Templesinindiainfo

Best Spiritual Website

Bhavana Ashtakam Lyrics in Hindi | भावनाष्टकम्

भावनाष्टकम् Lyrics in Hindi:

अंगनामंगनामन्तरे विग्रहं
कुण्डलोद्भासितं दिव्यकर्णद्वयम् ।
बिभृतं सुस्थितं योगपीठोत्तमे
सन्ततं भावये श्रीपतीशात्मजम् ॥ १ ॥

मोहनीयाननं शृङ्गपर्वस्थितं
काननेषु प्रियावासमत्यद्भुतम् ।
दीनसंरक्षणकं वासवेनार्चितं
सन्ततं भावये श्रीपतीशात्मजम् ॥ २ ॥

कोमळम् कुन्तळं स्निग्धमत्यद्भुतं
बिभृतं मोहनं नीलवर्णाञ्चितम् ।
कामदं निर्मलं भूतवृन्दावृतं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ३ ॥

अंबरं दिव्यनीलद्युतिं शोभनं
अंबुवर्णोपमं गात्रशोभाकरम् ।
बिम्बमत्यद्भुताकारजं बिभृतं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ४ ॥

वाहनं तुङ्गमश्वोत्तमं सुन्दरं
सैन्धवं संश्रितं विश्ववश्याकृतिम् ।
बान्धवं बन्धुहीनाश्रितं मोहनं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ५ ॥

भासितं वक्षसा हारमुक्ताञ्चितं
देवदेवार्चितं केरळेसुस्थितम् ।
भूसुरैर्वन्दितं दिव्यपीठस्थितं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ६ ॥

पावनं पङ्कजं दिव्यपादद्वयं
बिभृतं भक्तसंघ प्रशोभ्यंघ्रिकम् ।
कामदं मोक्षदं तारकं सादरं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ७ ॥

विग्रहं मङ्गळं सर्वकामार्थदं
अग्रिमैर्वन्दितं दीनरक्षात्मकम् ।
भूषणैर्मण्डितं मालयाराजितं
सन्ततं भावये श्रीपतीशात्मजम् ॥ ८ ॥

इति भावनाष्टकं सम्पूर्णम् ॥

Bhavana Ashtakam Lyrics in Hindi | भावनाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top