Templesinindiainfo

Best Spiritual Website

Rishabha Gita Lyrics in Hindi

Rishabha Geetaa in Hindi:

॥ ऋषभगीता ॥ (Mahabharata Shantiparva)
अध्यायः १२४
य्
इमे जना नरश्रेष्ठ प्रशंसन्ति सदा भुवि ।
धर्मस्य शीलमेवादौ ततो मे संशयो महान् ॥ १ ॥

यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर ।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २ ॥

कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत ।
किं लक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३ ॥

भ्
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४ ॥

इन्द्रप्रस्थे महाराज तव स भ्रातृकस्य ह ।
सभायां चावहसनं तत्सर्वं श‍ृणु भारत ॥ ५ ॥

भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम् ।
दुर्योधनस्तदासीनः सर्वं पित्रे न्यवेदयत् ॥ ६ ॥

श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधन वचस्तदा ।
अब्रवीत्कर्ण सहितं दुर्योधनमिदं वचः ॥ ७ ॥

किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८ ॥

यथा त्वं महदैश्वर्यं प्राप्तः परपुरञ्जय ।
किङ्करा भ्रातरः सर्वे मित्राः सम्बन्धिनस्तथा ॥ ९ ॥

आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १० ॥

द्
दश तानि सहस्राणि स्नातकानां महात्मनाम् ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने ॥ ११ ॥

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् ।
अश्वांस्तित्तिर कल्माषान्रत्नानि विविधानि च ॥ १२ ॥

दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।
अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३ ॥

ध्
यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे ।
विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४ ॥

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
न हि किं चिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५ ॥

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६ ॥

एते हि पार्थिवाः सर्वे शीलवन्तो दमान्विताः ।
अतस्तेषां गुणक्रीता वसुधा स्वयमागमत् ॥ १७ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८ ॥

प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः ।
शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९ ॥

ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।
उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २० ॥

ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् ।
कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१ ॥

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।
इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२ ॥

ब्
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।
तत्रागमय भद्रं ते भूय एव पुरन्दर ॥ २३ ॥

ध्
आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः ।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४ ॥

तेनापि समनुज्ञातो भागवेण महात्मना ।
श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५ ॥

भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः ।
ज्ञानमस्ति विशेषेण ततो हृष्टश् च सोऽभवत् ॥ २६ ॥

स ततो ब्राह्मणो भूत्वा प्रह्रादं पाकशासनः ।
सृत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम् ॥ २७ ॥

प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ ।
त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८ ॥

ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् ।
ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९ ॥

ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने ।
तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३० ॥

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।
चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१ ॥

पृष्ठश्च तेन बहुशः प्राप्तं कथमरिन्दम ।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे ॥ ३२ ॥

प्
नासूयामि द्विजश्रेष्ठ राजास्मीति कदा चन ।
कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३ ॥

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
ते मा कव्य पदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४ ॥

धर्मात्मानं जितक्रोधं संयतं संयतेन्द्रियम् ।
समाचिन्वन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ ३५ ॥

सोऽहं वागग्रपिष्टानां रसानामवलेहिता ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ ३६ ॥

एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मण मुखे कव्यमेतच्छ्रुत्वा प्रवर्तते ॥ ३७ ॥

ध्
एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् ।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८ ॥

यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।
वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९ ॥

कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः ।
प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४० ॥

ब्र्
यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् ।
भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१ ॥

ध्
ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् ।
वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२ ॥

एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा ।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३ ॥

दत्ते वरे गते विप्रे चिन्तासीन्महती ततः ।
प्रह्रादस्य महाराज निश्चयं न च जग्मिवान् ॥ ४४ ॥

तस्य चिन्तयतस्तात छाया भूतं महाद्युते ।
तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५ ॥

तमपृच्छन्महाकायं प्रह्रादः को भवानिति ।
प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६ ॥

तस्मिन्द्विज वरे राजन्वत्स्याम्यहमनिन्दितम् ।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ।
इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७ ॥

तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः ।
शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८ ॥

धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः ।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९ ॥

ततोऽपरो महाराज प्रज्वजन्निव तेजसा ।
शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५० ॥

को भवानिति पृष्टश्च तमाह स महाद्युतिः ।
सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१ ॥

तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।
निश्चक्राम ततस्तस्मात्पृष्ठश्चाह महात्मना ।
वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२ ॥

तस्मिन्गते महाश्वेतः शरीरात्तस्य निर्ययौ ।
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः ।
इत्युक्त्वा च ययौ तत्र यतो वृत्तं नराधिप ॥ ५३ ॥

ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४ ॥

उषितास्मि सुखं वीर त्वयि सत्यपराक्रमे ।
त्वया त्यक्ता गमिष्यामि बलं यत्र ततो ह्यहम् ॥ ५५ ॥

ततो भयं प्रादुरासीत्प्रह्रादस्य महात्मनः ।
अपृच्छत च तां भूयः क्व यासि कमलालये ॥ ५६ ॥

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७ ॥

ज़्री
स शक्रो ब्रह्म चारी च यस्त्वया चोपशिक्षितः ।
त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८ ॥

शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः ।
तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९ ॥

धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् ।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६० ॥

भ्
एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर ।
दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१ ॥

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।
प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२ ॥

ध्
सोपायं पूर्वमुद्दिष्टं प्रह्रादेन महात्मना ।
सङ्क्षेपतस्तु शीलस्य श‍ृणु प्राप्तिं नराधिप ॥ ६३ ॥

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४ ॥

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।
अपत्रपेत वा येन न तत्कुर्यात्कथं चन ॥ ६५ ॥

तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि ।
एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६ ॥

यद्यप्यशीला नृपते प्राप्नुवन्ति क्व चिच्छ्रियम् ।
न भुञ्जते चिरं तात स मूलाश् च पतन्ति ते ॥ ६७ ॥

एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८ ॥

भ्
एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप ।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९ ॥

अध्यायः १२५
य्
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १ ॥

संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरञ्जय ॥ २ ॥

पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु यद्युक्तं तत्कर्तायमिति प्रभो ॥ ३ ॥

सर्वस्याशा सुमहती पुरुषस्योपजायते ।
तस्यां विहन्यमानायां दुःखो मृत्युरसंशयम् ॥ ४ ॥

सोऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
धार्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ ५ ॥

आशां महत्तरां मन्ये पर्वतादपि स द्रुमात् ।
आकाशादपि वा राजन्नप्रमेयैव वा पुनः ॥ ६ ॥

एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ ७ ॥

भ्
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध तत् ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ ८ ॥

सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार स मृगं विद्ध्वा बाणेन नतपर्वणा ॥ ९ ॥

स मृगो बाणमादाय ययावमितविक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १० ॥

ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।
मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११ ॥

ततः स राजा तारुण्यादौरसेन बलेन च ।
ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२ ॥

तीर्त्वा नदान्नदींश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैव वनेचरन् ॥ १३ ॥

स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥ १४ ॥

स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १५ ॥

पुनश्च जवमास्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १६ ॥

तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरश्रेष्ठं कार्मुकान्निरवासृजत् ॥ १७ ॥

ततो गव्यूति मात्रेण मृगयूथप यूथपः ।
तस्य बान पथं त्यक्त्वा तस्थिवान्प्रहसन्निव ॥ १८ ॥

तस्मिन्निपतिते बाणे भूमौ प्रजलिते ततः ।
प्रविवेश महारण्यं मृगो राजाप्यथाद्रवत् ॥ १९ ॥

प्रविश्य तु महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्पुनः ॥ २० ॥

तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मिन्पूजां चक्रुर्यथाविधि ॥ २१ ॥

ऋषयो राजशार्दूलमपृच्छन्स्वं प्रयोजनम् ।
केन भद्र मुखार्थेन सम्प्राप्तोऽसि तपोवनम् ॥ २२ ॥

पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ।
एतदिच्छाम विज्ञातुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले हि जातस्त्वं किंनामासि ब्रवीहि नः ॥ २३ ॥

ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथान्यायं परिचर्यां च भारत ॥ २४ ॥

हैहयानां कुले जातः सुमित्रो मित्रनन्दनः ।
चरामि मृगयूथानि निघ्नन्बाणैः सहस्रशः ।
बलेन महता गुप्तः सामात्यः सावरोधनः ॥ २५ ॥

मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ।
तं द्रवन्तमनु प्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशे नष्टश्रीर्हताशः श्रमकर्शितः ॥ २६ ॥

किं नु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो नष्टलक्षणः ॥ २७ ॥

न राज्यलक्षणत्यागो न पुरस्य तपोधनाः ।
दुःखं करोति तत्तीव्रं यथाशा विहता मम ॥ २८ ॥

हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ।
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ॥ २९ ॥

भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ।
भवन्तः सुमहाभागास्तस्मात्प्रक्ष्यामि संशयम् ॥ ३० ॥

आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ।
किं नु ज्यायस्तरं लोके महत्त्वात्प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ ३१ ॥

यदि गुह्यं तपोनित्या न वो ब्रूतेह माचिरम् ।
न हि गुह्यमतः श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ ३२ ॥

भवत्तपो विघातो वा येन स्याद्विरमे ततः ।
यदि वास्ति कथा योगो योऽयं प्रश्नो मयेरितः ॥ ३३ ॥

एतत्कारणसामग्र्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तो हि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ ३४ ॥

अध्यायः १२६
भ्
ततस्तेषां समस्तानामृषीणामृषिसत्तमः ।
ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १ ॥

पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।
समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २ ॥

यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा ।
यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३ ॥

तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा ।
पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥ ४ ॥

रेमाते यत्र तौ नित्यं नरनारायणावृषी ।
अदूरादाश्रमं कं चिद्वासार्थमगमं ततः ॥ ५ ॥

ततश्चीराजिनधरं कृशमुच्चमतीव च ।
अद्राक्षमृषिमायान्तं तनुं नाम तपो निधिम् ॥ ६ ॥

अन्यैर्नरैर्महाबाहो वपुषाष्ट गुणान्वितम् ।
कृशता चापि राजर्षे न दृष्टा तादृशी क्व चित् ॥ ७ ॥

शरीरमपि राजेन्द्र तस्य कानिष्ठिका समम् ।
ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८ ॥

शिरः कायानुरूपं च कर्णौ नेते तथैव च ।
तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९ ॥

दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः ।
पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १० ॥

निवेद्य नामगोत्रं च पितरं च नरर्षभ ।
प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११ ॥

ततः स कथयामास कथा धर्मार्थसंहिताः ।
ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२ ॥

तस्मिंस्तु कथयत्येव राजा राजीवलोचनः ।
उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३ ॥

स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।
भूरिद्युम्न पिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४ ॥

इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः ।
एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५ ॥

दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः ।
एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६ ॥

दुर्लभः स मया द्रष्टुमाशा च महती मम ।
तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७ ॥

एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः ।
अवाक्षिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १८ ॥

तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।
उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥ १९ ॥

दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् ।
ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २० ॥

महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।
बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१ ॥

अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च ।
निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२ ॥

एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् ।
श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ २३ ॥

अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः ।
आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४ ॥

ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् ।
उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५ ॥

अपृच्छंश्चैव ते तत्र राजानमपराजितम् ।
प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥ २६ ॥

राजा
वीर द्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः ।
भूरि द्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७ ॥

एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ ।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८ ॥

र्सभ
एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः ।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९ ॥

स हि तेन पुरा विप्रो राज्ञा नात्यर्थ मानितः ।
आशा कृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३० ॥

प्रतिग्रहमहं राज्ञां न करिष्ये कथं चन ।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१ ॥

आशा हि पुरुषं बालं लालापयति तस्थुषी ।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२ ॥

र्
आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् ।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३ ॥

र्सभ
ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।
राजानं भगवान्विप्रस्ततः कृश तनुस्तनुः ॥ ३४ ॥

कृशत्वे न समं राजन्नाशाया विद्यते नृप ।
तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५ ॥

र्
कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।
दुर्लभत्वं च तस्यैव वेद वाक्यमिव द्विज ॥ ३६ ॥

संशयस्तु महाप्राज्ञ सञ्जातो हृदये मम ।
तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७ ॥

त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् ।
यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८ ॥

क्र्ज़ातनु
दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् ।
सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९ ॥

संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः ।
सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४० ॥

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा ।
प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१ ॥

प्रसवे चैव नारीणां वृद्धानां पुत्र कारिता ।
तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२ ॥

र्सभ
एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः ।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ ४३ ॥

राजा
प्रसादये त्वा भगवन्पुत्रेणेच्छामि सङ्गतिम् ।
वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४ ॥

र्सभ
अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः ।
सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५ ॥

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६ ॥

तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् ।
आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७ ॥

सन्दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ ४८ ॥

एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् ।
आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९ ॥

भ्
स तत्रोक्तो महाराज ऋषभेण महात्मना ।
सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५० ॥

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।
स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१ ॥

त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह ।
श्रुत्वा मम महाराज न सन्तप्तुमिहार्हसि ॥ ५२ ॥

॥ इति ऋषभगीता समाप्ता ॥

Also Read:

Rishabha Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Rishabha Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top