Templesinindiainfo

Best Spiritual Website

Shri Gokuleshashayanashyakam Lyrics in Hindi | श्रीगोकुलेशशयनाष्टकम्

श्रीगोकुलेशशयनाष्टकम् Lyrics in Hindi:

प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं
संसारसागरसमुत्तरणैकसेतुम् ।
श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल-
संशुद्धसेवनविधौ कमलावतारम् ॥ १॥

प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा-
दानन्दपूर्णनिजमन्दिरमभ्युपेतम् ।
स्थूलोपधानसहितासनसन्निषण्णं
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ २॥

अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं
ताम्बूलपूर्णवदनं सदनं रसाब्धेः ।
आवेष्टितं परित आत्मजनैरशेषैः
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ३॥

जाते तथा प्रभुकथाकथने तदानी-
मुत्थापिते परिचयेण पृथूपधाने ।
गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ४॥

नित्योल्लसन्नवरसौघनिवासरूपं
सौन्दर्यनिर्जितजगज्जयिकामभूपम् ।
स्वप्रेयसीजनमनोहरचारुवेषं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ५॥

कस्तूरिकादितनुलेपविसारिगन्धं
पुष्पस्रगन्तरलसत्तनुमौलिबन्धम् ।
संवाहिताङ्घ्रियुगलं निजमुख्यभक्तैः
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ६॥

सप्रेमहास्यवचनैः कतिचित्स्वकीयान्
स्थित्वा क्षणं निजगृहाय निदिष्टवन्तम् ।
शय्योपवेशसमयोचित्तवेषभाजं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ७॥

निद्रागमात् प्रथमतो निजसुन्दरीभिः
संसेवितं तदखिलेन्द्रियवृत्तिभाग्यम् ।
शृङ्गारसारमधिराजमुदारवेषं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ८॥

स्वच्छोपरिच्छदलसच्छयनोपविष्टं
सस्नेहभक्तसुखसेवितपादपद्मम् ।
निद्रावधूस्वसमयेप्सितसङ्गसौख्यं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ९॥

श्रीगोकुलेशशयनाष्टकमादरेण
श्रीकृष्णरायरचितं सरसार्थपद्यम् ।
सञ्चिन्तिताखिलफलप्रदमिष्टसिद्‍ध्यै
सञ्चिन्तयन्तु निशि तच्चरणैकचित्ताः ॥ १०॥

इति श्रीकृष्णरायविरचितं श्रीशयनाष्टकं सम्पूर्णम् ।

Shri Gokuleshashayanashyakam Lyrics in Hindi | श्रीगोकुलेशशयनाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top