Templesinindiainfo

Best Spiritual Website

Shri Krishna Sharanam Ashtakam Lyrics in Hindi | श्रीकृष्णशरणाष्टकम्

श्रीकृष्णशरणाष्टकम् Lyrics in Hindi:

द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः ।
कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १॥

फलीकृतफलार्थी च कुस्सितीकृतकौरवः ।
निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २॥

कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः ।
कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३॥

सुखीकृतसुदामा च शङ्करीकृतशङ्करः ।
सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४॥

छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः ।
कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५॥

महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः ।
आनन्दीकृतनन्दाद्यः श्रीकृष्णः शरणं मम ॥ ६॥

वराकीकृतराकेशो विपक्षीकृतराक्षसः ।
सन्तोषीकृतसद्भक्तः श्रीकृष्णः शरणं मम ॥ ७॥

जरीकृतजरासन्धः कमलीकृतकार्मुकः ।
प्रभ्रष्टीकृतभीष्मादिः श्रीकृष्णः शरणं मम ॥ ८॥

श्रीकृष्णः शरणं ममाष्टकमिदं प्रोत्थाय यः सम्पठेत्
स श्रीगोकुलनायकस्य पदवी संयाति भूमीतले ।
पश्यत्येव निरन्तरं तरणिजातीरस्थकेली प्रभोः
सम्प्राप्नोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ ९॥

॥ इति श्रीदेवकीनन्दनात्मज श्रीरघुनाथप्रभुकृतं
श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥

Shri Krishna Sharanam Ashtakam Lyrics in Hindi | श्रीकृष्णशरणाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top