कुञ्जविहार्यष्टकम् १ Lyrics in Hindi:
प्रथमं श्रीकुञ्जविहार्यष्टकं
इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः ।
कृष्णलाभिरकृशोरसिहारी सुन्दरो जयति कुञ्जविहारी ॥ १॥
राधिकावदनचन्द्रचकोरः सर्ववल्लववधूधृतिचोरः ।
चर्चरीचतुरताञ्चितचारी चारुतो जयति कुञ्जविहारी ॥ २॥
सर्वताः प्रतिथकौलिकपर्वध्वंसनेन हृतवासवगर्वः ।
गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी ॥ ३॥
रागमण्डलविभूषितवंशी विभ्रमेणमदनोत्सवशंसी-
स्तूयमानचरितः शुकशारिश्रोणिभिर्जयति कुञ्जविहारी ॥ ४॥
शातकुम्भरुचिहारिदुकूलः केकिचन्द्रकविराजितचूडः ।
नव्ययौवनलसद्व्रजनारीरञ्जनो जयति कुञ्जविहारी ॥ ५॥
स्थासकीकृतसुगन्धिपटीरः स्वर्णकाञ्चिपरिशोभिकटीरः ।
राधिकोन्नतपयोधरवारीकुञ्जारो जयति कुञ्जविहारी ॥ ६॥
गौरधातुतिलकोज्ज्वलफालः केलिचञ्चलितचम्पकमालः ।
अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी ॥ ७॥
विभ्रमोच्चलदृगञ्चलनृत्यक्षिप्तगोपललनाखिलकृत्यः ।
प्रेममत्तवृषभानुकुमारीनागरो जयति कुञ्जविहारी ॥ ८॥
अष्टकं मधुरकुञ्जविहारी क्रीडया पठति यः किल हारी ।
स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम् ॥ ९॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहारिणः
प्रथमाष्टकं समाप्तम् ।