Templesinindiainfo

Best Spiritual Website

Rudra Panchamukha Dhyanam Lyrics in Sanskrit

Rudra Panchamukha Dhyanam in Sanskrit:

॥ रुद्र पञ्चमुख ध्यानम् ॥
संवर्ताग्नितटित्प्रदीप्तकनक प्रस्पर्धितेजोमयं ।
गम्भीरध्वनिमिश्रितोग्रदहन प्रोद्भासिताम्राधरम् ॥
अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं ।
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखः शूलिनः ॥ १ ॥

कालभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं ।
कर्णोद्भासितभोगिमस्तकमणि प्रोद्भिन्नदम्ष्ट्राङ्कुरम् ॥
सर्पप्रोतकपालशुक्तिशकल व्याकीर्णसञ्चारगं ।
वन्दे दक्षिणमीश्वरस्य कुटिल भ्रूभङ्गरौद्रं मुखम् ॥ २ ॥

प्रालेयाचलचन्द्रकुन्दधवलं गोक्षीरफेनप्रभं ।
भस्माभ्यक्तमनङ्गदेहदहन ज्वालावलीलोचनम् ॥
ब्रह्मेन्द्रादिमरुद्गणैस्स्तुतिपरैरभ्यर्चितं योगिभिः ।
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ३ ॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुगण्डस्थलं ।
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ॥
स्निग्धं बिम्बफलाधरप्रहसितं नीलालकालङ्कृतं ।
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥ ४ ॥

व्यक्ताव्यक्तगुणेतरं सुविमलं षट्त्रिम्शतत्वात्मकं ।
तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः ॥
वन्दे तामसवर्जितं त्रिणयनं सूक्ष्मातिसूक्ष्मात्परं ।
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५ ॥

Also Read:

Rudra Panchamukha Dhyanam in Sanskrit | English |  Kannada | Telugu | Tamil

Rudra Panchamukha Dhyanam Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top