Templesinindiainfo

Best Spiritual Website

Putrapraptikaram Shri Mahalaxmi Stotram Lyrics in Hindi

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम् Lyrics in Hindi:

अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ १॥

नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ २॥

व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ३॥

भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४॥

अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५॥

सर्पदैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ६॥

भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ७॥

सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ८॥

॥ इति श्रीकरवीरमाहात्म्ये पराशरकृतं पुत्रप्राप्तिकरं
श्रीमहालक्ष्मीस्तोत्रं सम्पूर्णम् ॥

Putrapraptikaram Shri Mahalaxmi Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top