Templesinindiainfo

Best Spiritual Website

Devidhamashtakam Lyrics in Hindi | देवीधामाष्टकम्

देवीधामाष्टकम् Lyrics in Hindi:

कस्मैचिदङ्घ्रिप्रणताखिलेष्टविश्राणनव्रीडितकौस्तुभाय ।
कामारिवामाङ्कजुषे किरीटकनच्छशाङ्काय नमोऽस्तु धाम्ने ॥ १॥

कस्मैचिदुद्यद्रविकोटिभासे कल्पद्रुमाणामपि गर्वहर्त्रे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ताय शस्ताय नमोऽस्तु धाम्ने ॥ २॥

कस्मैचिदाद्याय नमोऽस्तु धाम्ने बन्धूकपुष्पाभकलेबराय ।
कुलाद्रिवंशाम्बुधिकौस्तुभाय मत्तेभकुम्भस्तनबन्धुराय ॥

कस्मैचिदाद्याय नमोऽस्तु धाम्ने भण्डासुराम्भोनिधिबाडवाय ।
भक्तौघसंरक्षणदक्षिणाय भाधीशनीकाशमुखाम्बुजाय ॥ ४॥

कस्मैचिदस्तु प्रणतिः कराम्बुजातम्रदिम्ना हसते प्रवालम् ।
कारुण्यजन्मावनये कापर्दिमोदाब्धिराकारजनीकराय ॥ ५॥

कल्याणशैलाधिपमध्यशृङ्गनिकेतनाय प्रणतार्तिहन्त्रे ।
क्रव्यादवैरिप्रमुखेडिताय कुर्मः प्रणामं कुतुकाय शम्भौ ॥ ६॥

कचप्रभानिर्जितनीरदाय कस्तुरिकाकुङ्कुमलेपनाय ।
बिम्बाधराय श्रुतिबोधिताय बन्धापनोदाय नमोऽस्तु धाम्ने ॥ ७॥

कटाक्षकाङ्क्षिप्रवरामराय कालारिचित्ताम्बुजभास्कराय ।
पटीयसे पापसमूहभेदे नमोऽस्तु कस्मैचिदमोघधाम्ने ॥ ८॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीदेवीधामाष्टकं सम्पूर्णम् ।

Devidhamashtakam Lyrics in Hindi | देवीधामाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top