Templesinindiainfo

Best Spiritual Website

Shri Gokulesha Ashtakam 4 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् ४

श्रीगोकुलेशाष्टकम् ४ Lyrics in Hindi:

उद्धर्तुं धरणीतले निजबलेनैव स्वकीयाम् जनान्
आविर्भूय तथा कृपापरवशः श्रीविठ्ठलेशालये ।
यः श्रीभागवतस्य तत्त्वविवृतेश्चक्रे प्रवाहं वचः
पीयूषैरतिपोषणाय सततं श्रीगोकुलेशोऽवतु ॥ १॥

यः पुष्टिमार्गगतभावविभावनैकं
दक्षः समक्षमपि सन्निधिसेवकानाम् ।
यो ज्ञानगूढहृदयः सदयः सदैव
सेवासुखं मम तनोतु स गोकुलेशः ॥ २॥

यः सेव्यः सततं सतां निजफलप्रेप्सावदाविर्तना-
माचार्योदितशुद्धपुष्टिसुपथे नित्यानुकम्पाधरः ।
यद्दृष्ट्यैव हृदन्धकारनिचयो यायात्क्षणात्क्षीणता-
मानन्दं मुहुरातनोतु मधुराकारः प्रभुर्वल्लनभः ॥ ३॥

यो मायामतवर्तिदुष्टवदनध्वंसं वचोभिर्निजैः
कुर्वन् सेवकसर्वलोकहृदयानन्दं सदा पोषयन् ।
तद्भावं सुदृढं करोति कृपया दासैकहृद्यातया
यातानां शरणं हृदा समनसा मोदं सदा यच्छतु ॥ ४॥

हसद्वदनपङ्कजस्फुरदमन्दभावार्द्रदृक्
कपोलविलसद्रजोद्वयविमिश्रताम्बूलदः ।
समुन्नतसुनासिकः सरसचारुबिम्बाधरो
हरत्वखिलसेविनां चिरवियोगतापं क्षणात् ॥ ५॥

मनोजमधुराकृतिर्निजमनोविदोदोद्गति
कृते जनमनोहृतौ विरतिकारकः संसृतौ ।
स्वभावपरिपोषको भवसमुद्रसंशोषकः
करोतु वरणं सदा सफलमत्र वै वल्लभः ॥ ६॥

गोधूममेचकमनोहरवर्णदेहो
यः केशकृष्णनिचयोल्लसदुत्तमाङ्गः ।
सूक्ष्मोत्तरीयकटिवस्त्रविराजिताङ्गः
सङ्गं तनोतु मुदमद्भुतगोकुलेशः ॥ ७॥

ताताज्ञैकपरायणाशयविदां वर्यः परानन्ददो
माला येन सुरक्षिता निजमहायत्नेन कण्ठे सताम् ।
धर्मो येन विवर्धितः पितृपदाचारैः सदा सर्वतः
स श्रीगोकुलनायकः करुणया भूयाद्वशे सेविनाम् ॥ ८॥

सर्वं साधनजातमत्र विफलं नूनं विदित्वा जना
नित्यं तं भजत प्रियं प्रभुमयं त्यक्त्वेतरस्याश्रयम् ।
तन्नामानि जपन्तु रूपमखिलं सञ्जिन्तयन्तु स्वयं
सौख्यं तत्पदभावतोऽभिलषितं सर्वं स्वतः प्राप्स्यते ॥ ९॥

इति श्रीहरिरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ।

Shri Gokulesha Ashtakam 4 Lyrics in Hindi | श्रीगोकुलेशाष्टकम् ४

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top