Templesinindiainfo

Best Spiritual Website

Parivrridha Ashtakam Lyrics in Hindi | परिवृढाष्टकम्

परिवृढाष्टकम् Lyrics in Hindi:

कलिन्दोद्भूतायास्तटमनुचरन्ती पशुपजां
रहस्येकां दृष्ट्वा नवसुभगवक्षोजयुगलाम् ।
दृढं नीवीग्रन्धि श्लथयति मृगाक्ष्या हटतरं
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ १॥

समायाते स्वस्मिन्सुरनिलयसाम्यं गतवति
व्रजे वैशिष्ट्यं यो निजपदगताब्जाङ्कुशयवैः ।
अकार्षीत्तस्मिन्मे यदुकुलसमुद्भासितमणौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवढे ॥ २॥

हिहीहीहीकारान् प्रतिपशु वने कुर्वति सदा
नमद्भह्मेशेन्द्रप्रभृतिषु च मौनं धृतवति ।
मृगाक्षीभिः स्वेक्षानवकुवलयैरर्चितपदे
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ३॥

सकृत्स्मृत्वा कुम्भी यमिह परमं लोकमगम-
च्चिरं ध्यात्वा धाता समाधिगतवान्यं न तपसा ।
विभौ तस्मिन्मह्यं सजलजलदालीनिभतनौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ४॥

परा काष्ठा प्रेम्णां पशुपतरुणीनां क्षितिभुजां
सुदृक्तानां त्रासास्पदमखिलभाग्यं यदुपतेः ।
विभुर्यस्तस्मिन्मे दरविकचजम्बालजमुखे
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ५॥

दरप्रादुर्भूतद्विजगणमहः पूरितवने
चरं कुह्वां राकारुचिरतरशोभाधिकरुचि ।
हरिर्यस्तस्मिंस्त्रीगणपरिवृतो नृत्यति सदा
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ६॥

स्फुरद्गुञ्जापुञ्जाकलितनिजपादाब्जविलुठत्-
स्रजि श्यामाकामास्पदपदयुगे मेचकरुचि ।
वराङ्गे शृङ्गारं दधति शिखिनां पिच्छपटलैः
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ७॥

दुरन्तं दुःखाब्धिं हसितसुधया शोषयति यो
यदास्येन्दुर्गोपीनयननलिनानन्दकरणम् ।
अनङ्गः साङ्गत्वं व्रजति मम तस्मिन् मुररिपौ
रतिप्रादुर्भावो भवतु सततं श्रीपरिवृढे ॥ ८॥

इदं यः स्तोत्रं श्रीपरिवृढसमीपे पठति वा
शृणोति श्रद्धावान् रतिपतिपितुः पादयुगले ।
रतिं प्रेप्सुः शश्वत्कुवलयदलश्यामलतनौ
रतिः प्रादुर्भूता भवति न चिरात्तस्य सुदृढा ॥ ९॥

इति श्रीवल्लभाचार्यकृतं श्रीपरिवृढाष्टकं समाप्तम् ।

Parivrridha Ashtakam Lyrics in Hindi | परिवृढाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top