Templesinindiainfo

Best Spiritual Website

Shri Gopinathadevashtakam Lyrics in Hindi | श्रीगोपिनाथदेवाष्टकम्

श्रीगोपिनाथदेवाष्टकम् Lyrics in Hindi:

आस्ये हास्यं तत्र माध्वीकमस्मिन्
वंशी तस्यां नादपीयूषसिन्धुः ।
तद्वीचीभिर्मज्जयन् भाति गोपी-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ १॥

शोणोष्णीषभ्राजिमुक्तास्रजोद्यत्
पिञ्छोत्तंसस्पन्दनेनापि नूनम् ।
हृन्नेत्रालीवृत्तिरत्नानि मुञ्चन्
गोपीनाथः पीनवक्षा गतिर्नः ॥ २॥

बिभ्रद्वासः पीतमूरूरुकान्त्या
श्लीष्टं भास्वत्किङ्किणीकं नितम्बे ।
सव्याभीरीचुम्बितप्रान्तबाहु-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ३॥

गुञ्जामुक्तारत्नगाङ्गेयहारै-
र्माल्यैः कण्ठे लम्बमानैः क्रमेण ।
पीतोदञ्चत्कञ्चुकेनाञ्चितश्री-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ४॥

श्वतोष्णीषः श्वेतसुश्लोकधौतः
सुश्वेतस्रक्द्वित्रशः श्वेतभूषः ।
चुम्बन् शर्यामङ्गलारात्रिके हृ-
द्गोपीनाथः पीनवक्षा गतिर्नः ॥ ५॥

श्रीवत्सश्रीकौस्तुभोद्भिन्नरोम्णां
वर्णैः श्रीमान् यश्चतुर्भिः सदेष्टः ।
दृष्टः प्रेम्णैवातिधन्यैरनन्यै-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ६॥

तापिञ्छः किं हेमवल्लीयुगान्तः
पार्श्वद्वन्द्वोद्द्योतिविद्युद्घनः किम् ।
किं वा मध्ये राधयोः श्यामलेन्दु-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ७॥

श्रीजाह्नव्या मूर्तिमान् प्रेमपुञ्जो
दीनानाथान् दर्शयन् स्वं प्रसीदन् ।
पुष्णन् देवालभ्यफेलासुधाभि-
र्गोपीनाथः पीनवक्षा गतिर्नः ॥ ८॥

गोपीनाथाष्टकं तुष्टचेता-
स्तत्पदाब्जप्रेमपुष्णीभविष्णुः ।
योऽधीते तन्मन्तुकोटीरपश्यन्
गोपीनाथः पीनवक्षा गतिर्नः ॥ ९॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीगोपिनाथाष्टकं सम्पूर्णम् ।

Shri Gopinathadevashtakam Lyrics in Hindi | श्रीगोपिनाथदेवाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top