Templesinindiainfo

Best Spiritual Website

Shri Gopaladevashtakam Lyrics in Hindi

श्रीगोपालदेवाष्टकम् Lyrics in Hindi:

मधुरमृदुलचित्तः प्रेममात्रैकवित्तः
स्वजनरचितवेषः प्राप्तशोभाविशेषः ।
विविधमणिमयालङ्कारवान् सर्वकालं
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ १॥

निरुपमगुणरूपः सर्वमाधुर्यभूपः
श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः ।
अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ २॥

धृतनवपरभागः सव्यहस्तस्थितागः
प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः ।
कृतनिजजनरक्षः प्रेमविस्तारदक्षः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ३॥

क्रमवलदनुरागस्वप्रियापाङ्गभाग
ध्वनितरसविलासज्ञानविज्ञापिहासः ।
स्मृतरतिपतियागः प्रीतिहंसीतडागः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ४॥

मधुरिमभरमग्ने भात्यसव्येऽवलग्ने
त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात् ।
इतरत इह तस्या माररेखेव रस्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ५॥

वहति वलितहर्षं वाहयंश्चानुवर्षं
भजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम् ।
गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ६॥

अधिधरमनुरागं माधवेन्द्रस्य तन्वं-
स्तदमलहृदयोत्थां प्रेमसेवां विवृण्वन् ।
प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ७॥

प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि
प्रणयसुरसचर्या यस्य वर्या सपर्या ।
गणयतु कति भोगान् कः कृती तत्प्रयोगान्
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ८॥

गिरिधरवरदेवस्याष्टकेनेममेव
स्मरति निशि दिने वा यो गृहे वा वने वा ।
अकुटिलहृदयस्य प्रेमदत्वेन तस्य
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ९॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीगोपालदेवाष्टकं सम्पूर्णम् ।

Shri Gopaladevashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top