Templesinindiainfo

Best Spiritual Website

Himalaya Krutam Shiva Stotram Lyrics in Sanskrit

Himalaya Krutam Shiva Stotram in Sanskrit:

॥ श्रीशिवस्तोत्रं हिमालयकृत ब्रह्मवैवर्ते ॥
श्रीगणेशाय नमः ।
हिमालय उवाच ।
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः ।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥ १ ॥

त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः ।
प्रकृतिः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ २ ॥

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥

सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् ।
सोमस्त्वं शस्यपाता च सततं शीतरश्मिना ॥ ४ ॥

वायुस्त्वं वरुणस्त्वं च त्वमग्निः सर्वदाहकः ।
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा ॥ ५ ॥

मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ।
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ॥ ६ ॥

विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ।
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ॥ ७ ॥

वाक् त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् ।
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः ॥ ८ ॥

इत्येवमुक्त्वाशैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् ।
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ॥ ९ ॥

स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ॥ १० ॥

अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ।
भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम् ॥ ११ ॥

चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ १२ ॥

राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ।
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ।
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ॥ १३ ॥

रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ।
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ १४ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे
हिमालयकृतं शिवस्तोत्रम् सम्पूर्णम् ॥

श्रीकृष्णजन्मखण्ड अध्याय ३८ श्लोकानि ६५-७८

Also Read:

Himalaya Krutam Shiva Stotram Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Himalaya Krutam Shiva Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top