Templesinindiainfo

Best Spiritual Website

Prapatti Ashtakam Eight Verses of Surrender Lyrics in Hindi | प्रपत्त्यष्टकम्

प्रपत्त्यष्टकम् Lyrics in Hindi:

आवर्तपुर्यां जनितं प्रपद्ये पाण्ड्येशदेशे विहृतं प्रपद्ये ।
शोणाचलप्रस्थचरं प्रपद्ये भिक्षुं तपःक्लेशसहं प्रपद्ये ॥ १॥

आब्रह्मकीटान्तसमं प्रपद्ये जितारिषड्वर्गमहं प्रपद्ये ।
सर्वज्ञतासारभृतं प्रपद्ये निस्सीमकारुण्यनिधिं प्रपद्ये ॥ २॥

अस्मात्प्रपञ्चादधिकं प्रपद्ये विश्वाधिकोक्तेर्विषयं प्रपद्ये ।
कालग्रहग्राहभयापनुत्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥ ३॥

विनेतुमार्तिं विषयाध्वजन्यां विज्ञानमूर्तिं दधतं प्रपद्ये ।
कन्दर्पदर्पज्वरवारणाय कामारिलीलावतारं प्रपद्ये ॥ ४॥

आजन्मवर्णिव्रतिनं प्रपद्ये कुण्डीभृतं दण्डधरं प्रपद्ये ।
ब्रह्मासनध्यानरतं प्रपद्ये ब्रह्मात्मभूयं यतिनं प्रपद्ये ॥ ५॥

हरं प्रपद्ये विजरं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये ।
अमेयसामर्थ्यवहं प्रपद्ये विशुद्धविज्ञानिवरं प्रपद्ये ॥ ६॥

दौर्भाग्य तापत्रय कर्म मोह सन्तापहन्तारमहं प्रपद्ये ।
यथार्थसङ्कल्पमपेतपापमवाप्त कामं विशुचं प्रपद्ये ॥ ७॥

मनः प्रसादं भजतां ददानं मुग्धस्मितोल्लासिमुखं प्रपद्ये ।
व्यथामशेषां व्यपनीय मोदप्रदेन नाम्ना रमणं प्रपद्ये ॥ ८॥

शिवं प्रपद्ये शिवदं प्रपद्ये गुरुं प्रपद्ये गुणिनं प्रपद्ये ।
मदीयहृत्पद्मजुषं प्रपद्ये शरण्यमीशं शरणं प्रपद्ये ॥ ९॥

प्रपत्तिं रमणस्यैतां तन्वतां तत्त्वदर्शिनः
तत्क्रतुन्यायरसिकाः तत्तादृशफलाप्तये ॥ १०॥

॥ इति श्रीजगदीश शास्त्री विरचितं प्रपत्त्यष्टकम् सम्पूर्णम् ॥

Prapatti Ashtakam Eight Verses of Surrender Lyrics in Hindi | प्रपत्त्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top