Templesinindiainfo

Best Spiritual Website

Chaitanyashtakam 1 Lyrics in Hindi | चैतन्याष्टकम् १

चैतन्याष्टकम् १ Lyrics in Hindi:

अथ श्रीचैतन्यदेवस्य प्रथमाष्टकं
सदोपास्यः श्रीमान् धृतमनुजकायैः प्रणयितां
वहद्भिर्गीर्वाणैर्गिरिशपरमेष्ठिप्रभृतिभिः ।
स्वभक्तेभ्यः शुद्धां निजभजनमुद्रामुपदिशन्
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ १॥

सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां
मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा ।
विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ २॥

स्वरूपं बिभ्राणो जगदतुलमद्वैतदयितः
प्रपन्नश्रीवासो जनितपरमानन्दगरिमा ।
हरिर्दीनोद्धारी गजपतिकृपोत्सेकतरलः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ३॥

रसोद्दामा कामार्बुदमधुरधामोज्ज्वलतनु-
र्यतीनामुत्तंसस्तरणिकरविद्योतिवसनः
हिरण्यानां लक्ष्मीभरमभिभवन्न् आङ्गिकरुचा
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ४॥

हरे कृष्णेत्युच्चैः स्फुरितरसनो नामगणना
कृतग्रन्थिश्रेणीसुभगकटिसूत्रोज्ज्वलकरः ।
विशालाक्षो दीर्घार्गलयुगलखेलाञ्चितभुजः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ५॥

पयोराशेस्तीरे स्फुरदुपवनालीकलनया
मुहुर्वृन्दारण्यस्मरणजनितप्रेमविवशः ।
क्वचित् कृष्णावृत्तिप्रचलरसनोभक्तिरसिकः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ६॥

रथारूढस्यारादधिपदवि नीलाचलपते-
रदभ्रप्रेमोर्मिस्फुरितनटनोल्लासविवशः ।
सहर्षं गायद्भिः परिवृततनुर्वैष्णवजनैः
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ७॥

भुवं सिञ्चन्नश्रुश्रुतिभिरभितः सान्द्रपुलकैः
परीताङ्गो नीपस्तबकनवकिञ्जल्कजयिभिः ।
घनस्वेदस्तोमस्तिमिततनुरुत्कीर्तनसुखी
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥ ८॥

अधीते गौराङ्गस्मरणपदवीमङ्गलतरं
कृती यो विश्रम्भस्फुरदमलधीरष्टकमिदं ।
परानन्दे सद्यस्तदमलपदाम्भोजयुगले
परिस्फारा तस्य स्फुरतु नितरां प्रेमलहरी ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं प्रथमं सम्पूर्णम् ।

Chaitanyashtakam 1 Lyrics in Hindi | चैतन्याष्टकम् १

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top