Sri Dakshinamurthy Stotram Lyrics in Sanskrit
Sri Dakshinamurti Stotram 2 in Sanskrit: ॥ श्री दक्षिणामूर्ति स्तोत्रम् ॥ उपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥ अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥ अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं […]