Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Tara | Sahasranamavali 1 Takaradi Lyrics in Hindi

Shri Tara Sahasranamavali 1 Takaradi Lyrics in Hindi:

॥ श्रीतारासहस्रनामावली १ तकारादि ॥

१. विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्मस्थिताम् ।
कर्त्रीखड्गकपालनीलनलिनैः राजत्करां नीलभाम् ॥

काञ्चीकुण्डलहारकङ्कणलसत्केयूरमञ्जीरकाम् ।
आप्तैर्नागवरैर्विभूषिततनुं चारक्तनेत्रत्रयाम् ॥

पिङ्गैकाग्रजटां लसत्सुरसनां दंष्ट्राकरालाननाम् ।
हस्तैश्चापि वरं कटौ विदधतीं श्वेतास्थिपट्टालिकाम् ॥

अक्षेभ्येण विराजमानशिरसं स्मेराननाम्भोरुहाम् ।
तारं शावहृदासनां दृढकुचामम्बां त्रिलोक्यां भजे ॥

२. श्वेताम्बरां शारदचन्द्रकान्तिं सद्भूषणां चन्द्रकलावतंसाम् ।
कर्त्रीकपालान्वितपादपद्मां तारां त्रिनेत्रां प्रभजेऽखिलर्द्ध्यै ॥

३. प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा ।
खड्गेन्दीवरकर्त्रिखर्परभुजा हुङ्कारबीजोद्भवा ॥

खर्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता ।
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा स्वयम् ॥

४. सात्त्विकमूर्तिध्यानम् ॥

श्वेताम्बराढ्यां हंसस्थां मुक्ताभरणभूषिताम् ।
चतुर्वक्त्रामष्टभुजैर्दधानां कुण्डिकाम्बुजे ॥

वराभये पाशशक्ती अक्षस्रक्पुष्पमालिके ।
शब्दपाथोनिधेर्मध्ये तारां स्थितिकरीं भजे ॥

५. राजसमूर्तिध्यानम् ॥

रक्ताम्बरां रक्तसिंहासनस्थां हेमभूषिताम् ।
एकवक्त्रां वेदसङ्ख्यैर्भुजैः सम्बिभ्रतीं क्रमात् ॥

अक्षमालां पानपात्रमभयं वरमुत्तमम् ।
श्वेतद्वीपस्थितां वन्दे तारां स्थितिपरायणाम् ॥

६. तामसमूर्तिध्यानम् ॥

कृष्णाम्बराढ्यां नौसंस्थामस्थ्याभरणभूषिताम् ।
नववक्त्रां भुजैरष्टादशभिर्दधतीं वरम् ॥

अभयं परशुं दर्वीं खड्गं पाशुपतं हलम् ।
भिन्दिं शूलं च मुसलं कर्त्रीं शक्तिं त्रिशीर्षकम् ॥

संहारास्त्रं वज्रपाशौ खट्वाङ्गं गदया सह ।

ॐ तारायै नमः ।
ॐ तारादि पञ्चार्णायै नमः ।
ॐ तारान्यावेदवीर्यजायै नमः ।
ॐ तारायै नमः ।
ॐ तारहितावर्णायै नमः ।
ॐ ताराद्यायै नमः ।
ॐ ताररूपिण्यै नमः ।
ॐ तारारात्रिसमुत्पन्नायै नमः ।
ॐ तारारात्रिवरोद्यतायै नमः ।
ॐ तारारात्रिजपासक्तायै नमः । १० ।

ॐ तारारात्रिस्वरूपिण्यै नमः ।
ॐ ताराराज्ञीस्वसन्तुष्टायै नमः ।
ॐ ताराराज्ञीवरप्रदायै नमः ।
ॐ ताराराज्ञीस्वरूपायै नमः ।
ॐ ताराराज्ञीप्रसिद्धिदायै नमः ।
ॐ ताराहृत्पङ्कजागारायै नमः ।
ॐ ताराहृत्पङ्कजापरायै नमः ।
ॐ ताराहृत्पङ्कजाधारायै नमः ।
ॐ ताराहृत्पङ्कजायै नमः ।
ॐ तारेश्वर्यै नमः । २० ।

ॐ ताराभायै नमः ।
ॐ तारागणस्वरूपिण्यै नमः ।
ॐ तारागणसमाकीर्णायै नमः ।
ॐ तारागणनिषेवितायै नमः ।
ॐ तारायै नमः ।
ॐ तारान्वितायै नमः ।
ॐ तारारत्नान्वितविभूषणायै नमः ।
ॐ तारागणरणासन्नायै नमः ।
ॐ ताराकृत्यप्रपूजितायै नमः ।
ॐ तारागणकृताहारायै नमः । ३० ।

ॐ तारागणकृताश्रयायै नमः ।
ॐ तारागणकृतागारायै नमः ।
ॐ तारागणनतत्परायै नमः ।
ॐ तारागुणगणाकीर्णायै नमः ।
ॐ तारागुणगणप्रदायै नमः ।
ॐ तारागुणगणासक्तायै नमः ।
ॐ तारागुणगणालयायै नमः ।
ॐ तारेश्वर्यै नमः ।
ॐ तारपूज्यायै नमः ।
ॐ ताराजप्यायै नमः । ४० ।

ॐ तारणायै नमः ।
ॐ तारमुख्यायै नमः ।
ॐ ताराख्यायै नमः ।
ॐ तारदक्षायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारागम्यायै नमः ।
ॐ तारस्थायै नमः ।
ॐ तारामृततरङ्गिण्यै नमः ।
ॐ तारभव्यायै नमः ।
ॐ तारार्णायै नमः । ५० ।

ॐ तारहव्यायै नमः ।
ॐ तारिण्यै नमः ।
ॐ तारकायै नमः ।
ॐ तारकान्तस्थायै नमः ।
ॐ तारकाराशिभूषणायै नमः ।
ॐ तारकाहारशोभाढ्यायै नमः ।
ॐ तारकावेष्टिताङ्गणायै नमः ।
ॐ तारकाहंसकाकीर्णायै नमः ।
ॐ तारकाकृतभूषणायै नमः ।
ॐ तारकाङ्गदशोभाङ्ग्यै नमः । ६० ।

ॐ तारकाश्रितकङ्कणायै नमः ।
ॐ तारकाञ्चितकाञ्च्यै नमः ।
ॐ तारकान्वितभक्षणायै नमः ।
ॐ तारकाचित्रवसनायै नमः ।
ॐ तारकासनमण्डलायै नमः ।
ॐ तारकाकीर्णमुकुटायै नमः ।
ॐ तारकाश्रितकुण्डलायै नमः ।
ॐ तारकान्वितताटङ्कयुग्मगण्डस्थलोज्ज्वलायै नमः ।
ॐ तारकाश्रितपादाब्जायै नमः ।
ॐ तारकावरदायिकायै नमः । ७० ।

ॐ तारकादत्तहृदयायै नमः ।
ॐ तारकाञ्चितसायकायै नमः ।
ॐ तारकान्यासकुशलायै नमः ।
ॐ तारकान्यासविग्रहायै नमः ।
ॐ तारकान्याससन्तुष्टायै नमः ।
ॐ तारकान्याससिद्धिदायै नमः ।
ॐ तारकान्यासनिलयायै नमः ।
ॐ तारकान्यासपूजितायै नमः ।
ॐ तारकान्याससंहृष्टायै नमः ।
ॐ तारकान्याससिद्धिदायै नमः । ८० ।

ॐ तारकान्याससम्मग्नायै नमः ।
ॐ तारकान्यासवासिन्यै नमः ।
ॐ तारकान्याससम्पूर्णमन्त्रसिद्धिविधायिन्यै नमः ।
ॐ तारकोपासकप्राणायै नमः ।
ॐ तारकोपासकप्रियायै नमः ।
ॐ तारकोपासकासाध्यायै नमः ।
ॐ तारकोपासकेष्टदायै नमः ।
ॐ तारकोपासकासक्तायै नमः ।
ॐ तारकोपासकार्थिन्यै नमः ।
ॐ तारकोपासकाराध्यायै नमः । ९० ।

ॐ तारकोपासकाश्रयायै नमः ।
ॐ तारकासुरसन्तुष्टायै नमः ।
ॐ तारकासुरपूजितायै नमः ।
ॐ तारकासुरनिर्माणकर्त्र्यै नमः ।
ॐ तारकवन्दितायै नमः ।
ॐ तारकासुरसम्मान्यायै नमः ।
ॐ तारकासुरमानदायै नमः ।
ॐ तारकासुरसंसिद्धायै नमः ।
ॐ तारकासुरदेवतायै नमः ।
ॐ तारकासुरदेहस्थायै नमः । १०० ।

ॐ तारकासुरस्वर्गदायै नमः ।
ॐ तारकासुरसंसृष्टायै नमः ।
ॐ तारकासुरगर्वदायै नमः ।
ॐ तारकासुरसंहन्त्र्यै नमः ।
ॐ तारकासुरमर्दिन्यै नमः ।
ॐ तारकासुरसङ्ग्रामनर्तक्यै नमः ।
ॐ तारकापहायै नमः ।
ॐ तारकासुरसङ्ग्रामकारिण्यै नमः ।
ॐ तारकारिभृते नमः ।
ॐ तारकासुरसङ्ग्रामकबन्धवृन्दवन्दितायै नमः । ११० ।

ॐ तारकारिप्रसुवे नमः ।
ॐ तारकारिमात्रे
ॐ तारिकायै नमः ।
ॐ तारकारिमनोहारिवस्त्रभूषानुशासिकायै नमः ।
ॐ तारकारिविधात्र्यै नमः ।
ॐ तारकारिनिषेवितायै नमः ।
ॐ तारकारिवचस्तुष्टायै नमः ।
ॐ तारकारिसुशिक्षितायै नमः ।
ॐ तारकारिसुसन्तुष्टायै नमः ।
ॐ तारकारिविभूषितायै नमः । १२० ।

ॐ तारकारिकृतोत्सङ्ग्यै नमः ।
ॐ तारकारिप्रहर्षदायै नमः ।
ॐ तमः सम्पूर्णसर्वाङ्ग्यै नमः ।
ॐ तमोलिप्तकलेवरायै नमः ।
ॐ तमोव्याप्तस्थलासङ्गायै नमः ।
ॐ तमःपटलसन्निभायै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ तमःकर्त्र्यै नमः ।
ॐ तमःसञ्चारकारिण्यै नमः ।
ॐ तमोगात्र्यै नमः । १३० ।

ॐ तमोदात्र्यै नमः ।
ॐ तमःपात्र्यै नमः ।
ॐ तमोऽपहायै नमः ।
ॐ तमोराशये नमः ।
ॐ तमोनाशायै नमः ।
ॐ तमोराशिविनाशिन्यै नमः ।
ॐ तमोराशिकृतध्वंस्यै नमः ।
ॐ तमोराशिभयङ्कर्यै नमः ।
ॐ तमोगुणप्रसन्नास्यायै नमः ।
ॐ तमोगुणसुसिद्धिदायै नमः । १४० ।

ॐ तमोगुणोक्तमार्गस्थायै नमः ।
ॐ तमोगुणविराजितायै नमः ।
ॐ तमोगुणस्तुतिपरायै नमः ।
ॐ तमोगुणविवर्धिन्यै नमः ।
ॐ तमोगुणाश्रितपरायै नमः ।
ॐ तमोगुणविनाशिन्यै नमः ।
ॐ तमोगुणक्षयकर्यै नमः ।
ॐ तमोगुणकलेवरायै नमः ।
ॐ तमोगुणध्वंसतुष्टायै नमः ।
ॐ तमःपारे प्रतिष्ठितायै नमः । १५० ।

ॐ तमोभवभवप्रीतायै नमः ।
ॐ तमोभवभवप्रियायै नमः ।
ॐ तमोभवभवश्रद्धायै नमः ।
ॐ तमोभवभवाश्रयायै नमः ।
ॐ तमोभवभवप्राणायै नमः ।
ॐ तमोभवभवार्चितायै नमः ।
ॐ तमोभवभवप्रत्यालीढकुम्भस्थलस्थितायै नमः ।
ॐ तपस्विबृन्दसन्तुष्टायै नमः ।
ॐ तपस्विबृन्दपुष्टिदायै नमः ।
ॐ तपस्विबृन्दसंस्तुत्यायै नमः । १६० ।

ॐ तपस्विबृन्दवन्दितायै नमः ।
ॐ तपस्विबृन्दसम्पन्नायै नमः ।
ॐ तपस्विबृन्दहर्षदायै नमः ।
ॐ तपस्विबृन्दसम्पूज्यायै नमः ।
ॐ तपस्विबृन्दभूषितायै नमः ।
ॐ तपस्विचित्ततल्पस्थायै नमः ।
ॐ तपस्विचित्तमध्यगायै नमः ।
ॐ तपस्विचित्तचित्तार्हायै नमः ।
ॐ तपस्विचित्तहारिण्यै नमः ।
ॐ तपस्विकल्पवल्याभायै नमः । १७० ।

ॐ तपस्विकल्पपादप्यै नमः ।
ॐ तपस्विकामधेनवे नमः ।
ॐ तपस्विकामपूर्तिदायै नमः ।
ॐ तपस्वित्राणनिरतायै नमः ।
ॐ तपस्विगृहसंस्थितायै नमः ।
ॐ तपस्विगृहराजश्रियै नमः ।
ॐ तपस्विराज्यदायिकायै नमः ।
ॐ तपस्विमानसाराध्यायै नमः ।
ॐ तपस्विमानदायिकायै नमः ।
ॐ तपस्वितापसंहर्त्र्यै नमः । १८० ।

ॐ तपस्वितापशान्तिकृते नमः ।
ॐ तपस्विसिद्धिविद्यायै नमः ।
ॐ तपस्विमन्त्रसिद्धिकृते नमः ।
ॐ तपस्विमन्त्रतन्त्रेश्यै नमः ।
ॐ तपस्विमन्त्ररूपिण्यै नमः ।
ॐ तपस्विमन्त्रनिपुणायै नमः ।
ॐ तपस्विकर्मकारिण्यै नमः ।
ॐ तपस्विकर्मसम्भूतायै नमः ।
ॐ तपस्विकर्मसाक्षिण्यै नमः ।
ॐ तपस्सेव्यायै नमः । १९० ।

ॐ तपोभव्यायै नमः ।
ॐ तपोभाव्यायै नमः ।
ॐ तपस्स्विन्यै नमः ।
ॐ तपोवश्यायै नमः ।
ॐ तपोगम्यायै नमः ।
ॐ तपोगेहनिवासिन्यै नमः ।
ॐ तपोधन्यायै नमः ।
ॐ तपोमान्यायै नमः ।
ॐ तपःकन्यायै नमः ।
ॐ तपोवृतायै नमः । २०० ।

ॐ तपसे नमः ।
ॐ तथ्यायै नमः ।
ॐ तपोगोप्यायै नमः ।
ॐ तपोजप्यायै नमः ।
ॐ तपोऽनृतायै नमः ।
ॐ तपस्साध्यायै नमः ।
ॐ तपोऽऽराध्यायै नमः ।
ॐ तपोवन्द्यायै नमः ।
ॐ तपोमय्यै नमः ।
ॐ तपस्सन्ध्यायै नमः । २१० ।

ॐ तपोवन्द्यायै नमः ।
ॐ तपस्सान्निध्यकारिण्यै नमः ।
ॐ तपोध्येयायै नमः ।
ॐ तपोगेयायै नमः ।
ॐ तपस्तप्तायै नमः ।
ॐ तपोबलायै नमः ।
ॐ तपोलेयायै नमः ।
ॐ तपोदेयायै नमः ।
ॐ तपस्तत्त्वफलप्रदायै नमः ।
ॐ तपोविघ्नवरघ्न्यै नमः । २२० ।

ॐ तपोविघ्नविनाशिन्यै नमः ।
ॐ तपोविघ्नचयध्वंस्यै नमः ।
ॐ तपोविघ्नभयङ्कर्यै नमः ।
ॐ तपोभूमिवरप्राणायै नमः ।
ॐ तपोभूमिपतिस्तुतायै नमः ।
ॐ तपोभूमिपतिध्येयायै नमः ।
ॐ तपोभूमिपतीष्टदायै नमः ।
ॐ तपोवनकुरङ्गस्थायै नमः ।
ॐ तपोवनविनाशिन्यै नमः ।
ॐ तपोवनगतिप्रीतायै नमः । २३० ।

ॐ तपोवनविहारिण्यै नमः ।
ॐ तपोवनफलासक्तायै नमः ।
ॐ तपोवनफलप्रदायै नमः ।
ॐ तपोवनसुसाध्यायै नमः ।
ॐ तपोवनसुसिद्धिदायै नमः ।
ॐ तपोवनसुसेव्यायै नमः ।
ॐ तपोवननिवासिन्यै नमः ।
ॐ तपोधनसुसंसेव्यायै नमः ।
ॐ तपोधनसुसाधितायै नमः ।
ॐ तपोधनसुसंलीनायै नमः । २४० ।

ॐ तपोधनमनोमय्यै नमः ।
ॐ तपोधननमस्कारायै नमः ।
ॐ तपोधनविमुक्तिदायै नमः ।
ॐ तपोधनधनासाध्यायै नमः ।
ॐ तपोधनधनात्मिकायै नमः ।
ॐ तपोधनधनाराध्यायै नमः ।
ॐ तपोधनफलप्रदायै नमः ।
ॐ तपोधनधनाढ्यायै नमः ।
ॐ तपोधनधनेश्वर्यै नमः ।
ॐ तपोधनधनप्रीतायै नमः । २५० ।

ॐ तपोधनधनालयायै नमः ।
ॐ तपोधनजनाकीर्णायै नमः ।
ॐ तपोधनजनाश्रयायै नमः ।
ॐ तपोधनजनाराध्यायै नमः ।
ॐ तपोधनजनप्रसुवे
ॐ तपोधनजनप्राणायै नमः ।
ॐ तपोधनजनेष्टदायै नमः ।
ॐ तपोधनजनासाध्यायै नमः ।
ॐ तपोधनजनेश्वर्यै नमः ।
ॐ तरुणासृक्प्रपन्नार्तायै नमः । २६० ।

ॐ तरुणासृक्प्रतर्पितायै नमः ।
ॐ तरुणासृक्समुद्रस्थायै नमः ।
ॐ तरुणासृक्प्रहर्षदायै नमः ।
ॐ तरुणासृक्सुसन्तुष्टायै नमः ।
ॐ तरुणासृग्विलेपितायै नमः ।
ॐ तरुणासृङ्नदीप्राणायै नमः ।
ॐ तरुणासृग्विभूषणायै नमः ।
ॐ तरुणैणबलिप्रीतायै नमः ।
ॐ तरुणैणबलिप्रियायै नमः ।
ॐ तरुणैणबलिप्राणायै नमः । २७० ।

ॐ तरुणैणबलीष्टदायै नमः ।
ॐ तरुणाजबलिप्रीतायै नमः ।
ॐ तरुणाजबलिप्रियायै नमः ।
ॐ तरुणाजबलिघ्राणायै नमः ।
ॐ तरुणाजबलिप्रभुजे नमः ।
ॐ तरुणादित्यसङ्काशायै नमः ।
ॐ तरुणादित्यविग्रहायै नमः ।
ॐ तरुणादित्यरुचिरायै नमः ।
ॐ तरुणादित्यनिर्मलायै नमः ।
ॐ तरुणादित्यनिलयायै नमः । २८० ।

ॐ तरुणादित्यमण्डलायै नमः ।
ॐ तरुणादित्यललितायै नमः ।
ॐ तरुणादित्यकुण्डलायै नमः ।
ॐ तरुणार्कसमज्योत्स्नायै नमः ।
ॐ तरुणार्कसमप्रभायै नमः ।
ॐ तरुणार्कप्रतीकाशायै नमः ।
ॐ तरुणार्कप्रवर्धितायै नमः ।
ॐ तरुणारुणनेत्रायै नमः ।
ॐ तरुणारुणलोचनायै नमः ।
ॐ तरुणारुणगात्रायै नमः । २९० ।

ॐ तरुणारुणभूषणायै नमः ।
ॐ तरुणीदत्तसङ्केतायै नमः ।
ॐ तरुणीदत्तभूषणायै नमः ।
ॐ तरुणीगणसन्तुष्टायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तरुणीमण्यै नमः ।
ॐ तरुणीमणिसंसेव्यायै नमः ।
ॐ तरुणीमणिवन्दितायै नमः ।
ॐ तरुणीमणिसन्तुष्टायै नमः ।
ॐ तरुणीमणिपूजितायै नमः । ३०० ।

ॐ तरुणीबृन्दसंवन्द्यायै नमः ।
ॐ तरुणीबृन्दवन्दितायै नमः ।
ॐ तरुणीबृन्दसंस्तुत्यायै नमः ।
ॐ तरुणीबृन्दमानदायै नमः ।
ॐ तरुणीबृन्दमध्यस्थायै नमः ।
ॐ तरुणीबृन्दवेष्टितायै नमः ।
ॐ तरुणीबृन्दसम्प्रीतायै नमः ।
ॐ तरुणीबृन्दभूषितायै नमः ।
ॐ तरुणीजपसंसिद्धायै नमः ।
ॐ तरुणीजपमोक्षदायै नमः । ३१० ।

ॐ तरुणीपूजकासक्तायै नमः ।
ॐ तरुणीपूजकार्थिन्यै नमः ।
ॐ तरुणीपूजकश्रीदायै नमः ।
ॐ तरुणीपूजकार्तिहायै नमः ।
ॐ तरुणीपूजकप्राणायै नमः ।
ॐ तरुणीनिन्दकार्तिदायै नमः ।
ॐ तरुणीकोटिनिलयायै नमः ।
ॐ तरुणीकोटिविग्रहायै नमः ।
ॐ तरुणीकोटिमध्यस्थायै नमः ।
ॐ तरुणीकोटिवेष्टितायै नमः । ३२० ।

ॐ तरुणीकोटिदुस्साध्यायै नमः ।
ॐ तरुणीकोटिविग्रहायै नमः ।
ॐ तरुणीकोटिरुचिरायै नमः ।
ॐ तरुण्यै नमः ।
ॐ तरुणीश्वर्यै नमः ।
ॐ तरुणीमणिहाराढ्यायै नमः ।
ॐ तरुणीमणिकुण्डलायै नमः ।
ॐ तरुणीमणिसन्तुष्टायै नमः ।
ॐ तरुणीमणिमण्डितायै नमः ।
ॐ तरुणीसरणीप्रीतायै नमः । ३३० ।

ॐ तरुणीसरणीरतायै नमः ।
ॐ तरुणीसरणीस्थानायै नमः ।
ॐ तरुणीसरणीमतायै नमः ।
ॐ तरणीमण्डलश्रीदायै नमः ।
ॐ तरणीमण्डलेश्वर्यै नमः ।
ॐ तरणीमण्डलश्रद्धायै नमः ।
ॐ तरणीमण्डलस्थितायै नमः ।
ॐ तरणीमण्डलार्घ्याढ्यायै नमः ।
ॐ तरणीमण्डलार्चितायै नमः ।
ॐ तरणीमण्डलध्येयायै नमः । ३४० ।

ॐ तरणीभवसागरायै नमः ।
ॐ तरणीकारणासक्तायै नमः ।
ॐ तरणीतक्षकार्चितायै नमः ।
ॐ तरणीतक्षकश्रीदायै नमः ।
ॐ तरणीतक्षकार्थिन्यै नमः ।
ॐ तर्यै नमः ।
ॐ तरणशीलायै नमः ।
ॐ तरीतरणतारिण्यै नमः ।
ॐ तरीतरणसंवेद्यायै नमः ।
ॐ तरीतरणकारिण्यै नमः । ३५० ।

ॐ तरुरूपायै नमः ।
ॐ तरूपस्थायै नमः ।
ॐ तरवे नमः ।
ॐ तरुलतामय्यै नमः ।
ॐ तरुरूपायै नमः ।
ॐ तरुस्थायै नमः ।
ॐ तरुमध्यनिवासिन्यै नमः ।
ॐ तप्तकाञ्चनगेहस्थायै नमः ।
ॐ तप्तकाञ्चनभूमिकायै नमः ।
ॐ तप्तकाञ्चनप्राकारायै नमः । ३६० ।

ॐ तप्तकाञ्चनपादुकायै नमः ।
ॐ तप्तकाञ्चनदीप्ताङ्ग्यै नमः ।
ॐ तप्तकाञ्चनसन्निभायै नमः ।
ॐ तप्तकाञ्चनगौराङ्ग्यै नमः ।
ॐ तप्तकाञ्चनमञ्चगायै नमः ।
ॐ तप्तकाञ्चनवस्त्राढ्यायै नमः ।
ॐ तप्तकाञ्चनरूपिण्यै नमः ।
ॐ तप्तकाञ्चनमध्यस्थायै नमः ।
ॐ तप्तकाञ्चनकारिण्यै नमः ।
ॐ तप्तकाञ्चनमासार्च्यायै नमः । ३७० ।

ॐ तप्तकाञ्चनपात्रभुजे नमः ।
ॐ तप्तकाञ्चनशैलस्थायै नमः ।
ॐ तप्तकाञ्चनकुण्डलायै नमः ।
ॐ तप्तकाञ्चनक्षेत्राढ्यायै नमः ।
ॐ तप्तकाञ्चनदण्डधृषे नमः ।
ॐ तप्तकाञ्चनभूषाढ्यायै नमः ।
ॐ तप्तकाञ्चनदानदायै नमः ।
ॐ तप्तकाञ्चनदेवेश्यै नमः ।
ॐ तप्तकाञ्चनचापधृषे नमः ।
ॐ तप्तकाञ्चनतूणाढ्यायै नमः । ३८० ।

ॐ तप्तकाञ्चनबाणभृते
ॐ तलातलविधात्र्यै नमः ।
ॐ तलातलविधायिन्यै नमः ।
ॐ तलातलस्वरूपेश्यै नमः ।
ॐ तलातलविहारिण्यै नमः ।
ॐ तलातलजनासाध्यायै नमः ।
ॐ तलातलजनेश्वर्यै नमः ।
ॐ तलातलजनाराध्यायै नमः ।
ॐ तलातलजनार्थदायै नमः ।
ॐ तलातलजयाभाक्ष्यै नमः । ३९० ।

ॐ तलातलजचञ्चलायै नमः ।
ॐ तलातलजरत्नाढ्यायै नमः ।
ॐ तलातलजदेवतायै नमः ।
ॐ तटिनीस्थानरसिकायै नमः ।
ॐ तटिनीतटवासिन्यै नमः ।
ॐ तटिन्यै नमः ।
ॐ तटिनीतीरगामिन्यै नमः ।
ॐ तटिनीप्रियायै नमः ।
ॐ तटिनीप्लवनप्रीतायै नमः ।
ॐ तटिनीप्लवनोद्यतायै नमः । ४०० ।

ॐ तटिनीप्लवनश्लाघ्यायै नमः ।
ॐ तटिनीप्लवनार्थदायै नमः ।
ॐ तटलास्यायै नमः ।
ॐ तटस्थानायै नमः ।
ॐ तटेश्यै नमः ।
ॐ तटवासिन्यै नमः ।
ॐ तटपूज्यायै नमः ।
ॐ तटाराध्यायै नमः ।
ॐ तटरोममुखार्थिन्यै नमः ।
ॐ तटजायै नमः । ४१० ।

ॐ तटरूपायै नमः ।
ॐ तटस्थायै नमः ।
ॐ तटचञ्चलायै नमः ।
ॐ तटसन्निधिगेहस्थासहितायै नमः ।
ॐ तटशायिन्यै नमः ।
ॐ तरङ्गिण्यै नमः ।
ॐ तरङ्गाभायै नमः ।
ॐ तरङ्गायतलोचनायै नमः ।
ॐ तरङ्गसमदुर्धर्षायै नमः ।
ॐ तरङ्गसमचञ्चलायै नमः । ४२० ।

ॐ तरङ्गसमदीर्घाङ्ग्यै नमः ।
ॐ तरङ्गसमवर्धितायै नमः ।
ॐ तरङ्गसमसंवृद्धये नमः ।
ॐ तरङ्गसमनिर्मलायै नमः ।
ॐ तडागमध्यनिलयायै नमः ।
ॐ तडागमध्यसम्भवायै नमः ।
ॐ तडागरचनश्लाघ्यायै नमः ।
ॐ तडागरचनोद्यतायै नमः ।
ॐ तडागकुमुदामोद्यै नमः ।
ॐ तडागेश्यै नमः । ४३० ।

ॐ तडागिन्यै नमः ।
ॐ तडागनीरसंस्नातायै नमः ।
ॐ तडागनीरनिर्मलायै नमः ।
ॐ तडागकमलागारायै नमः ।
ॐ तडागकमलालयायै नमः ।
ॐ तडागकमलान्तस्स्थायै नमः ।
ॐ तडागकमलोद्यतायै नमः ।
ॐ तडागकमलाङ्ग्यै नमः ।
ॐ तडागकमलाननायै नमः ।
ॐ तडागकमलप्राणायै नमः । ४४० ।

ॐ तडागकमलेक्षणायै नमः ।
ॐ तडागरक्तपद्मस्थायै नमः ।
ॐ तडागश्वेतपद्मगायै नमः ।
ॐ तडागनीलपद्माभायै नमः ।
ॐ तडागनीलपद्मभृते नमः ।
ॐ तन्वै नमः ।
ॐ तनुगतायै नमः ।
ॐ तन्व्यै नमः ।
ॐ तन्वङ्ग्यै नमः ।
ॐ तनुधारिण्यै नमः । ४५० ।

ॐ तनुरूपायै नमः ।
ॐ तनुगतायै नमः ।
ॐ तनुधृषे नमः ।
ॐ तनुरूपिण्यै नमः ।
ॐ तनुस्थायै नमः ।
ॐ तनुमध्याङ्ग्यै नमः ।
ॐ तनुकृते नमः ।
ॐ तनुमङ्गलायै नमः ।
ॐ तनुसेव्यायै नमः ।
ॐ तनुजायै नमः । ४६० ।

ॐ तनुजातनुसम्भवायै नमः ।
ॐ तनुभृते नमः ।
ॐ तनुसम्भूतायै नमः ।
ॐ तनुदायै नमः ।
ॐ तनुकारिण्यै नमः ।
ॐ तनुभृते नमः ।
ॐ तनुसंहन्त्र्यै नमः ।
ॐ तनुसञ्चारकारिण्यै नमः ।
ॐ तथ्यवाचे नमः ।
ॐ तथ्यवचनायै नमः । ४७० ।

ॐ तथ्यकृते नमः ।
ॐ तथ्यवादिन्यै नमः ।
ॐ तथ्यभृते नमः ।
ॐ तथ्यचरितायै नमः ।
ॐ तथ्यधर्मानुवर्तिन्यै नमः ।
ॐ तथ्यभुजे नमः ।
ॐ तथ्यगमनायै नमः ।
ॐ तथ्यभक्तिवरप्रदायै नमः ।
ॐ तथ्यनीचेश्वर्यै नमः ।
ॐ तथ्यचित्ताचाराशुसिद्धिदायै नमः । ४८० ।

ॐ तर्क्यायै नमः ।
ॐ तर्क्यस्वभावायै नमः ।
ॐ तर्कदायै नमः ।
ॐ तर्ककृते नमः ।
ॐ तर्काध्यापनमध्यस्थायै नमः ।
ॐ तर्काध्यापनकारिण्यै नमः ।
ॐ तर्काध्यापनसन्तुष्टायै नमः ।
ॐ तर्काध्यापनरूपिण्यै नमः ।
ॐ तर्काध्यापनसंशीलायै नमः ।
ॐ तर्कार्थप्रतिपादितायै नमः । ४९० ।

ॐ तर्काध्यापनसन्तृप्तायै नमः ।
ॐ तर्कार्थप्रतिपादिन्यै नमः ।
ॐ तर्कवादाश्रितपदायै नमः ।
ॐ तर्कवादविवर्धिन्यै नमः ।
ॐ तर्कवादैकनिपुणायै नमः ।
ॐ तर्कवादप्रचारिण्यै नमः ।
ॐ तमालदलश्यामाङ्ग्यै नमः ।
ॐ तमालदलमालिन्यै नमः ।
ॐ तमालवनसङ्केतायै नमः ।
ॐ तमालपुष्पपूजितायै नमः । ५०० ।

ॐ तगर्यै नमः ।
ॐ तगराराध्यायै नमः ।
ॐ तगरार्चितपादुकायै नमः ।
ॐ तगरस्रक्सुसन्तुष्टायै नमः ।
ॐ तगरस्रग्विराजितायै नमः ।
ॐ तगराहुतिसन्तुष्टायै नमः ।
ॐ तगराहुतिकीर्तिदायै नमः ।
ॐ तगराहुतिसंसिद्धायै नमः ।
ॐ तगराहुतिमानदायै नमः ।
ॐ तडिते नमः । ५१० ।

ॐ तडिल्लताकारायै नमः ।
ॐ तडिच्चञ्चललोचनायै नमः ।
ॐ तडिल्लतायै नमः ।
ॐ तडित्तन्व्यै नमः ।
ॐ तडिद्दीप्तायै नमः ।
ॐ तडित्प्रभायै नमः ।
ॐ तद्रूपायै नमः ।
ॐ तत्स्वरूपेश्यै नमः ।
ॐ तन्मय्यै नमः ।
ॐ तत्त्वरूपिण्यै नमः । ५२० ।

ॐ तत्स्थानदाननिरतायै नमः ।
ॐ तत्कर्मफलदायिन्यै नमः ।
ॐ तत्त्वकृते नमः ।
ॐ तत्त्वदायै नमः ।
ॐ तत्त्वायै नमः ।
ॐ तत्त्वविदे नमः ।
ॐ तत्त्वतर्पितायै नमः ।
ॐ तत्त्वार्च्यायै नमः ।
ॐ तत्त्वपूज्यायै नमः ।
ॐ तत्त्वार्घ्यायै नमः । ५३० ।

ॐ तत्त्वरूपिण्यै नमः ।
ॐ तत्त्वज्ञानप्रदानेश्यै नमः ।
ॐ तत्त्वज्ञानसुमोक्षदायै नमः ।
ॐ त्वरितायै नमः ।
ॐ त्वरितप्रीतायै नमः ।
ॐ त्वरितार्तिविनाशिन्यै नमः ।
ॐ त्वरितासवसन्तुष्टायै नमः ।
ॐ त्वरितासवतर्पितायै नमः ।
ॐ त्वग्वस्त्रायै नमः ।
ॐ त्वक्परीधानायै नमः । ५४० ।

ॐ तरलायै नमः ।
ॐ तरलेक्षणायै नमः ।
ॐ तरक्षुचर्मवसनायै नमः ।
ॐ तरक्षुत्वग्विभूषणायै नमः ।
ॐ तरक्षवे नमः ।
ॐ तरक्षुप्राणायै नमः ।
ॐ तरक्षुपृष्ठगामिन्यै नमः ।
ॐ तरक्षुपृष्ठसंस्थानायै नमः ।
ॐ तरक्षुपृष्ठवासिन्यै नमः ।
ॐ उदैस्तर्पितायै नमः । ५५० ।

ॐ तर्पणाशायै नमः ।
ॐ तर्पणासक्तमानसायै नमः ।
ॐ तर्पणानन्दहृदयायै नमः ।
ॐ तर्पणाधिपतये नमः ।
ॐ ततये नमः ।
ॐ त्रयीमय्यै नमः ।
ॐ त्रयीसेव्यायै नमः ।
ॐ त्रयीपूज्यायै नमः ।
ॐ त्रयीकथायै नमः ।
ॐ त्रयीभव्यायै नमः । ५६० ।

ॐ त्रयीभाव्यायै नमः ।
ॐ त्रयीहव्यायै नमः ।
ॐ त्रयीयुतायै नमः ।
ॐ त्र्यक्षर्यै नमः ।
ॐ त्र्यक्षरेशान्यै नमः ।
ॐ त्र्यक्षरीशीघ्रसिद्धिदायै नमः ।
ॐ त्र्यक्षरेश्यै नमः ।
ॐ त्र्यक्षरीस्थायै नमः ।
ॐ त्र्यक्षरीपुरुषास्पदायै नमः ।
ॐ तपनायै नमः । ५७० ।

ॐ तपनेष्टायै नमः ।
ॐ तपसे नमः ।
ॐ तपनकन्यकायै नमः ।
ॐ तपनांशुसमासह्यायै नमः ।
ॐ तपनकोटिकान्तिभृते नमः ।
ॐ तपनीयायै नमः ।
ॐ तल्पगतायै नमः ।
ॐ तल्पायै नमः ।
ॐ तल्पविधायिन्यै नमः ।
ॐ तल्पकृते नमः । ५८० ।

ॐ तल्पगायै नमः ।
ॐ तल्पदात्र्यै नमः ।
ॐ तल्पलताश्रयायै नमः ।
ॐ तपनीयलतारात्र्यै नमः ।
ॐ तपनीयांशुप्रार्थिन्यै नमः ।
ॐ तपनीयप्रदायै नमः ।
ॐ तप्तायै नमः ।
ॐ तपनीयाद्रिसंस्थितायै नमः ।
ॐ तल्पेश्यै नमः ।
ॐ तल्पदायै नमः । ५९० ।

ॐ तल्पसंस्थितायै नमः ।
ॐ तल्पवल्लभायै नमः ।
ॐ तल्पप्रियायै नमः ।
ॐ तल्परतायै नमः ।
ॐ तल्पनिर्माणकारिण्यै नमः ।
ॐ तरसापूजनासक्तायै नमः ।
ॐ तरसावरदायिन्यै नमः ।
ॐ तरसासिद्धिसन्धात्र्यै नमः ।
ॐ तरसामोक्षदायिन्यै नमः ।
ॐ तापस्यै नमः । ६०० ।

ॐ तापसाराध्यायै नमः ।
ॐ तापसार्तिविनाशिन्यै नमः ।
ॐ तापसार्तायै नमः ।
ॐ तापसश्रियै नमः ।
ॐ तापसप्रियवादिन्यै नमः ।
ॐ तापसानन्दहृदयायै नमः ।
ॐ तापसानन्ददायिन्यै नमः ।
ॐ तापसाश्रितपादाब्जायै नमः ।
ॐ तापसासक्तमानसायै नमः ।
ॐ तामस्यै नमः । ६१० ।

ॐ तामसीपूज्यायै नमः ।
ॐ तामसीप्रणयोत्सुकायै नमः ।
ॐ तामस्यै नमः ।
ॐ तामसीप्रीतायै नमः ।
ॐ तामसीशीघ्रसिद्धिदायै नमः ।
ॐ तालेश्यै नमः ।
ॐ तालभुजे नमः ।
ॐ तालदात्र्यै नमः ।
ॐ तालोपमस्तन्यै नमः ।
ॐ तालवृक्षस्थितायै नमः । ६२० ।

ॐ तालवृक्षजायै नमः ।
ॐ तालरूपिण्यै नमः ।
ॐ तार्क्ष्यायै नमः ।
ॐ तार्क्ष्यसमारूढायै नमः ।
ॐ तार्क्ष्येश्यै नमः ।
ॐ तार्क्ष्यपूजितायै नमः ।
ॐ तार्क्ष्येश्वर्यै नमः ।
ॐ तार्क्ष्यमात्रे नमः ।
ॐ तार्क्ष्येशीवरदायिन्यै नमः ।
ॐ ताप्यै नमः । ६३० ।

ॐ तपिन्यै नमः ।
ॐ तापसंहन्त्र्यै नमः ।
ॐ तापनाशिन्यै नमः ।
ॐ तापदात्र्यै नमः ।
ॐ तापकर्त्र्यै नमः ।
ॐ तापविध्वंसकारिण्यै नमः ।
ॐ त्रासकर्त्र्यै नमः ।
ॐ त्रासदात्र्यै नमः ।
ॐ त्रासहर्त्र्यै नमः ।
ॐ त्रासहायै नमः । ६४० ।

ॐ त्रासितायै नमः ।
ॐ त्रासरहितायै नमः ।
ॐ त्रासनिर्मूलकारिण्यै नमः ।
ॐ त्राणकृते नमः ।
ॐ त्राणसंशीलायै नमः ।
ॐ तानेश्यै नमः ।
ॐ तानदायिन्यै नमः ।
ॐ तानगानरतायै नमः ।
ॐ तानकारिण्यै नमः ।
ॐ तानगायिन्यै नमः । ६५० ।

ॐ तारुण्यामृतसम्पूर्णायै नमः ।
ॐ तारुण्यामृतवारिध्यै नमः ।
ॐ तारुण्यामृतसन्तुष्टायै नमः ।
ॐ तारुण्यामृततर्पितायै नमः ।
ॐ तारुण्यामृतपूर्णाङ्ग्यै नमः ।
ॐ तारुण्यामृतविग्रहायै नमः ।
ॐ तारुण्यगुणसम्पन्नायै नमः ।
ॐ तारुण्योक्तिविशारदायै नमः ।
ॐ ताम्बूल्यै नमः ।
ॐ ताम्बुलेशान्यै नमः । ६६० ।

ॐ ताम्बूलचर्वणोद्यतायै नमः ।
ॐ ताम्बूलपूरितास्यायै नमः ।
ॐ ताम्बूलारुणिताधरायै नमः ।
ॐ ताटङ्करत्नविख्यात्यै नमः ।
ॐ ताटङ्करत्नभूषिण्यै नमः ।
ॐ ताटङ्करत्नमध्यस्थायै नमः ।
ॐ ताटङ्कद्वयभूषितायै नमः ।
ॐ तिथीशायै नमः ।
ॐ तिथिसम्पूज्यायै नमः ।
ॐ तिथिस्थायै नमः । ६७० ।

ॐ तिथिरूपिण्यै नमः ।
ॐ तिथित्रितयवास्तव्यायै नमः ।
ॐ तिथीशवरदायिन्यै नमः ।
ॐ तिलोत्तमादिकाराध्यायै नमः ।
ॐ तिलोत्तमादिकप्रभायै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ तिलप्रेक्षायै नमः ।
ॐ तिलाराध्यायै नमः ।
ॐ तिलार्चितायै नमः ।
ॐ तिलभुजे नमः । ६८० ।

ॐ तिलसन्दात्र्यै नमः ।
ॐ तिलतुष्टायै नमः ।
ॐ तिलालयायै नमः ।
ॐ तिलदायै नमः ।
ॐ तिलसङ्काशायै नमः ।
ॐ तिलतैलविधायिन्यै नमः ।
ॐ तिलतैलोपलिप्ताङ्ग्यै नमः ।
ॐ तिलतैलसुगन्धिन्यै नमः ।
ॐ तिलाज्यहोमसन्तुष्टायै नमः ।
ॐ तिलाज्यहोमसिद्धिदायै नमः । ६९० ।

ॐ तिलपुष्पाञ्जलिप्रीतायै नमः ।
ॐ तिलपुष्पाञ्जलिप्रियायै नमः ।
ॐ तिलपुष्पाञ्जलिश्रेष्ठायै नमः ।
ॐ तिलपुष्पाभनासिन्यै नमः ।
ॐ तिलकाश्रितसिन्दूरायै नमः ।
ॐ तिलकाङ्कितचन्दनायै नमः ।
ॐ तिलकाहृतकस्तूर्यै नमः ।
ॐ तिलकामोदमोहिन्यै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ त्रिगुणाकारायै नमः । ७०० ।

ॐ त्रिगुणान्वितविग्रहायै नमः ।
ॐ त्रिगुणाकारविख्यातायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मिकायै नमः ।
ॐ त्रिशिरसे नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेश्वर्यै नमः ।
ॐ त्रिपुरेश्यै नमः ।
ॐ त्रिलोकस्थायै नमः । ७१० ।

ॐ त्रिपुर्यै नमः ।
ॐ त्रिपुराम्बिकायै नमः ।
ॐ त्रिपुरारिसमाराध्यायै नमः ।
ॐ त्रिपुरारिवरप्रदायै नमः ।
ॐ त्रिपुरारिशिरोभूषायै नमः ।
ॐ त्रिपुरारिसुखप्रदायै नमः ।
ॐ त्रिपुरारीष्टसन्दात्र्यै नमः ।
ॐ त्रिपुरारीष्टदेवतायै नमः ।
ॐ त्रिपुरारिकृतार्धाङ्ग्यै नमः ।
ॐ त्रिपुरारिविलासिन्यै नमः । ७२० ।

ॐ त्रिपुरासुरसंहन्त्र्यै नमः ।
ॐ त्रिपुरासुरमर्दिन्यै नमः ।
ॐ त्रिपुरासुरसंसेव्यायै नमः ।
ॐ त्रिपुरासुरवर्यपायै नमः ।
ॐ त्रिकूटायै नमः ।
ॐ त्रिकुटाराध्यायै नमः ।
ॐ त्रिकूटार्चितविग्रहायै नमः ।
ॐ त्रिकूटाचलमध्यस्थायै नमः ।
ॐ त्रिकूटाचलवासिन्यै नमः ।
ॐ त्रिकूटाचलसञ्जातायै नमः । ७३० ।

ॐ त्रिकूटाचलनिर्गतायै नमः ।
ॐ त्रिजटायै नमः ।
ॐ त्रिजटेशान्यै नमः ।
ॐ त्रिजटावरदायिन्यै नमः ।
ॐ त्रिनेत्रेश्यै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ त्रिनेत्रवरवर्णिन्यै नमः ।
ॐ त्रिवल्यै नमः ।
ॐ त्रिवलीयुक्तायै नमः ।
ॐ त्रिशूलवरधारिण्यै नमः । ७४० ।

ॐ त्रिशूलेश्यै नमः ।
ॐ त्रिशूलीश्यै नमः ।
ॐ त्रिशूलभृते नमः ।
ॐ त्रिशूलिन्यै नमः ।
ॐ त्रिमनवे नमः ।
ॐ त्रिमनूपास्यायै नमः ।
ॐ त्रिमनूपासकेश्वर्यै नमः ।
ॐ त्रिमनुजपसन्तुष्टायै नमः ।
ॐ त्रिमनोस्तूर्णसिद्धिदायै नमः ।
ॐ त्रिमनुपूजनप्रीतायै नमः । ७५० ।

ॐ त्रिमनुध्यानमोक्षदायै नमः ।
ॐ त्रिविधायै नमः ।
ॐ त्रिविधाभक्त्यै नमः ।
ॐ त्रिमतायै नमः ।
ॐ त्रिमतेश्वर्यै नमः ।
ॐ त्रिभावस्थायै नमः ।
ॐ त्रिभावेश्यै नमः ।
ॐ त्रिभावपरिपूरितायै नमः ।
ॐ त्रितत्त्वात्मने नमः ।
ॐ त्रितत्त्वेश्यै नमः । ७६० ।

ॐ त्रितत्त्वज्ञायै नमः ।
ॐ त्रितत्त्वधृषे नमः ।
ॐ त्रितत्त्वाचमनप्रीतायै नमः ।
ॐ त्रितत्त्वाचमनेष्टदायै नमः ।
ॐ त्रिकोणस्थायै नमः ।
ॐ त्रिकोणेश्यै नमः ।
ॐ त्रिकोणचक्रवासिन्यै नमः ।
ॐ त्रिकोणचक्रमध्यस्थायै नमः ।
ॐ त्रिकोणबिन्दुरूपिण्यै नमः ।
ॐ त्रिकोणयन्त्रसंस्थानायै नमः । ७७० ।

ॐ त्रिकोणयन्त्ररूपिण्यै नमः ।
ॐ त्रिकोणयन्त्रसम्पूज्यायै नमः ।
ॐ त्रिकोणयन्त्रसिद्धिदायै नमः ।
ॐ त्रिवर्णाढ्यायै नमः ।
ॐ त्रिवर्णेश्यै नमः ।
ॐ त्रिवर्णोपासिरूपिण्यै नमः ।
ॐ त्रिवर्णस्थायै नमः ।
ॐ त्रिवर्णाढ्यायै नमः ।
ॐ त्रिवर्णवरदायिन्यै नमः ।
ॐ त्रिवर्णाद्यायै नमः । ७८० ।

ॐ त्रिवर्णार्च्यायै नमः ।
ॐ त्रिवर्गफलदायिन्यै नमः ।
ॐ त्रिवर्गाढ्यायै नमः ।
ॐ त्रिवर्गेश्यै नमः ।
ॐ त्रिवर्गाद्यफलप्रदायै नमः ।
ॐ त्रिसन्ध्यार्च्यायै नमः ।
ॐ त्रिसन्ध्येश्यै नमः ।
ॐ त्रिसन्ध्याराधनेष्टदायै नमः ।
ॐ त्रिसन्ध्यार्चनसन्तुष्टायै नमः ।
ॐ त्रिसन्ध्याजपमोक्षदायै नमः । ७९० ।

ॐ त्रिपदाराधितपदायै नमः ।
ॐ त्रिपदायै नमः ।
ॐ त्रिपदेश्वर्यै नमः ।
ॐ त्रिपदाप्रतिपाद्येश्यै नमः ।
ॐ त्रिपदाप्रतिपादिकायै नमः ।
ॐ त्रिशक्त्यै नमः ।
ॐ त्रिशक्तीश्यै नमः ।
ॐ त्रिशक्तेष्टफलप्रदायै नमः ।
ॐ त्रिशक्तेष्टायै नमः ।
ॐ त्रिशक्तीष्टायै नमः । ८०० ।

ॐ त्रिशक्तिपरिवेष्टितायै नमः ।
ॐ त्रिवेण्यै नमः ।
ॐ त्रिवेणीस्त्रियै नमः ।
ॐ त्रिवेणीमाधवार्चितायै नमः ।
ॐ त्रिवेणीजलसन्तुष्टायै नमः ।
ॐ त्रिवेणीस्नानपुण्यदायै नमः ।
ॐ त्रिवेणीजलसंस्नातायै नमः ।
ॐ त्रिवेणीजलरूपिण्यै नमः ।
ॐ त्रिवेणीजलपूताङ्ग्यै नमः ।
ॐ त्रिवेणीजलपूजितायै नमः । ८१० ।

ॐ त्रिनाडीस्थायै नमः ।
ॐ त्रिनाडीश्यै नमः ।
ॐ त्रिनाडीमध्यगामिन्यै नमः ।
ॐ त्रिनाडीसन्ध्यसञ्छ्रेयायै नमः ।
ॐ त्रिनाड्यै नमः ।
ॐ त्रिकोटिन्यै नमः ।
ॐ त्रिपञ्चाशते नमः ।
ॐ त्रिरेखायै नमः ।
ॐ त्रिशक्तिपथगामिन्यै नमः ।
ॐ त्रिपथस्थायै नमः । ८२० ।

ॐ त्रिलोकेश्यै नमः ।
ॐ त्रिकोटिकुलमोक्षदायै नमः ।
ॐ त्रिरामेश्यै नमः ।
ॐ त्रिरामार्च्यायै नमः ।
ॐ त्रिरामवरदायिन्यै नमः ।
ॐ त्रिदशाश्रितपादाब्जायै नमः ।
ॐ त्रिदशालयचञ्चलायै नमः ।
ॐ त्रिदशायै नमः ।
ॐ त्रिदशप्रार्थ्यायै नमः ।
ॐ त्रिदशाशुवरप्रदायै नमः । ८३० ।

ॐ त्रिदशैश्वर्यसम्पन्नायै नमः ।
ॐ त्रिदशेश्वरसेवितायै नमः ।
ॐ त्रियामार्च्यायै नमः ।
ॐ त्रियामेश्यै नमः ।
ॐ त्रियामानन्तसिद्धिदायै नमः ।
ॐ त्रियामेशाधिकज्योत्स्नायै नमः ।
ॐ त्रियामेशाधिकाननायै नमः ।
ॐ त्रियामानाथवत्सौम्यायै नमः ।
ॐ त्रियामानाथभूषणायै नमः ।
ॐ त्रियामानाथलावण्यरत्नटियुताननायै नमः । ८४० ।

ॐ त्रिकालस्थायै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिकालज्ञत्वकारिण्यै नमः ।
ॐ त्रिकालेश्यै नमः ।
ॐ त्रिकालार्च्यायै नमः ।
ॐ त्रिकालज्ञत्वदायिन्यै नमः ।
ॐ तीरभुजे नमः ।
ॐ तीरगायै नमः ।
ॐ तीरसरितायै नमः ।
ॐ तीरवासिन्यै नमः । ८५० ।

ॐ तीरभुग्देशसञ्जातायै नमः ।
ॐ तीरभुग्देशसंस्थितायै नमः ।
ॐ तिग्मायै नमः ।
ॐ तिग्मांशुसङ्काशायै नमः ।
ॐ तिग्मांशुक्रोडसंस्थितायै नमः ।
ॐ तिग्मांशुकोटिदीप्ताङ्ग्यै नमः ।
ॐ तिग्मांशुकोटिविग्रहायै नमः ।
ॐ तीक्ष्णायै नमः ।
ॐ तीक्ष्णतरायै नमः ।
ॐ तीक्ष्णमहिषासुरसंस्थितायै नमः । ८६० ।

तीक्ष्णकर्त्रीलसत्पाणये
ॐ तीक्ष्णासिवरधारिण्यै नमः ।
ॐ तीव्रायै नमः ।
ॐ तीव्रगतये नमः ।
ॐ तीव्रासुरसङ्घविनाशिन्यै नमः ।
ॐ तीव्राष्टनागाभरणायै नमः ।
ॐ तीव्रमुण्डविभूषणायै नमः ।
ॐ तीर्थात्मिकायै नमः ।
ॐ तीर्थमय्यै नमः ।
ॐ तीर्थेश्यै नमः । ८७० ।

ॐ तीर्थपूजितायै नमः ।
ॐ तीर्थराजेश्वर्यै नमः ।
ॐ तीर्थफलदायै नमः ।
ॐ तीर्थदानदायै नमः ।
ॐ तुमुल्यै नमः ।
ॐ तुमुलप्राज्ञ्यै नमः ।
ॐ तुमुलासुरघातिन्यै नमः ।
ॐ तुमुलक्षतजप्रीतायै नमः ।
ॐ तुमुलाङ्गणनर्तक्यै नमः ।
ॐ तुरग्यै नमः । ८८० ।

ॐ तुरगारूढायै नमः ।
ॐ तुरङ्गपृष्ठगामिन्यै नमः ।
ॐ तुरङ्गगमनाह्लादायै नमः ।
ॐ तुरङ्गवेगगामिन्यै नमः ।
ॐ तुरीयायै नमः ।
ॐ तुलनायै नमः ।
ॐ तुल्यायै नमः ।
ॐ तुल्यवृत्तये नमः ।
ॐ तुल्यकृते नमः ।
ॐ तुलनेश्यै नमः । ८९० ।

ॐ तुलाराज्ञ्यै नमः ।
ॐ तुलाराज्ञीत्वसूक्ष्मविदे नमः ।
ॐ तुम्बिकायै नमः ।
ॐ तुम्बिकापात्रभोजनायै नमः ।
ॐ तुम्बिकार्थिन्यै नमः ।
ॐ तुलस्यै नमः ।
ॐ तुलसीवर्यायै नमः ।
ॐ तुलजायै नमः ।
ॐ तुलजेश्वर्यै नमः ।
ॐ तुषाग्निव्रतसन्तुष्टायै नमः । ९०० ।

ॐ तुषाग्नये नमः ।
ॐ तुषराशिकृते नमः ।
ॐ तुषारकरशीताङ्ग्यै नमः ।
तुषारकरपूर्तिकृते
ॐ तुषाराद्रये नमः ।
ॐ तुषाराद्रिसुतायै नमः ।
ॐ तुहिनदीधितये नमः ।
ॐ तुहिनाचलकन्यायै नमः ।
ॐ तुहिनाचलवासिन्यै नमः ।
ॐ तुर्यवर्गेश्वर्यै नमः । ९१० ।

ॐ तुर्यवर्गदायै नमः ।
ॐ तुर्यवेददायै नमः ।
ॐ तुर्यवर्यात्मिकायै नमः ।
ॐ तुर्यायै नमः ।
ॐ तुर्येश्वरस्वरूपिण्यै नमः ।
ॐ तुष्टिदायै नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तुष्ट्यै नमः ।
ॐ तूणीरद्वयपृष्ठधृषे नमः ।
ॐ तुम्बुराज्ञानसन्तुष्टायै नमः । ९२० ।

ॐ तुष्टसंसिद्धिदायिन्यै नमः ।
ॐ तूर्णराज्यप्रदायै नमः ।
ॐ तूर्णगद्गदायै नमः ।
ॐ तूर्णपद्यदायै नमः ।
ॐ तूर्णपाण्डित्यसन्दात्र्यै नमः ।
ॐ तूर्णायै नमः ।
ॐ तूर्णबलप्रदायै नमः ।
ॐ तृतीयायै नमः ।
ॐ तृतीयेश्यै नमः ।
ॐ तृतीयातिथिपूजितायै नमः । ९३० ।

ॐ तृतीयाचन्द्रचूडेश्यै नमः ।
ॐ तृतीयाचन्द्रभूषणायै नमः ।
ॐ तृप्त्यै नमः ।
ॐ तृप्तिकर्यै नमः ।
ॐ तृप्तायै नमः ।
ॐ तृष्णायै नमः ।
ॐ तृष्णाविवर्धिन्यै नमः ।
ॐ तृष्णापूर्णकर्यै नमः ।
ॐ तृष्णानाशिन्यै नमः ।
ॐ तृषितायै नमः । ९४० ।

ॐ तृषायै नमः ।
ॐ त्रेतासंसाधितायै नमः ।
ॐ त्रेतायै नमः ।
ॐ त्रेतायुगफलप्रदायै नमः ।
ॐ त्रैलोक्यपूज्यायै नमः ।
ॐ त्रैलोक्यदात्र्यै नमः ।
ॐ त्रैलोक्यसिद्धिदायै नमः ।
ॐ त्रैलोक्येश्वरतादात्र्यै नमः ।
ॐ त्रैलोक्यपरमेश्वर्यै नमः ।
ॐ त्रैलोक्यमोहनेशान्यै नमः । ९५० ।

ॐ त्रैलोक्यराज्यदायिन्यै नमः ।
ॐ तैत्रिशाखेश्वर्यै नमः ।
ॐ तैत्रिशाखायै नमः ।
ॐ तैत्रविवेकविदे नमः ।
ॐ तोरणान्वितगेहस्थायै नमः ।
ॐ तोरणासक्तमानसायै नमः ।
ॐ तोलकास्वर्णसन्दात्र्यै नमः ।
ॐ तोलकास्वर्णकङ्कणायै नमः ।
ॐ तोमरायुधरूपायै नमः ।
ॐ तोमरायुधधारिण्यै नमः । ९६० ।

ॐ तौर्यत्रिकेश्वर्यै नमः ।
ॐ तौर्यत्रिक्यै नमः ।
ॐ तौर्यत्रिकोत्सुक्यै नमः ।
ॐ तन्त्रकृते नमः ।
ॐ तन्त्रवत्सूक्ष्मायै नमः ।
ॐ तन्त्रमन्त्रस्वरूपिण्यै नमः ।
ॐ तन्त्रकृते नमः ।
ॐ तन्त्रसम्पूज्यायै नमः ।
ॐ तन्त्रेश्यै नमः ।
ॐ तन्त्रसम्मतायै नमः । ९७० ।

ॐ तन्त्रज्ञायै नमः ।
ॐ तन्त्रविदे नमः ।
ॐ तन्त्रसाध्यायै नमः ।
ॐ तन्त्रस्वरूपिण्यै नमः ।
ॐ तन्त्रस्थायै नमः ।
ॐ तन्त्रजायै नमः ।
ॐ तन्त्र्यै नमः ।
ॐ तन्त्रभृते नमः ।
ॐ तन्त्रमन्त्रदायै नमः ।
ॐ तन्त्राद्यायै नमः । ९८० ।

ॐ तन्त्रगायै नमः ।
ॐ तन्त्रायै नमः ।
ॐ तन्त्रार्च्यायै नमः ।
ॐ तन्त्रसिद्धिदायै नमः ।
ॐ तन्त्रविज्ञायै नमः ।
ॐ तन्त्ररतायै नमः ।
ॐ तन्त्रगोप्यायै नमः ।
ॐ तान्त्रिक्यै नमः ।
ॐ तारस्वरेण महितायै नमः ।
ॐ तन्त्राचारफलप्रदायै नमः । ९९० ।

अपूर्णा तकारादि श्रीतारासहस्रनामावली नामावलिः ।
मार्गविद्भिः उपासकैः पूरणीया ।
Namavai is incomplete to be filled in by those worshippers who are capable of doing so.

Also Read 1000 Names of Sri Tara:

1000 Names of Sri Tara | Sahasranamavali 1 Takaradi Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Tara | Sahasranamavali 1 Takaradi Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top