Templesinindiainfo

Best Spiritual Website

Shri Dinabandhvashtakam Lyrics in Hindi | श्रीदीनबन्ध्वष्टकम्

श्रीदीनबन्ध्वष्टकम् Lyrics in Hindi:

यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।
यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ १॥

चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ २॥

येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ३॥

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम् कोपेक्षणेन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ४॥

गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते ।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ५॥

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यः सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ६॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै- राराध्यते भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ७॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ८॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।
यः पठेत् प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥ ९॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम्॥

Shri Dinabandhvashtakam Lyrics in Hindi | श्रीदीनबन्ध्वष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top