Templesinindiainfo

Best Spiritual Website

Shri Dakshinamurti Ashtakam Lyrics in Hindi | श्रीदक्षिणामूर्त्यष्टकं

श्रीदक्षिणामूर्त्यष्टकं Lyrics in Hindi:

अगणितगुणगणमप्रमेमाद्यं
सकलजगत्स्थितिसम्यमादिहेतुम् ।
उपरतमनोयोगिहृन्मन्दिरम्तं
सततमहं दक्षिणामूर्तिमीडे ॥ १॥

निरवधिसुखमिष्टदातारमीड्यं
नतजनमनस्तापभेदैकदक्षम् ।
भवविपिनदवाग्निनामधेयं
सततमहं दक्षिणामूर्तिमीडे ॥ २॥

त्रिभुवनगुरुमागमैकप्रमाणं
त्रिजगत्कारणसूत्रयोगमायम् ।
रविशतभास्वरमीहितप्रधानं
सततमहं दक्षिणामूर्तिमीडे ॥ ३॥

अविरतभवभावनादिदूरं
पदपद्मद्वयभाविनामदूरम् ।
भवजलधिसुतारणमङ्घ्रिपोतं
सततमहं दक्षिणामूर्तिमीडे ॥ ४॥

कृतनिलयमनिशं वटाकमूले
निगमशिखाव्रातबोधितैकरूपम् ।
धृतमुद्राङ्गुळिगम्यचारुरूपं
सततमहं दक्षिणामूर्तिमीडे ॥ ५॥

द्रुहिणसुतपूजिताङ्घ्रिपद्मं
पदपद्मानतमोक्षदानदक्षम् ।
कृतगुरुकुलवासयोगिमित्रं
सततमहं दक्षिणामूर्तिमीडे ॥ ६॥

यतिवरहृदये सदा विभान्तं
रतिपतिशतकोटिसुन्दराङ्गमाद्यम् ।
परहितनिरतात्मनं सुसेव्यं
सततमहं दक्षिणामूर्तिमीडे ॥ ७॥

स्मितधवळविकासिताननाब्जं
श्रुतिसुलभं वृषभाधिरूढगात्रम् ।
सितजलजसुशोभिदेहकान्तिं
सततमहं दक्षिणामूर्तिमीडे ॥ ८॥

वृषभकृतमिदमिष्टसिद्धिदं
गुरुवरदेवसन्निधौ पठेद्यः ।
सकलदुरितदुःखवर्गहानिं
व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥ ९॥

इति श्रीदक्षिणामूर्त्यष्टकं सम्पूर्णम् ।

Shri Dakshinamurti Ashtakam Lyrics in Hindi | श्रीदक्षिणामूर्त्यष्टकं

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top