ॐ सुरूपिण्यै नमः ।
ॐ मायायै नमः ।
ॐ वरेण्यायै नमः ।
ॐ वरदायिन्यै नमः ।
ॐ विद्रुमाभायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ विशिष्टायै नमः । ११० ।

ॐ विश्वनायिकायै नमः ।
ॐ वीरेन्द्रवन्द्यायै नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वायै नमः ।
ॐ विश्वादिवर्धन्यै नमः ।
ॐ विश्वोत्पत्त्यै नमः ।
ॐ विश्वमायायै नमः ।
ॐ विश्वाराध्यायै नमः ।
ॐ विकस्वरायै नमः ।
ॐ मदस्विन्नायै नमः । १२० ।

ॐ मदोद्भिन्नायै नमः ।
ॐ मानिन्यै नमः ।
ॐ मानवर्धन्यै नमः ।
ॐ मालिन्यै नमः ।
ॐ मोदिन्यै नमः ।
ॐ मान्यायै नमः ।
ॐ मदहस्तायै नमः ।
ॐ मदालयायै नमः ।
ॐ मदनिष्यन्दिन्यै नमः ।
ॐ मात्रे नमः । १३० ।

ॐ मदिराक्ष्यै नमः ।
ॐ मदालसायै नमः ।
ॐ मदात्मिकायै नमः ।
ॐ मदावासायै नमः ।
ॐ मधुबिन्दुकृताधरायै नमः ।
ॐ मूलभूतायै नमः ।
ॐ महामूलायै नमः ।
ॐ मूलाधारस्वरूपिण्यै नमः ।
ॐ सिन्दूररक्तायै नमः ।
ॐ रक्ताक्ष्यै नमः । १४० ।

ॐ त्रिनेत्रायै नमः ।
ॐ त्रिगुणात्मिकायै नमः ।
ॐ वशिन्यै नमः ।
ॐ वाशिन्यै नमः ।
ॐ वाण्यै नमः ।
ॐ वारुण्यै नमः ।
ॐ वारुणीप्रियायै नमः ।
ॐ अरुणायै नमः ।
ॐ तरुणार्काभायै नमः ।
ॐ भामिन्यै नमः । १५० ।

ॐ वह्निवासिन्यै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धेश्वर्यै नमः ।
ॐ सिद्ध्यै नमः ।
ॐ सिद्धाम्बायै नमः ।
ॐ सिद्धमातृकायै नमः ।
ॐ सिद्धार्थदायिन्यै नमः ।
ॐ विद्यायै नमः ।
ॐ सिद्धाढ्यायै नमः ।
ॐ सिद्धसम्मतायै नमः । १६० ।

ॐ वाग्भवायै नमः ।
ॐ वाक्प्रदायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ वाङ्मय्यै नमः ।
ॐ वादिन्यै नमः ।
ॐ परायै नमः ।
ॐ त्वरितायै नमः ।
ॐ सत्वरायै नमः ।
ॐ तुर्यायै नमः ।
ॐ त्वरयित्र्यै नमः । १७० ।

ॐ त्वरात्मिकायै नमः ।
ॐ कमलायै नमः ।
ॐ कमलावासायै नमः ।
ॐ सकलायै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ भगोदर्यै नमः ।
ॐ भगक्लिन्नायै नमः ।
ॐ भगिन्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ भगप्रदायै नमः । १८० ।

ॐ भगानन्दायै नमः ।
ॐ भगेश्यै नमः ।
ॐ भगनायिकायै नमः ।
ॐ भगात्मिकायै नमः ।
ॐ भगावासायै नमः ।
ॐ भगायै नमः ।
ॐ भगनिपातिन्यै नमः ।
ॐ भगावहायै नमः ।
ॐ भगाराध्यायै नमः ।
ॐ भगाढ्यायै नमः । १९० ।

ॐ भगवाहिन्यै नमः ।
ॐ भगनिष्यन्दिन्यै नमः ।
ॐ भर्गायै नमः ।
ॐ भगाभायै नमः ।
ॐ भगगर्भिण्यै नमः ।
ॐ भगादये नमः ।
ॐ भगभोगादये नमः ।
ॐ भगवेद्यायै नमः ।
ॐ भगोद्भवायै नमः ।
ॐ भगमात्रे नमः । २०० ।

ॐ भगाभोगायै नमः ।
ॐ अभगवेद्यायै नमः ।
ॐ अभगोद्भवायै नमः ।
ॐ भगमात्रे नमः ।
ॐ भगाकारायै नमः ।
ॐ भगगुह्यायै नमः ।
ॐ भगेश्वर्यै नमः ।
ॐ भगदेहायै नमः ।
ॐ अभगावासायै नमः ।
ॐ भगोद्भेदायै नमः । २१० ।

ॐ भगालसायै नमः ।
ॐ भगविद्यायै नमः ।
ॐ भगक्लिन्नायै नमः ।
ॐ भगलिङ्गायै नमः ।
ॐ भगद्रवायै नमः ।
ॐ सकलायै नमः ।
ॐ निष्कलायै नमः ।
ॐ काल्यै नमः ।
ॐ कराल्यै नमः ।
ॐ कलभाषिण्यै नमः । २२० ।

ॐ कमलायै नमः ।
ॐ हंसिन्यै नमः ।
ॐ कालायै नमः ।
ॐ करुणायै नमः ।
ॐ करुणावत्यै नमः ।
ॐ भास्वरायै नमः ।
ॐ भैरव्यै नमः ।
ॐ भासायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ कुलाङ्गनायै नमः । २३० ।

ॐ रसात्मिकायै नमः ।
ॐ रसावासायै नमः ।
ॐ रसस्यन्दायै नमः ।
ॐ रसावहायै नमः ।
ॐ कामनिष्यन्दिन्यै नमः ।
ॐ काम्यायै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामदायिन्यै नमः ।
ॐ विद्यायै नमः ।
ॐ विधात्र्यै नमः । २४० ।

ॐ विविधायै नमः ।
ॐ विश्वधात्र्यै नमः ।
ॐ विधाविधायै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ लावण्यसरिदम्बुध्यै नमः ।
ॐ चतुराङ्ग्यै नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ चतुरायै नमः ।
ॐ चारुहंसिन्यै नमः । २५० ।

ॐ मन्त्रायै नमः ।
ॐ मन्त्रमय्यै नमः ।
ॐ मात्रे नमः ।
ॐ मणिपूरसमाश्रयायै नमः ।
ॐ मन्त्रात्मिकायै नमः ।
ॐ मन्त्रमात्रे नमः ।
ॐ मन्त्रगम्यायै नमः ।
ॐ सुमन्त्रिकायै नमः ।
ॐ पुष्पबाणायै नमः ।
ॐ पुष्पजैत्र्यै नमः । २६० ।

ॐ पुष्पिण्यै नमः ।
ॐ पुष्पवर्धन्यै नमः ।
ॐ वज्रेश्वर्यै नमः ।
ॐ वज्रहस्तायै नमः ।
ॐ पुराण्यै नमः ।
ॐ पुरवासिन्यै नमः ।
ॐ तारायै नमः ।
ॐ सुतरुण्यै नमः ।
ॐ तारायै नमः ।
ॐ तरुण्यै नमः । २७० ।

ॐ ताररूपिण्यै नमः ।
ॐ इक्षुचापायै नमः ।
ॐ महापाशायै नमः ।
ॐ शुभदायै नमः ।
ॐ प्रियवादिन्यै नमः ।
ॐ सर्वदायै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ सर्वार्थायै नमः ।
ॐ सर्वपावन्यै नमः ।
ॐ आत्मविद्यायै नमः । २८० ।

ॐ महाविद्यायै नमः ।
ॐ ब्रह्मविद्यायै नमः ।
ॐ विवस्वत्यै नमः ।
ॐ शिवायै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ शिवाराध्यायै नमः ।
ॐ शिवनाथायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ आत्मिकायै नमः ।
ॐ ज्ञाननिलयायै नमः । २९० ।

ॐ निर्भेदायै नमः ।
ॐ निर्वृतिप्रदायै नमः ।
ॐ निर्वाणरूपिण्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नियमायै नमः ।
ॐ निष्कलायै नमः ।
ॐ प्रभायै नमः ।
ॐ श्रीफलायै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ शिष्यायै नमः । ३०० ।

ॐ श्रीमय्यै नमः ।
ॐ शिवरूपिण्यै नमः ।
ॐ परायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ कुब्जायै नमः ।
ॐ कुटिलायै नमः ।
ॐ कुटिलालकायै नमः ।
ॐ महोदयायै नमः ।
ॐ महारूपायै नमः ।
ॐ महामायायै नमः । ३१० ।

ॐ कलामय्यै नमः ।
ॐ वशिन्यै नमः ।
ॐ सर्वजनन्यै नमः ।
ॐ चित्रवासायै नमः ।
ॐ विचित्रकायै नमः ।
ॐ सूर्यमण्डलमध्यस्थायै नमः ।
ॐ स्थिरायै नमः ।
ॐ शङ्करवल्लभायै नमः ।
ॐ सुरभ्यै नमः ।
ॐ सुमनस्सूर्यायै नमः । ३२० ।

ॐ सुषुम्नायै नमः ।
ॐ सोमभूषणायै नमः ।
ॐ सुधाप्रदायै नमः ।
ॐ सुधाधारायै नमः ।
ॐ सुश्रियै नमः ।
ॐ सम्पत्तिरूपिण्यै नमः ।
ॐ अमृतायै नमः ।
ॐ सत्यसङ्कल्पायै नमः ।
ॐ सत्यायै नमः ।
ॐ षड्ग्रन्थिभेदिन्यै नमः । ३३० ।

ॐ इच्छाशक्त्यै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ क्रियाशक्त्यै नमः ।
ॐ प्रियङ्कर्यै नमः ।
ॐ लीलायै नमः ।
ॐ लीलालयायै नमः ।
ॐ आनन्दायै नमः ।
ॐ सूक्ष्मबोधस्वरूपिण्यै नमः ।
ॐ सकलायै नमः ।
ॐ रसनायै नमः । ३४० ।

ॐ सारायै नमः ।
ॐ सारगम्यायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ परायै नमः ।
ॐ परायण्यै नमः ।
ॐ पद्मायै नमः ।
ॐ परनिष्ठायै नमः ।
ॐ परापरायै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीकर्यै नमः । ३५० ।

ॐ व्योम्न्यै नमः ।
ॐ शिवयोन्यै नमः ।
ॐ शिवेक्षणायै नमः ।
ॐ निरानन्दायै नमः ।
ॐ निराख्येयायै नमः ।
ॐ निर्द्वन्द्वायै नमः ।
ॐ निर्गुणात्मिकायै नमः ।
ॐ बृहत्यै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ ब्राह्म्यै नमः । ३६० ।

ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मरूपिण्यै नमः ।
ॐ धृत्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ श्रुत्यै नमः ।
ॐ मेधायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ स्तुत्यै नमः ।
ॐ मत्यै नमः । ३७० ।

ॐ अद्वयानन्दसम्बोधायै नमः ।
ॐ वरायै नमः ।
ॐ सौभाग्यरूपिण्यै नमः ।
ॐ निरामयायै नमः ।
ॐ निराकारायै नमः ।
ॐ जृम्भिण्यै नमः ।
ॐ स्तम्भिन्यै नमः ।
ॐ रत्यै नमः ।
ॐ बोधिकायै नमः ।
ॐ कमलायै नमः । ३८० ।

ॐ रौद्र्यै नमः ।
ॐ द्राविण्यै नमः ।
ॐ क्षेभिण्यै नमः ।
ॐ मत्यै नमः ।
ॐ कुचेल्यै नमः ।
ॐ कुचमध्यस्थायै नमः ।
ॐ मध्यकूटगत्यै नमः ।
ॐ प्रियायै नमः ।
ॐ कुलोत्तीर्णायै नमः ।
ॐ कुलवत्यै नमः । ३९० ।

ॐ बोधायै नमः ।
ॐ वाग्वादिन्यै नमः ।
ॐ सत्यै नमः ।
ॐ उमायै नमः ।
ॐ प्रियव्रतायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ वकुळायै नमः ।
ॐ कुलरूपिण्यै नमः ।
ॐ विश्वात्मिकायै नमः ।
ॐ विश्वयोन्यै नमः । ४०० ।

ॐ विश्वासक्तायै नमः ।
ॐ विनायकायै नमः ।
ॐ ध्यायिन्यै नमः ।
ॐ नादिन्यै नमः ।
ॐ तीर्थायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ मन्त्रसाक्षिण्यै नमः ।
ॐ सन्मन्त्ररूपिण्यै नमः ।
ॐ हृष्टायै नमः ।
ॐ शाङ्कर्यै नमः । ४१० ।

ॐ सुरशाङ्कर्यै नमः ।
ॐ सुन्दराङ्ग्यै नमः ।
ॐ सुरावासायै नमः ।
ॐ सुरवन्द्यायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ सुवर्णवर्णायै नमः ।
ॐ सत्कीर्त्यै नमः ।
ॐ सुवर्णायै नमः ।
ॐ वर्णरूपिण्यै नमः ।
ॐ ललिताङ्ग्यै नमः । ४२० ।

ॐ वरिष्ठायै नमः ।
ॐ श्रियै नमः ।
ॐ अस्पन्दायै नमः ।
ॐ स्पन्दरूपिण्यै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ सच्चिदानन्दायै नमः ।
ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ जयिन्यै नमः ।
ॐ विश्वजनन्यै नमः ।
ॐ विश्वनिष्ठायै नमः । ४३० ।

ॐ विलासिन्यै नमः ।
ॐ भ्रूमध्यायै नमः ।
ॐ अखिलनिष्पाद्यायै नमः ।
ॐ निर्गुणायै नमः ।
ॐ गुणवर्धन्यै नमः ।
ॐ हृल्लेखायै नमः ।
ॐ भुवनायै नमः ।
ॐ ईशान्यै नमः ।
ॐ भुवनायै नमः ।
ॐ भुवनात्मिकायै नमः । ४४० ।

ॐ विभूत्यै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूत्यै नमः ।
ॐ सम्भूत्यै नमः ।
ॐ भूतिकारिण्यै नमः ।
ॐ ईशान्यै नमः ।
ॐ शाश्वत्यै नमः ।
ॐ शैव्यै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायिन्यै नमः । ४५० ।

ॐ भवान्यै नमः ।
ॐ भावगायै नमः ।
ॐ भावायै नमः ।
ॐ भावनायै नमः ।
ॐ भावनात्मिकायै नमः ।
ॐ हृत्पद्मनिलयायै नमः ।
ॐ शूरायै नमः ।
ॐ स्वरावृत्त्यै नमः ।
ॐ स्वरात्मिकायै नमः ।
ॐ सूक्ष्मरूपायै नमः । ४६० ।

ॐ परानन्दायै नमः ।
ॐ स्वात्मस्थायै नमः ।
ॐ विश्वदायै नमः ।
ॐ शिवायै नमः ।
ॐ परिपूर्णायै नमः ।
ॐ दयापूर्णायै नमः ।
ॐ मदघूर्णितलोचनायै नमः ।
ॐ शरण्यायै नमः ।
ॐ तरुणार्काभायै नमः ।
ॐ मधुरक्तायै नमः । ४७० ।

ॐ मनस्विन्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ अनन्तमहिमायै नमः ।
ॐ नित्यतृप्तायै नमः ।
ॐ निरञ्जन्यै नमः ।
ॐ अचिन्त्यायै नमः ।
ॐ शक्तिचिन्त्यार्थायै नमः ।
ॐ चिन्त्यायै नमः ।
ॐ चिन्त्यस्वरूपिण्यै नमः ।
ॐ जगन्मय्यै नमः । ४८० ।

ॐ जगन्मात्रे नमः ।
ॐ जगत्सारायै नमः ।
ॐ जगद्भवायै नमः ।
ॐ आप्यायिन्यै नमः ।
ॐ परानन्दायै नमः ।
ॐ कूटस्थायै नमः ।
ॐ आवासरूपिण्यै नमः ।
ॐ ज्ञानगम्यायै नमः ।
ॐ ज्ञानमूर्त्यै नमः ।
ॐ ज्ञापिन्यै नमः । ४९० ।

ॐ ज्ञानरूपिण्यै नमः ।
ॐ खेचर्यै नमः ।
ॐ खेचरीमुद्रायै नमः ।
ॐ खेचरीयोगरूपिण्यै नमः ।
ॐ अनाथनाथायै नमः ।
ॐ निर्नाथायै नमः ।
ॐ घोरायै नमः ।
ॐ अघोरस्वरूपिण्यै नमः ।
ॐ सुधाप्रदायै नमः ।
ॐ सुधाधारायै नमः । ५०० ।

ॐ सुधारूपायै नमः ।
ॐ सुधामय्यै नमः ।
ॐ दहरायै नमः ।
ॐ दहराकाशायै नमः ।
ॐ दहराकाशमध्यगायै नमः ।
ॐ माङ्गल्यायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ दिव्यायै नमः ।
ॐ महामाङ्गल्यदेवतायै नमः ।
ॐ माङ्गल्यदायिन्यै नमः । ५१० ।

ॐ मान्यायै नमः ।
सर्वमङ्गलदायिन्यै नम
ॐ स्वप्रकाशायै नमः ।
ॐ महाभासायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भवरूपिण्यै नमः ।
ॐ कात्यायिन्यै नमः ।
ॐ कलावासायै नमः ।
ॐ पूर्णकामायै नमः ।
ॐ यशस्विन्यै नमः । ५२० ।

ॐ अर्धावसाननिलयायै नमः ।
ॐ नारायणमनोहरायै नमः ।
ॐ मोक्षमार्गविधानज्ञायै नमः ।
ॐ विरिञ्चोत्पत्तिभूमिकायै नमः ।
ॐ अनुत्तरायै नमः ।
ॐ महाराध्यायै नमः ।
ॐ दुष्प्रापायै नमः ।
ॐ दुरतिक्रमायै नमः ।
ॐ शुद्धिदायै नमः ।
ॐ कामदायै नमः । ५३० ।

ॐ सौम्यायै नमः ।
ॐ ज्ञानदायै नमः ।
ॐ मानदायिन्यै नमः ।
ॐ स्वधायै नमः ।
ॐ स्वाहायै नमः ।
ॐ सुधायै नमः ।
ॐ मेधायै नमः ।
ॐ मधुरायै नमः ।
ॐ मधुमन्दिरायै नमः ।
ॐ निर्वाणदायिन्यै नमः । ५४० ।

ॐ श्रेष्ठायै नमः ।
ॐ शर्मिष्ठायै नमः ।
ॐ शारदार्चितायै नमः ।
ॐ सुवर्चलायै नमः ।
ॐ सुराराध्यायै नमः ।
ॐ शुद्धसत्त्वायै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ स्तुत्यै नमः ।
ॐ स्तुतिमय्यै नमः ।
ॐ स्तुत्यायै नमः । ५५० ।

ॐ स्तुतिरूपायै नमः ।
ॐ स्तुतिप्रियायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कामवत्यै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ आकाशगर्भायै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कालरूपिण्यै नमः । ५६० ।

ॐ विष्णुपत्न्यै नमः ।
ॐ विशुद्धार्थायै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ ईशवन्दितायै नमः ।
ॐ विश्ववेद्यायै नमः ।
ॐ महावीरायै नमः ।
ॐ विश्वघ्न्यै नमः ।
ॐ विश्वरूपिण्यै नमः ।
ॐ कुशलायै नमः ।
ॐ आढ्यायै नमः । ५७० ।

ॐ शीलवत्यै नमः ।
ॐ शैलस्थायै नमः ।
ॐ शैलरूपिण्यै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ चण्ड्यै नमः ।
ॐ खट्वाङ्ग्यै नमः ।
ॐ डाकिन्यै नमः ।
ॐ साकिन्यै नमः ।
ॐ प्रभायै नमः ।
ॐ नित्यायै नमः । ५८० ।

ॐ निर्वेदखट्वाङ्ग्यै नमः ।
ॐ जनन्यै नमः ।
ॐ जनरूपिण्यै नमः ।
ॐ तलोदर्यै नमः ।
ॐ जगत्सूत्र्यै नमः ।
ॐ जगत्यै नमः ।
ॐ ज्वलिन्यै नमः ।
ॐ ज्वल्यै नमः ।
ॐ साकिन्यै नमः ।
ॐ सारसंहृद्यायै नमः । ५९० ।

ॐ सर्वोत्तीर्णायै नमः ।
ॐ सदाशिवायै नमः ।
ॐ स्फुरन्त्यै नमः ।
ॐ स्फुरिताकारायै नमः ।
ॐ स्फूर्त्यै नमः ।
ॐ स्फुरणरूपिण्यै नमः ।
ॐ शिवदूत्यै नमः ।
ॐ शिवायै नमः ।
ॐ शिष्टायै नमः ।
ॐ शिवज्ञायै नमः । ६०० ।

ॐ शिवरूपिण्यै नमः ।
ॐ रागिण्यै नमः ।
ॐ रञ्जन्यै नमः ।
ॐ रम्यायै नमः ।
ॐ रजन्यै नमः ।
ॐ रजनीकरायै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ विनीतायै नमः ।
ॐ इष्टायै नमः ।
ॐ विधात्र्यै नमः । ६१० ।

ॐ विधिवल्लभायै नमः ।
ॐ विद्योतिन्यै नमः ।
ॐ विचित्रायै नमः ।
ॐ अर्थायै नमः ।
ॐ विश्वाद्यायै नमः ।
ॐ विविधाभिधायै नमः ।
ॐ विश्वाक्षरायै नमः ।
ॐ सरसिकायै नमः ।
ॐ विश्वस्थायै नमः ।
ॐ अतिविचक्षणायै नमः । ६२० ।

ॐ ब्रह्मयोन्यै नमः ।
ॐ महायोन्यै नमः ।
ॐ कर्मयोन्यै नमः ।
ॐ त्रयीतनवे नमः ।
ॐ हाकिन्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ रोहिण्यै नमः ।
ॐ रोगनाशन्यै नमः ।
ॐ श्रीप्रदायै नमः । ६३० ।

ॐ श्रिये नमः ।
ॐ श्रीधरायै नमः ।
ॐ श्रीकरायै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ प्रियायै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ श्रेयसे नमः ।
ॐ श्रेयस्यै नमः ।
ॐ सुरेश्वर्यै नमः । ६४० ।

ॐ कामेश्वर्यै नमः ।
ॐ कामवत्यै नमः ।
ॐ कामगिर्यालयस्थितायै नमः ।
ॐ रुद्रात्मिकायै नमः ।
ॐ रुद्रमात्रे नमः ।
ॐ रुद्रगम्यायै नमः ।
ॐ रजस्वलायै नमः ।
ॐ अकारषोडशान्तस्थायै नमः ।
ॐ भैरव्यै नमः ।
ॐ ह्लादीन्यै नमः । ६५० ।

ॐ परायै नमः ।
ॐ कृपादेहायै नमः ।
ॐ अरुणायै नमः ।
ॐ नाथायै नमः ।
ॐ सुधाबिन्दुसमन्वितायै नमः ।
ॐ काल्यै नमः ।
ॐ कामकलायै नमः ।
ॐ कन्यायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ पररूपिण्यै नमः । ६६० ।

ॐ मायावत्यै नमः ।
ॐ घोरमुख्यै नमः ।
ॐ नादिन्यै नमः ।
ॐ दीपिन्यै नमः ।
ॐ शिवायै नमः ।
ॐ मकारायै नमः ।
ॐ अमृतचक्रेश्यै नमः ।
ॐ महासेनाविमोहिन्यै नमः ।
ॐ उत्सुकायै नमः ।
ॐ अनुत्सुकायै नमः । ६७० ।

ॐ हृष्टायै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ चक्रनायिकायै नमः ।
ॐ रुद्रायै नमः ।
ॐ भवान्यै नमः ।
ॐ चामुण्ड्यै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ सौख्यदायिन्यै नमः ।
ॐ गरुडायै नमः ।
ॐ गरुड्यै नमः । ६८० ।

ॐ कृष्णायै नमः ।
ॐ सकलायै नमः ।
ॐ ब्रह्मचारिण्यै नमः ।
ॐ कृष्णाङ्गायै नमः ।
ॐ वाहिन्यै नमः ।
ॐ कृष्णायै नमः ।
ॐ खेचर्यै नमः ।
ॐ कमलायै नमः ।
ॐ प्रियायै नमः ।
ॐ भद्रिण्यै नमः । ६९० ।

ॐ रुद्रचामुण्डायै नमः ।
ॐ ह्रींकार्यै नमः ।
ॐ सौभगायै नमः ।
ॐ ध्रुवायै नमः ।
ॐ गोरुड्यै नमः ।
ॐ गारुड्यै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ स्वर्गगायै नमः ।
ॐ ब्रह्मचारिण्यै नमः ।
ॐ पानानुरक्तायै नमः । ७०० ।

ॐ पानस्थायै नमः ।
ॐ भीमरूपायै नमः ।
ॐ भयापहायै नमः ।
ॐ रक्तायै नमः ।
ॐ चण्डायै नमः ।
ॐ सुरानन्दायै नमः ।
ॐ त्रिकोणायै नमः ।
ॐ पानदर्पितायै नमः ।
ॐ महोत्सुकायै नमः ।
ॐ क्रतुप्रीतायै नमः । ७१० ।

ॐ कङ्काल्यै नमः ।
ॐ कालदर्पितायै नमः ।
ॐ सर्ववर्णायै नमः ।
ॐ सुवर्णाभायै नमः ।
ॐ परामृतमहार्णवायै नमः ।
ॐ योग्यायै नमः ।
ॐ अर्णवायै नमः ।
ॐ नागबुद्ध्यै नमः ।
ॐ वीरपानायै नमः ।
ॐ नवात्मिकायै नमः । ७२० ।

ॐ द्वादशान्तसरोजस्थायै नमः ।
ॐ निर्वाणसुखदायिन्यै नमः ।
ॐ आदिसत्त्वायै नमः ।
ॐ ध्यानसत्त्वायै नमः ।
ॐ श्रीकण्ठस्वान्तमोहिन्यै नमः ।
ॐ परायै नमः ।
ॐ घोरायै नमः ।
ॐ कराळाक्ष्यै नमः ।
ॐ स्वमूर्त्यै नमः ।
ॐ मेरुनायिकायै नमः । ७३० ।

ॐ आकाशलिङ्गसम्भूतायै नमः ।
ॐ परामृतरसात्मिकायै नमः ।
ॐ शाङ्कर्यै नमः ।
ॐ शाश्वत्यै नमः ।
ॐ रुद्रायै नमः ।
ॐ कपालकुलदीपिकायै नमः ।
ॐ विद्यातनवे नमः ।
ॐ मन्त्रतनवे नमः ।
ॐ चण्डायै नमः ।
ॐ मुण्डायै नमः । ७४० ।

ॐ सुदर्पितायै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ योगमुद्रायै नमः ।
ॐ त्रिखण्ड्यै नमः ।
ॐ सिद्धमण्डितायै नमः ।
ॐ श‍ृङ्गारपीठनिलयायै नमः ।
ॐ काल्यै नमः ।
ॐ मातङ्गकन्यकायै नमः ।
ॐ संवर्तमण्डलान्तस्थायै नमः ।
ॐ भुवनोद्यानवासिन्यै नमः । ७५० ।

ॐ पादुकाक्रमसन्तृप्तायै नमः ।
ॐ भैरवस्थायै नमः ।
ॐ अपराजितायै नमः ।
ॐ निर्वाणसौरभायै नमः ।
ॐ दुर्गायै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ भ्रमराम्बायै नमः ।
ॐ शिखरिकायै नमः ।
ॐ ब्रह्मविष्ण्वीशतर्पितायै नमः ।
ॐ उन्मत्तहेलायै नमः । ७६० ।

ॐ रसिकायै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगदर्पितायै नमः ।
ॐ सन्तानायै नमः ।
ॐ आनन्दिन्यै नमः ।
ॐ बीजचक्रायै नमः ।
ॐ परमकारुण्यै नमः ।
ॐ खेचर्यै नमः ।
ॐ नायिकायै नमः ।
ॐ योग्यायै नमः । ७७० ।

ॐ परिवृत्तायै नमः ।
ॐ अतिमोहिन्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ सम्भवित्र्यै नमः ।
ॐ स्कन्दानन्दायै नमः ।
ॐ मदार्पितायै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ सुमाश्वासायै नमः ।
ॐ स्वर्गदायै नमः ।
ॐ बिन्दुकारुण्यै नमः । ७८० ।

ॐ चर्चितायै नमः ।
ॐ चर्चितपदायै नमः ।
ॐ चारुखट्वाङ्गधारिण्यै नमः ।
ॐ अघोरायै नमः ।
ॐ मन्त्रितपदायै नमः ।
ॐ भामिन्यै नमः ।
ॐ भवरूपिण्यै नमः ।
ॐ उषायै नमः ।
ॐ सङ्कर्षिण्यै नमः ।
ॐ धात्र्यै नमः । ७९० ।

ॐ उमायै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ शिवायै नमः ।
ॐ सुलभायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ शास्त्र्यै नमः ।
ॐ महाशास्त्र्यै नमः ।
ॐ शिखण्डिन्यै नमः ।
ॐ योगलक्ष्म्यै नमः ।
ॐ भोगलक्ष्म्यै नमः । ८०० ।

ॐ राज्यलक्ष्म्यै नमः ।
ॐ कपालिन्यै नमः ।
ॐ देवयोन्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ धन्विन्यै नमः ।
ॐ नादिन्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ मन्त्रात्मिकायै नमः ।
ॐ महाधात्र्यै नमः ।
ॐ बलिन्यै नमः । ८१० ।

ॐ केतुरूपिण्यै नमः ।
ॐ सदानन्दायै नमः ।
ॐ सदाभद्रायै नमः ।
ॐ फल्गुन्यै नमः ।
ॐ रक्तवर्षिण्यै नमः ।
ॐ मन्दारमन्दिरायै नमः ।
ॐ तीव्रायै नमः ।
ॐ ग्राहिकायै नमः ।
ॐ सर्वभक्षिण्यै नमः ।
ॐ अग्निजिह्वायै नमः । ८२० ।

ॐ महाजिह्वायै नमः ।
ॐ शूलिन्यै नमः ।
ॐ शुद्धिदायै नमः ।
ॐ परायै नमः ।
ॐ सुवर्णिकायै नमः ।
ॐ कालदूत्यै नमः ।
ॐ देव्यै नमः ।
ॐ कालस्वरूपिण्यै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ नयन्यै नमः । ८३० ।

ॐ गुर्व्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ हुम्फडात्मिकायै नमः ।
ॐ उग्रात्मिकायै नमः ।
ॐ पद्मवत्यै नमः ।
ॐ धूर्जट्यै नमः ।
ॐ चक्रधारिण्यै नमः ।
ॐ देव्यै नमः ।
ॐ तत्पुरुषायै नमः ।
ॐ शिक्षायै नमः । ८४० ।

ॐ साध्व्यै नमः ।
ॐ स्त्रीरूपधारिण्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ मदनायै नमः ।
ॐ मदनातुरायै नमः ।
ॐ धिष्ण्यायै नमः ।
ॐ हिरण्यायै नमः ।
ॐ सरण्यै नमः । ८५० ।

ॐ धरित्र्यै नमः ।
ॐ धररूपिण्यै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधाच्छायायै नमः ।
ॐ वसुधामायै नमः ।
ॐ सुधामय्यै नमः ।
ॐ श‍ृङ्गिण्यै नमः ।
ॐ भीषणायै नमः ।
ॐ सान्द्र्यै नमः ।
ॐ प्रेतस्थानायै नमः । ८६० ।

ॐ मतङ्गिन्यै नमः ।
ॐ खण्डिन्यै नमः ।
ॐ योगिन्यै नमः ।
ॐ तुष्ट्यै नमः ।
ॐ नादिन्यै नमः ।
ॐ भेदिन्यै नमः ।
ॐ नट्यै नमः ।
ॐ खट्वाङ्गिन्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ मेघमालायै नमः । ८७० ।

ॐ धरात्मिकायै नमः ।
ॐ भापीठस्थायै नमः ।
ॐ भवद्रूपायै नमः ।
ॐ महाश्रियै नमः ।
ॐ धूम्रलोचनायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सत्कृत्यै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ उमायै नमः ।
ॐ मायायै नमः । ८८० ।

ॐ महोदयायै नमः ।
ॐ गन्धर्व्यै नमः ।
ॐ सुगुणाकारायै नमः ।
ॐ सद्गुणायै नमः ।
ॐ गणपूजितायै नमः ।
ॐ निर्मलायै नमः ।
ॐ गिरिजायै नमः ।
ॐ शब्दायै नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्मदायिन्यै नमः । ८९० ।

ॐ एकाकिन्यै नमः ।
ॐ सिन्धुकन्यायै नमः ।
ॐ काव्यसूत्रस्वरूपिण्यै नमः ।
ॐ अव्यक्तरूपिण्यै नमः ।
ॐ व्यक्तायै नमः ।
ॐ योगिन्यै नमः ।
ॐ पीठरूपिण्यै नमः ।
ॐ निर्मदायै नमः ।
ॐ धामदायै नमः ।
ॐ आदित्यायै नमः । ९०० ।

ॐ नित्यायै नमः ।
ॐ सेव्यायै नमः ।
ॐ अक्षरात्मिकायै नमः ।
ॐ तपिन्यै नमः ।
ॐ तापिन्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ शोधिन्यै नमः ।
ॐ शिवदायिन्यै नमः ।
ॐ स्वस्त्यै नमः ।
ॐ स्वस्तिमत्यै नमः । ९१० ।

ॐ बालायै नमः ।
ॐ कपिलायै नमः ।
ॐ विस्फुलिङ्गिन्यै नमः ।
ॐ अर्चिष्मत्यै नमः ।
ॐ द्युतिमत्यै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कव्यवाहिन्यै नमः ।
ॐ जनाश्रितायै नमः ।
ॐ विष्णुविद्यायै नमः ।
ॐ मानस्यै नमः । ९२० ।

ॐ विन्ध्यवासिन्यै नमः ।
ॐ विद्याधर्यै नमः ।
ॐ लोकधात्र्यै नमः ।
ॐ सर्वायै नमः ।
ॐ सारस्वरूपिण्यै नमः ।
ॐ पापघ्न्यै नमः ।
ॐ सर्वतोभद्रायै नमः ।
ॐ त्रिस्थायै नमः ।
ॐ शक्तित्रयात्मिकायै नमः ।
ॐ त्रिकोणनिलयायै नमः । ९३० ।

ॐ त्रिस्थायै नमः ।
ॐ त्रयीमात्रे नमः ।
ॐ त्रयीपत्यै नमः ।
ॐ त्रयीविद्यायै नमः ।
ॐ त्रयीसारायै नमः ।
ॐ त्रयीरूपायै नमः ।
ॐ त्रिपुष्करायै नमः ।
ॐ त्रिवर्णायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिश्रियै नमः । ९४० ।

ॐ त्रिमूर्तये नमः ।
ॐ त्रिदशेश्वर्यै नमः ।
ॐ त्रिकोणसंस्थायै नमः ।
ॐ त्रिविधायै नमः ।
ॐ त्रिस्वरायै नमः ।
ॐ त्रिपुराम्बिकायै नमः ।
ॐ त्रिविधायै नमः ।
ॐ त्रिदिवेशान्यै नमः ।
ॐ त्रिस्थायै नमः ।
ॐ त्रिपुरदाहिन्यै नमः । ९५० ।

ॐ जङ्घिन्यै नमः ।
ॐ स्फोटिन्यै नमः ।
ॐ स्फूर्त्यै नमः ।
ॐ स्तम्भिन्यै नमः ।
ॐ शोषिण्यै नमः ।
ॐ प्लुतायै नमः ।
ॐ ऐङ्काराख्यायै नमः ।
ॐ वासुदेव्यै नमः ।
ॐ खण्डिन्यै नमः ।
ॐ चण्डदण्डिन्यै नमः । ९६० ।

ॐ क्लीङ्कार्यै नमः ।
ॐ वत्सलायै नमः ।
ॐ हृष्टायै नमः ।
ॐ सौःकार्यै नमः ।
ॐ मदहंसिकायै नमः ।
ॐ वज्रिण्यै नमः ।
ॐ द्राविण्यै नमः ।
ॐ जैत्र्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ गोमत्यै नमः । ९७० ।

ॐ ध्रुवायै नमः ।
ॐ परतेजोमय्यै नमः ।
ॐ संविदे नमः ।
ॐ पूर्णपीठनिवासिन्यै नमः ।
ॐ त्रिधात्मने नमः ।
ॐ त्रिदशाध्यक्षायै नमः ।
ॐ त्रिघ्न्यै नमः ।
ॐ त्रिपुरमालिन्यै नमः ।
ॐ त्रिपुराश्रिये नमः ।
ॐ त्रिजनन्यै नमः । ९८० ।

ॐ त्रिभुवे नमः ।
ॐ त्रैलोक्यसुन्दर्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ कुण्डल्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ बालभक्तेष्टदायिन्यै नमः ।
ॐ कलावत्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ भक्तिदायै नमः ।
ॐ भवनाशिन्यै नमः । ९९० ।

ॐ सौगन्धिन्यै नमः ।
ॐ सरिद्वेण्यै नमः ।
ॐ पद्मरागकिरीटिन्यै नमः ।
ॐ तत्त्वत्रय्यै नमः ।
ॐ तत्त्वमय्यै नमः ।
ॐ मन्त्रिण्यै नमः ।
ॐ मन्त्ररूपिण्यै नमः ।
ॐ सिद्धायै नमः ।
ॐ श्रीत्रिपुरावासायै नमः ।
ॐ बालात्रिपुरसुन्दर्यै नमः । १००० ।

इति श्रीबालासहस्रनामावलिः सम्पूर्णा ॥

Also Read 1000 Names of Sri Bala 1:

1000 Names of Sri Bala 1 | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bala 1 | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top