Templesinindiainfo

Best Spiritual Website

Shri Krishna Ashtakam in Hindi

Shri GopIjana Vallabha Ashtakam Lyrics in Hindi | श्रीगोपीजनवल्लभाष्टकम्

श्रीगोपीजनवल्लभाष्टकम् Lyrics in Hindi: ॥ अथ श्रीगोपीजनवल्लभाष्टकम् ॥ सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय । उदारहासाय ससन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥ आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय । मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥ गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय । भक्तैकगम्याय नवप्रियाय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥ मन्थानभाण्डाखिलभञ्जनाय हैयङ्गवीनाशनरञ्जनाय । गोस्वादुदुग्धामृतपोषिताय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥ कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय । पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥ धराधराभाय धराधराय […]

Shri GopIjana Vallabha Ashtakam 2 Lyrics in Hindi | श्रीगोपीजनवल्लभाष्टकम् २

श्रीगोपीजनवल्लभाष्टकम् २ Lyrics in Hindi: नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय वेणुस्वनैर्मोदितगोकुलाय नमोऽस्तु गोपीजनवल्लभाय ॥ १॥ किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय । स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय ॥ २॥ दिव्याङ्गनावृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय । त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय ॥ ३॥ रत्नादिमूलालयमाश्रिताय कल्पद्रुमच्छायसमाश्रिताय । हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४॥ श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय । सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५॥ दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिच्छच्छविशोभिताय । वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६॥ मुनीन्द्रवृन्दैरभिसंस्तुताय क्षरत्पयोगोकुलगोकुलाय […]

Shri Gopinathadevashtakam Lyrics in Hindi | श्रीगोपिनाथदेवाष्टकम्

श्रीगोपिनाथदेवाष्टकम् Lyrics in Hindi: आस्ये हास्यं तत्र माध्वीकमस्मिन् वंशी तस्यां नादपीयूषसिन्धुः । तद्वीचीभिर्मज्जयन् भाति गोपी- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ १॥ शोणोष्णीषभ्राजिमुक्तास्रजोद्यत् पिञ्छोत्तंसस्पन्दनेनापि नूनम् । हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन् गोपीनाथः पीनवक्षा गतिर्नः ॥ २॥ बिभ्रद्वासः पीतमूरूरुकान्त्या श्लीष्टं भास्वत्किङ्किणीकं नितम्बे । सव्याभीरीचुम्बितप्रान्तबाहु- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ३॥ गुञ्जामुक्तारत्नगाङ्गेयहारै- र्माल्यैः कण्ठे लम्बमानैः क्रमेण । पीतोदञ्चत्कञ्चुकेनाञ्चितश्री- र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ४॥ […]

Shri Gopalashtakam Lyrics in Hindi with Meaning | श्रीगोपालाष्टकम्

श्रीगोपालाष्टकम् Lyrics in Hindi: श्री गणेशाय नमः ॥ यस्माद्विश्वं जातमिदं चित्रमतर्क्यं यस्मिन्नानन्दात्मनि नित्यं रमते वै । यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं सन्ततकालं प्रति वन्दे ॥ १॥ यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु । गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे ॥ २॥ तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् । सर्वं यस्येदं च वशे […]

Shri Gopaladevashtakam Lyrics in Hindi

श्रीगोपालदेवाष्टकम् Lyrics in Hindi: मधुरमृदुलचित्तः प्रेममात्रैकवित्तः स्वजनरचितवेषः प्राप्तशोभाविशेषः । विविधमणिमयालङ्कारवान् सर्वकालं स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ १॥ निरुपमगुणरूपः सर्वमाधुर्यभूपः श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः । अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ २॥ धृतनवपरभागः सव्यहस्तस्थितागः प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः । कृतनिजजनरक्षः प्रेमविस्तारदक्षः स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ३॥ क्रमवलदनुरागस्वप्रियापाङ्गभाग ध्वनितरसविलासज्ञानविज्ञापिहासः । स्मृतरतिपतियागः प्रीतिहंसीतडागः स्फुरतु हृदि स एव […]

Kaivalyashtakam Lyrics in Hindi with Meaning | कैवल्याष्टकम् अथवा केवलाष्टकम्

कैवल्याष्टकम् अथवा केवलाष्टकम् Lyrics in Hindi: मधुरं मधुरेभ्योऽपि मङ्गलेभ्योपि मङ्गलम् । पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १॥ आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् । सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २॥ स गुरुः स पिता चापि सा माता बान्धवोऽपि सः । शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३॥ निःश्र्वासे न हि विश्र्वासः कदा रुद्धो भविष्यति । कीर्तनीयमतो […]

Keshavashtakam Lyrics in Hindi | केशवाष्टकम्

केशवाष्टकम् Lyrics in Hindi: नवप्रियकमञ्जरीरचितकर्णपूरश्रियं विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम् । दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत् व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ १॥ पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये । इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ २॥ घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला विलासनिलयान् मिलद्विविधवेशविद्योतिनः । सखीन् अखिलसारया पथिषु हासयन्तं गिरा व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ३॥ श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम् […]

Shri Krishnasharanashtakam Lyrics in Hindi | श्रीकृष्णशरणाष्टकम्

श्रीकृष्णशरणाष्टकम् Lyrics in Hindi: सर्वसाधनहीनस्य पराधीनस्य सर्वतः । पापपीनस्य दीनस्य श्रीकृष्णः शरणं मम ॥ १॥ संसारसुखसम्प्राप्तिसन्मुखस्य विशेषतः । वहिर्मुखस्य सततं श्रीकृष्णः शरणं मम ॥ २॥ सदा विषयकामस्य देहारामस्य सर्वथा । दुष्टस्वभाववामस्य श्रीकृष्णः शरणं मम ॥ ३॥ संसारसर्वदुष्टस्य धर्मभ्रष्टस्य दुर्मतेः । लौकिकप्राप्तिकामस्य श्रीकृष्णः शरणं मम ॥ ४॥ विस्मृतस्वीयधर्मस्य कर्ममोहितचेतसः । स्वरूपज्ञानशून्यस्य श्रीकृष्णः शरणं मम ॥ ५॥ […]

Shri Krishna Sharanam Ashtakam Lyrics in Hindi | श्रीकृष्णशरणाष्टकम्

श्रीकृष्णशरणाष्टकम् Lyrics in Hindi: द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः । कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १॥ फलीकृतफलार्थी च कुस्सितीकृतकौरवः । निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २॥ कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः । कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३॥ सुखीकृतसुदामा च शङ्करीकृतशङ्करः । सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४॥ छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः । कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५॥ महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः । आनन्दीकृतनन्दाद्यः […]

Scroll to top