Gayatri Atharvashirsha Lyrics in Hindi
Gayatri Atharvashirsha in Hindi: ॥ गायत्र्यथर्वशीर्षम् ॥ श्रीगणेशाय नमः ॥ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १ ॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २ ॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति […]