Templesinindiainfo

Best Spiritual Website

Himalaya Krutam Shiva Stotram Lyrics in Marathi

Himalaya Krutam Shiva Stotram in Marathi:

॥ हिमालय कृतं शिव स्तोत्रम ॥
हिमालय उवाच ॥

त्वं ब्रह्मा सऋष्टिकर्ता च त्वं विष्णुः परिपालकः ।
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः ॥ 1 ॥

त्वमीश्वरो गुणातीतो ज्योतीरूपः सनातनः
प्रकृतः प्रकृतीशश्च प्राकृतः प्रकृतेः परः ॥ 2 ॥

नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेपु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ 3 ॥

सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम ।
सोमस्त्वं सस्यपाता च सततं शीतरश्मिना ॥ 4 ॥

वायुस्त्वं वरुणस्त्वं च विद्वांश्च विदुषां गुरुः ।
मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः ॥ 5 ॥

वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः ।
विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः ॥ 6 ॥

मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः ।
वाक त्वं रागाधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम ॥ 7 ॥

अहो सरस्वतीबीज कस्त्वां स्तोतुमिहेश्वरः ।
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदांबुजम ॥ 8 ॥

तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः ।
स्तोत्रमेतन्महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ 9 ॥

मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ।
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि ॥ 10 ॥

भार्याहीनो लभेद्भार्यां सुशीलां सुमनोहराम ।
चिरकालगतं वस्तु लभते सहसा ध्रुवम ॥ 11 ॥

राज्यभ्रष्टो लभेद्राज्यं शङ्करस्य प्रसादतः ।
कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे ॥ 12 ॥

गभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।
रणमध्ये महाभीते हिंस्रजन्तुसमन्विते ॥ 13 ॥

यः पठेच्छ्रद्धया सम्यक स्तोत्रमेतज्जगद्गुरोः ।
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः ॥ 14 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे
हिमालयकृतं शिवस्तोत्रं संपूर्णम ॥

Also Read:

Himalaya Krutam Shiva Stotram Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Himalaya Krutam Shiva Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top