Templesinindiainfo

Best Spiritual Website

114 Names of Sri Sundaramurtya | Ashtottara Shatanamavali Lyrics in Hindi

Sundaramoorthy Nayanar is a devotee of Lord Tyagaraja Swamy Tiruvarur.

Shri Sundaramurthy Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः ॥

ॐ श्रीगणेशाय नमः ॥

ॐ सुन्दरमूर्तये नमः ।
ॐ सुन्दरेश्वरप्रियाय नमः ।
ॐ सुषुम्नानाडीशोधकाय नमः ।
ॐ सुवर्णकल्पकलेबराय नमः ।
ॐ सुवर्णाभरणभूषिताय नमः ।
ॐ सुवर्णमाल्याम्बरधारिणे नमः ।
ॐ शिवभक्ताग्रगण्याय नमः ।
ॐ शिवार्चनधुरन्धराय नमः ।
ॐ शिवनामपरायणाय नमः ।
ॐ शिवध्यानप्रियमानसाय नमः । १० ।

ॐ शिवानन्दपरिपूर्णाय नमः ।
ॐ शिवनामाङ्गितरसनाय नमः ।
ॐ शिवराजयोगधारिणे नमः ।
ॐ शिवमन्त्रजपप्रियाय नमः ।
ॐ शिवाप्रियाय नमः ।
ॐ शिवभक्तपरिपालकाय नमः ।
ॐ शिवभक्तसमावृताय नमः ।
ॐ शिवभक्तप्रियमानसाय नमः ।
ॐ शिवभक्तपरिपोषकाय नमः ।
ॐ शिवसायुज्यसम्पन्नाय नमः । २० ।

ॐ शिवदत्तनामाङ्किताय नमः ।
ॐ शिवागमप्रवीणाय नमः ।
ॐ शिवानन्दपरितृप्तमानसाय नमः ।
ॐ पञ्चक्लेशनिवर्तकाय नमः ।
ॐ परवागीतसन्तुष्टाय नमः ।
ॐ परवानाट्यकौतुकाय नमः ।
ॐ परवाश‍ृङ्गारदर्शकाय नमः ।
ॐ परवाभोगनिरताय नमः ।
ॐ परवाऽऽलिङ्गनतत्पराय नमः ।
ॐ परवालोकनसुन्दराय नमः । ३० ।

ॐ परब्रह्मस्वरूपध्यात्रे नमः ।
ॐ परोपकारकलेबराय नमः ।
ॐ परमशिवभक्तिप्रियाय नमः ।
ॐ परमशिवालोकनपात्रगात्राय नमः ।
ॐ परमशिवलोचनगोचराय नमः ।
ॐ परिशुद्धमानसाय नमः ।
ॐ पादव्यत्यासताण्डवप्रियाय नमः ।
ॐ पार्वतीप्रियनन्दनाय नमः ।
ॐ पार्वतीपादसेवकाय नमः ।
ॐ पार्वतीदत्तविद्याविशेषज्ञाय नमः । ४० ।

ॐ पार्वतीभक्तिपरिपूर्णाय नमः ।
ॐ आदिशैवकुलोद्भवाय नमः ।
ॐ आदर्शसम्भूताय नमः ।
ॐ आश्रितवत्सलाय नमः ।
ॐ आनन्दपरिपूर्णाय नमः ।
ॐ आहिताग्निप्रियमानसाय नमः ।
ॐ आदिशैवोत्तमाय नमः ।
ॐ आश्रितरक्षकाय नमः ।
ॐ महाकैलासनिलयाय नमः ।
ॐ महाभोगसमन्विताय नमः । ५० ।

ॐ महामायानिवर्तकाय नमः ।
ॐ महातेजस्विने नमः ।
ॐ महायशस्विने नमः ।
ॐ महाबुद्धिमते नमः ।
ॐ महामन्त्रजपपराय नमः ।
ॐ महायोगनिलयाय नमः ।
ॐ महागुणसम्पन्नाय नमः ।
ॐ महापण्डितपराय नमः ।
ॐ महादेवपूजासमुत्सुकाय नमः ।
ॐ महाशास्त्रपण्डिताय नमः । ६० ।

ॐ द्राविडविद्याविनयसम्पन्नाय नमः ।
ॐ द्राविडव्याकरणगुरवे नमः ।
ॐ द्राविडसम्प्रदायकरणाय नमः ।
ॐ द्राविडलोकवन्दिताय नमः ।
ॐ द्राविडविद्यापालकाय नमः ।
ॐ द्राविडस्तोत्रपरायणाय नमः ।
ॐ चन्द्रचूडदत्तैरावणाय नमः ।
ॐ सत्त्वगुणाकराय नमः ।
ॐ सत्सेविताय नमः ।
ॐ समयाचारदेशिकाय नमः । ७० ।

ॐ सम्प्राप्तदिव्यदेहाय नमः ।
ॐ विशेषक्षेत्रदर्शकाय नमः ।
ॐ विश्ववन्द्याय नमः ।
ॐ विदेहकैवल्यकलनाय नमः ।
ॐ विद्याविद्यास्वरूपदर्शकाय नमः ।
ॐ विनायकप्रियाय नमः ।
ॐ विमलाङ्गविराजिताय नमः ।
ॐ विद्वज्जनसमन्विताय नमः ।
ॐ सर्वविद्यापारङ्गताय नमः ।
ॐ तपोनिष्ठाय नमः । ८० ।

ॐ तपोनिष्ठाग्रगण्याय नमः ।
ॐ तपस्विने नमः ।
ॐ तडित्प्रभाय नमः ।
ॐ तापत्रयोल्लङ्घिने नमः ।
ॐ देवदेवसेवकाय नमः ।
ॐ देवादिलोकसञ्चारिणे नमः ।
ॐ नित्यकर्मनिरताय नमः ।
ॐ नित्यकर्मसमाश्रिताय नमः ।
ॐ शैवशास्त्रविशारदाय नमः ।
ॐ शैवाचारसम्पन्नाय नमः । ९० ।

ॐ वीतशोकाय नमः ।
ॐ वीतरागाय नमः ।
ॐ कलुषारण्यदहनाय नमः ।
ॐ कल्याणगुणसम्पन्नाय नमः ।
ॐ हेयोपादेयविग्रहदर्शकाय नमः ।
ॐ श्रीमत्त्यागराजप्रियभक्ताय नमः ।
ॐ श्रीमत्त्यागराजनर्तनसेविताय नमः ।
ॐ नर्तनादिविशेषज्ञाय नमः ।
ॐ लीलाताण्डवदर्शकाय नमः ।
ॐ अजपाताण्डवसंसेविताय नमः । १०० ।

ॐ नटनविद्याविदुषे नमः ।
ॐ नटनादिविद्यापारङ्गताय नमः ।
ॐ श‍ृङ्गारनटननायकाय नमः ।
ॐ वेदशास्त्रविशारदाय नमः ।
ॐ वैदिकाचारसम्पन्नाय नमः ।
ॐ ब्राह्मणकर्मपरिपालकाय नमः ।
ॐ दुरूहशिवभक्तिपरवशाय नमः ।
ॐ दूरीकृतदुर्जनाय नमः ।
ॐ सदाचारसम्पन्नाय नमः ।
ॐ मूलाधारक्षेत्रवासिने नमः । ११० ।

ॐ ग्राहग्रस्तबालजीवितप्रदाय नमः ।
ॐ सोमयाजिवरप्रदाय नमः ।
ॐ ऐरावणारूढकैलासगमनाय नमः ।
ॐ परवासहितसुन्दरमूर्तये नमः ।

इति श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Sri Sundaramurthy:

114 Names of Sri Sundaramurtya | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

114 Names of Sri Sundaramurtya | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top