Shri Gokuleshashayanashyakam Lyrics in Hindi | श्रीगोकुलेशशयनाष्टकम्
श्रीगोकुलेशशयनाष्टकम् Lyrics in Hindi: प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं संसारसागरसमुत्तरणैकसेतुम् । श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल- संशुद्धसेवनविधौ कमलावतारम् ॥ १॥ प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा- दानन्दपूर्णनिजमन्दिरमभ्युपेतम् । स्थूलोपधानसहितासनसन्निषण्णं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ २॥ अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं ताम्बूलपूर्णवदनं सदनं रसाब्धेः । आवेष्टितं परित आत्मजनैरशेषैः श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ३॥ जाते तथा प्रभुकथाकथने तदानी- मुत्थापिते परिचयेण पृथूपधाने । गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ […]