Templesinindiainfo

Best Spiritual Website

Sadgur Shri Tyagaraja Ashtakam Lyrics in Hindi | Sadguru Sri Tyagaraja Slokam

Sadguru Sri Tyagaraja Ashtakam Lyrics in Hindi:

सद्गुरुश्रीत्यागराजाष्टकम्

श्रीरामजयम् ।
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वमिने नमो नमः ।

त्यागराजाय विद्महे । नादहिम्याय धीमहि ।
तन्नस्सद्गुरुः प्रचोदयात् ॥

अथ सद्गुरुश्रीत्यागराजाष्टकम् ।
सद्गुरुत्यागराजाय हिमशैलस्मृताय च ।
शैलोत्तुङ्गसुगुण्याय महात्मने नमो नमः ॥ १॥

नामगङ्गासुधाराय ज्ञानहिम्याचलाय च ।
प्राणसंस्फूर्तिकाराय पावनाय नमो नमः ॥ २॥

हिमगद्यप्रचोदाय गङ्गास्तोत्रप्रभूतये ।
गद्यपद्यप्रमोदाय गुरुदेवाय ते नमः ॥ ३॥

ध्यानगङ्गानिमग्नाय गानगङ्गाप्रसारिणे ।
ज्ञानगङ्गाप्रभावाय नमो मत्प्राणशक्तये ॥ ४॥

नारायणाप्तकामाय नागशायिसुगायिने ।
नादमण्डलवृत्ताय नादसद्गुरवे नमः ॥ ५॥

सप्तस्वराधिवासाय सद्गङ्गासदनाय च ।
सीतारामाभिरामाय सद्गुरुस्वामिने नमः ॥ ६॥

सत्यवाक्सत्यरूपाय सत्त्वातीतैकशक्तये ।
सत्यश्रीरामनिष्ठाय त्यागराजाय ते नमः ॥ ७॥

नमो मद्गुरुदेवाय नमो मङ्गलमूर्तये ।
नमो नादावताराय पुष्पार्चिताय ते नमः ॥ ८॥

ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं
सद्गुरुश्रीत्यागराजाष्टकं सम्पूर्णम् ।

ॐ शुभमस्तु

Sadgur Shri Tyagaraja Ashtakam Lyrics in Hindi | Sadguru Sri Tyagaraja Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top