Templesinindiainfo

Best Spiritual Website

Runa Vimochana Ganesha Stotram Lyrics in Hindi

Runa Vimochana Ganesha Stotram in Hindi:

॥ श्री ऋण विमोचन गणेश स्तोत्रम् ॥
अस्य श्री ऋणहर्तृ गणपति स्तोत्र मन्त्रस्य । सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्री ऋणहर्तृ गणपति देवता । गौं बीजं । गं शक्तिः । गों कीलकं । सकल ऋणनाशने विनियोगः ।

श्री गणेश । ऋणं छिन्दि । वरेण्यं । हुं । नमः । फट् ।
इति कर हृदयादि न्यासः ।

ध्यानम्
सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टं
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम् ॥

स्तोत्रं

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥

त्रिपुरस्यवधात्पूर्वं शम्भुना सम्यगर्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥

हिरण्यकश्यपादीनां वधार्थे विष्णुनार्चितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥

महिषस्यवधे देव्या गणनाथः प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥

भास्करेण गणेशोहि पूजितश्च विशुद्धये
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥

पालनाय च तपसां विश्वामित्रेण पूजितः
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥

इदं ऋणहरं स्तोत्रं तीव्रदारिद्र्यनाशनं
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥

दारिद्र्यं दारुणं त्यक्त्वा कुबेर समतां व्रजेत्
पठन्तोऽयं महामन्त्रः सार्थ पञ्चदशाक्षरः ॥ १० ॥

श्री गणेशं ऋणं छिन्दि वरेण्यं हुं नमः फट्
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥

एकविम्शति सङ्ख्याभिः पुरश्चरणमीरितं
सहस्रवर्तन सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२ ॥

बृहस्पति समो ज्ञाने धने धनपतिर्भवेत्
अस्यैवायुत सङ्ख्याभिः पुरश्चरण मीरितः ॥ १३ ॥

लक्षमावर्तनात् सम्यग्वाञ्छितं फलमाप्नुयात्
भूत प्रेत पिशाचानां नाशनं स्मृतिमात्रतः ॥ १४ ॥

इति श्रीकृष्णयामल तन्त्रे उमा महेश्वर संवादे ऋणहर्तृ गणेश स्तोत्रं समाप्तम् ॥

Also Read:

Runa Vimochana Ganesha Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Runa Vimochana Ganesha Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top