Templesinindiainfo

Best Spiritual Website

Bhagavati Ashtakam Lyrics in Hindi | भगवत्यष्टकम्

भगवत्यष्टकम् Lyrics in Hindi:

नमोऽस्तु ते सरस्वति त्रिशूलचक्रधारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि ॥ १॥

पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि ।
तमालहस्तमण्डिते तमालभालशोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि ॥ २॥

स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्रदुखहारिणि त्रिलोकशङ्करीश्वरि ।
भवानि भीम अम्बिके प्रचण्डतेज उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि ॥ ३॥

प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके ।
सुरार्चिताऽङ्घ्रिपङ्कजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि ॥ ४॥

हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः ।
निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकरस्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि ॥ ५॥

ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया ।
सकोपकम्पदच्छदे सचण्डमुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि ॥ ६॥

कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भशुम्भमर्दिके ।
प्रसीद चण्डिके अजे समस्तदोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि ॥ ७॥

त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः ।
दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि ॥ ८॥

पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम् ।
भवन्ति ते तु पण्डिताः सुपुत्रधान्यसंयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम् ॥ ९॥

॥ इति श्रीमदमरदासविरचितं भगवत्यष्टकं समाप्तम् ॥

Bhagavati Ashtakam Lyrics in Hindi | भगवत्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top