Templesinindiainfo

Best Spiritual Website

Punyodaya Prashasti Ashtakam Lyrics in Hindi | पुण्योदयप्रशस्त्यष्टकम्

पुण्योदयप्रशस्त्यष्टकम् Lyrics in Hindi:

पुण्यमूर्तिः पुण्यचेताः पुण्यधीः पुण्यवाङ्महाः ।
पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥ १॥

निसर्गवत्सलो धीरो विशालहृदयस्तथा ।
परोपकारप्रवणो नम्नसौम्यस्वभावभाक् ॥ २॥

उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा ।
निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ॥ ३॥

जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः ।
सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४॥

यदीयो व्यवसायश्च मुख्यरूपेण वर्तते ।
श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ॥ ५॥

बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् ।
कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥ ६॥

महामेधाविना येन प्राचीना बहुगौरवाः ।
ग्रन्थाः सम्पादिताः सन्ति विद्वदान्दकारिणः ॥ ७॥

विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः
श्रेष्ठाचारविचारपूतविकसद्वैदुष्यनिष्पादितम् ।
भव्यश्लोकमनल्पधाममहिमा विभ्रन्महासात्त्विको
जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ॥ ८॥

इति मुनि न्यायविजयविरचितं पुण्योदयप्रशस्त्यष्टकम् समाप्तम् ।

Punyodaya Prashasti Ashtakam Lyrics in Hindi | पुण्योदयप्रशस्त्यष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top