Templesinindiainfo

Best Spiritual Website

Shri Dananirvartanakundashtakam Lyrics in Hindi | श्रीदाननिर्वर्तनकुण्डाष्टकम्

श्रीदाननिर्वर्तनकुण्डाष्टकम् Lyrics in Hindi:

स्वदयितगिरिकच्छे गव्यदानार्थमुच्चैः
कपटकलहकेलिं कुर्वतोर्नव्ययूनोः ।
निजजनकृतदर्पैः फुल्लतोरीक्षकेऽस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ १॥

निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मि-
नत इदमभिधानं प्राप यत्तत्सभायाम् ।
रसविमुखनिगूढे तत्र तज्ञैकवेद्ये
सरसि भवतु वासो दाननिर्वर्तने नः ॥ २॥

अभिनवमधुगन्धोन्मत्तरोलम्बसङ्घ
ध्वनिललितसरोजव्रातसौरभ्यशीते ।
नवमधुरखगालीक्ष्वेलिसञ्चारकाम्रे
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ३॥

हिमकुसुमसुवासस्फारपानीयपूरे
रसपरिलसदालीशालिनोर्नव्ययूनोः ।
अतुलसलिलखेलालब्धसौभाग्यफुल्ले
सरसि भवतु वासो दाननिर्वर्तने नः ॥ ४॥

दरविकसितपुष्पैर्वासितान्तर्दिगन्तः
खगमधुपनिनादैर्मोदितप्राणिजातः ।
परितौपरि यस्य क्ष्मारुहा भान्ति तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ५॥

निजनिजनवकुञ्जे गुञ्जिरोलम्बपुञ्जे
प्रणयिनवसखीभिः संप्रवेश्य प्रियौ तौ ।
निरुपमनवरङ्गस्तन्यते यत्र तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ६॥

स्फटिकसममतुच्छं यस्य पानीयमच्छं
खगनरपशुगोभिः सम्पिबन्तीभिरुच्चैः ।
निजनिजगुणवृद्धिर्लभ्यते द्रागमुस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ७॥

सुरभिमधुरशीतं यत्पयः प्रत्यहं ताः
सखिगणपरिवीतो व्याहरन्पाययन्गाः ।
स्वयमथ पिबति श्रीगोपचन्द्रोऽपि तस्मि-
न्सरसि भवतु वासो दाननिर्वर्तने नः ॥ ८॥

पठति सुमतिरेतद्दाननिर्वर्तनाख्यं
प्रथितमहिमकुण्डस्याष्टकं यो यतात्मा ।
स च नियतनिवासं सुष्ठु संलभ्य काले
कलयति किल राधाकृष्णयोर्दानलीलाम् ॥ ९॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीदाननिर्वर्तनकुण्डाष्टकं सम्पूर्णम् ।

Shri Dananirvartanakundashtakam Lyrics in Hindi | श्रीदाननिर्वर्तनकुण्डाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top