Templesinindiainfo

Best Spiritual Website

Hanumath Mangalashtakam Lyrics in Hindi

Click here to Read Hanuman Mangalashtakam Meaning in English:

Sri Hanuman Mangala Ashtakam in Hindi:

॥ श्री हनुमान् मङ्गलाष्टकम् ॥
वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय मङ्गलं श्रीहनूमते ॥ १ ॥

करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय मङ्गलं श्रीहनूमते ॥ २ ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३ ॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४ ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
ज्वलत्पावकनेत्राय मङ्गलं श्रीहनूमते ॥ ५ ॥

पम्पातीरविहाराय सौमित्रिप्राणदायिने ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ६ ॥

रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ७ ॥

पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ८ ॥

केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते ॥ ९ ॥

इति श्री हनुमान् मङ्गलाष्टकम् ॥

Also Read:

Sri Anjaneya Mangalashtakam Lyrics in English | Hindi | Kannada | Telugu | Tamil

Hanumath Mangalashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top