Templesinindiainfo

Best Spiritual Website

Jwara Hara Stotram Lyrics in Hindi

Jwarahara Stotram in Hindi:

॥ ज्वरहर स्तोत्रम् ॥

ध्यानम् ।
त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः ।
स मे प्रीतस्सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥

स्तोत्रम् ।
विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् ।

[* पाठभेदः –
महादेवप्रयुक्तोऽसौ घोररूपो भयावहः ।
आविर्बभूव पुरतः समरे शार्ङ्गधन्वनः ॥

*]

अभ्यधावत दाशार्हं दहन्निव दिशो दश ॥

अथ नारायणो देवस्तं दृष्ट्वा व्यसृजज्ज्वरम् ॥ १ ॥

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ।
माहेश्वरः समाक्रन्दन्वैष्णवेन बलार्दितः ॥ २ ॥

अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ ३ ॥

ज्वर उवाच ॥

नमामि त्वाऽनन्तशक्तिं परेशं
सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।
विश्वोत्पत्तिस्थानसंरोधहेतुं
यत्तद्ब्रह्म ब्रह्मलिङ्गं प्रशान्तम् ॥ ४ ॥

कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्सङ्घातो बीजरोहप्रवाह-
-स्त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ ५ ॥

नानाभावैर्लीलयैवोपपन्नै-
-र्देवान्साधून्लोकसेतून्बिभर्षि ।
हंस्युन्मार्गान्हिंसया वर्तमानान्
जन्मैतत्ते भारहाराय भूमेः ॥ ६ ॥

तप्तोऽहं ते तेजसा दुःसहेन
शान्तोग्रेणात्युल्बणेन ज्वरेण ।
तावत्तापो देहिनां तेऽङ्घ्रिमूलं
नो सेवेरन्यावदाशानुबद्धाः ॥ ७ ॥

श्री भगवानुवाच ॥

त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।
यो नौ स्मरति संवादं तस्य त्वन्नभवेद्भयम् ॥ ८ ॥

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।
बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम् ॥ ९ ॥

इति श्रीमद्भागवते दशमस्कन्धे त्रिषष्टितमोऽध्याये ज्वरकृत कृष्णस्तोत्रम् ।

Also Read:

Jwara Hara Stotram Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Jwara Hara Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top