श्रीगोकुलेशाष्टकम् Lyrics in Hindi:
नन्दगोपभूपवंशभूषणं विभूषणं var विदूषणं
भूमिभूतिभुरिभाग्यभाजनं भयापहम् ।
धेनुधर्मरक्षणावतीर्णपूर्णविग्रहम्
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ १॥
गोपबालसुन्दरीगणावृतं कलानिधिं
रासमण्डलीविहारकारिकामसुन्दरम् ।
पद्मयोनिशङ्करादिदेववृन्दवन्दितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ २॥
गोपराजरत्नराजिमन्दिरानुरिङ्गणं
गोपबालबालिकाकलानुरुद्धगायनम् ।
सुन्दरीमनोजभावभाजनाम्बुजाननं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ३॥
कंसकेशिकुञ्जराजदुष्टदैत्यदारणं
इन्द्रसृष्टवृष्टिवारिवारणोद्धृताचलम् ।
कामधेनुकारिताभिधानगानशोभितं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ४॥
गोपिकागृहान्तगुप्तगव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीतलज्जितास्यपङ्कजम् ।
धेनुधूलिधूसराङ्गशोभिहारनूपुरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ५॥
वत्सधेनुगोपबालभीषणोत्थवह्निपं
केकिपिच्छकल्पितावतंसशोभिताननम् ।
वेणुवाद्यमत्तधोषसुन्दरीमनोहरं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ६॥
गर्वितामरेन्द्रकल्पकल्पितान्नभोजनं
शारदारविन्दवृन्दशोभिहंसजारतम् ।
दिव्यगन्धलुब्धभृङ्गपारिजातमालिनं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ७॥
वासरावसानगोष्ठगामिगोगणानुगं
धेनुदोहदेहगेहमोहविस्मयक्रियम् ।
स्वीयगोकुलेशदानदत्तभक्तरक्षणं
नीलवारिवाहकान्तिगोकुलेशमाश्रये ॥ ८॥
॥ इति श्रीरघुनायप्रभुविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ॥