Templesinindiainfo

Best Spiritual Website

Chintamani Parshvanatha Stavanam Lyrics in Hindi | चिन्तामणिपार्श्वनाथस्तवनम्

चिन्तामणिपार्श्वनाथस्तवनम् Lyrics in Hindi:

श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ १॥

निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ २॥

शशिप्रभारीतियशोनिवासं समाधिसाम्राज्यसुखावभासम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ३॥

अनल्पकल्याणसुधाब्धिचन्द्रं सभावलीसूनसुभावकेन्द्रम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ४॥

कराकल्पान्तनिवारकारं कारुण्यपुण्याकरशान्तिसारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ५॥

वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलङ्कृतमुक्तिकान्तम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ६॥

क्रूरोपसर्गं परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ७॥

निरामयं निर्जितवीरमारं जगद्धितं कृष्णापुरावतारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ८॥

अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-
विभरणगुणपूतं सोमसेनेन गीतम् ।
पठति विगतकामः पार्श्वनाथस्तवं यः
सुकृतपदनिधानं स प्रयाति प्रधानम् ॥ ९॥

इति सोमसेनविरचितं चिन्तामणिपार्श्वनाथस्तवनं अष्टकं च सम्पूर्णम् ।

Chintamani Parshvanatha Stavanam Lyrics in Hindi | चिन्तामणिपार्श्वनाथस्तवनम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top