Templesinindiainfo

Best Spiritual Website

Shri Gomatyambashtakam Lyrics in Hindi | श्रीगोमत्यम्बाष्टकम्

श्रीगोमत्यम्बाष्टकम् Lyrics in Hindi:

ॐ श्रीगणेशाय नमः ॥

भूकैलासे मनोज्ञे भुवनवनवृते नागतीर्थोपकण्ठे
रत्नप्रकारमध्ये रविचन्द्रमहायोगपीठे निषण्णम् ।
संसारव्याधिवैद्यं सकलजननुतं शङ्खपद्मार्चिताङ्घ्रिं
गोमत्यम्बासमेतं हरिहरवपुषं शङ्करेशं नमामि ॥

लक्ष्मीवाणीनिषेविताम्बुजपदां लावण्यशोभां शिवां
लक्ष्मीवल्लभपद्मसम्भवनुतां लम्बोदरोल्लासिनीम् ।
नित्यं कौशिकवन्द्यमानचरणां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ १॥

देवीं दानवराजदर्पहरिणीं देवेन्द्रसम्पत्प्रदां
गन्धर्वोरगयक्षसेवितपदां श्रीशैलमध्यस्थिताम् ।
जातीचम्पकमल्लिकादिकुसुमैः संशोभिताङ्घ्रिद्वयां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ २॥

उद्यत्कोटिविकर्तनद्युतिनिभां मौर्वीं भवाम्भोनिधेः
उद्यत्तारकनाथतुल्यवदनामुद्योतयन्तीं जगत् ।
हस्तन्यस्तशुकप्रणाळसहितां हर्षप्रदामम्बिकां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ३॥

कल्याणीं कमनीयमूर्तिसहितां कर्पूरदीपोज्ज्वलां
कर्णान्तायतलोचनां कळरवां कामेश्वरीं शङ्करीम् ।
कस्तूरितिलकोज्ज्वलां सकरुणां कैवल्यसौख्यप्रदां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ४॥

वैडूर्यादिसमस्तरत्नखचिते कल्याणसिंहासने
स्थित्वाऽशेषजनस्य पालनकरीं श्रीराजराजेश्वरीम् ।
भक्ताभीष्टफलप्रदां भयहरां भण्डस्य युद्धोत्सुकां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ५॥

शैलाधीशसुतां सरोजनयनां सर्वाघविध्वंसिनीं
सन्मार्गस्थितलोकरक्षणपरां सर्वेश्वरीं शाम्भवीम् ।
नित्यं नारदतुम्बुरुप्रभृतिभिर्वीणाविनोदस्थितां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ६॥

पापारण्यदवानलां प्रभजतां भाग्यप्रदां भक्तिदां
भक्तापत्कुलशैलभेदनपविं प्रत्यक्षमूर्तिं पराम् ।
मार्कण्डेयपराशरादिमुनिभिः संस्तूयमानामुमां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ७॥

श्वेतारण्यनिवासिनीं प्रतिदिनं स्तोत्रेण पूर्णाननां
त्वत्पादाम्बुजसक्तपूर्णमनसां स्तोकेतरेष्टप्रदाम् ।
नानावाद्यवैभवशोभितपदां नारायणस्यानुजां meter?
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ८॥

इति श्रीगोमत्यम्बाष्टकं सम्पूर्णम् ।

इति शिवम् ॥

Shri Gomatyambashtakam Lyrics in Hindi | श्रीगोमत्यम्बाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top