Templesinindiainfo

Best Spiritual Website

lalitApanchakam 5 Lyrics in Hindi ॥ ललितापञ्चकम् ॥

ललितापञ्चकम् Lyrics in Hindi:

प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ॥ १॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं रत्नाङ्गुळीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीःदधानाम् ॥ २॥

प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३॥

प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलयस्थितिहेतुभूतां विश्वेश्वरीं निगमवाङ्गमनसातिदूराम् ॥ ४॥

प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६॥

॥ इति श्रीमच्छङ्करभगवतः कृतौ ललिता पञ्चकम् सम्पूर्णम् ॥

lalitApanchakam 5 Lyrics in Hindi ॥ ललितापञ्चकम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top