Templesinindiainfo

Best Spiritual Website

Keshavashtakam Lyrics in Hindi | केशवाष्टकम्

केशवाष्टकम् Lyrics in Hindi:

नवप्रियकमञ्जरीरचितकर्णपूरश्रियं
विनिद्रतरमालतीकलितशेखरेणोज्ज्वलम् ।
दरोच्छ्वसितयूथिकाग्रथितवल्गुवैकक्षकृत्
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ १॥

पिशङ्गि मणिकस्तनि प्रणतशृङ्गि पिङ्गेक्षणे
मृदङ्गमुखि धूमले शवलि हंसि वंशीप्रिये ।
इति स्वसुरभिकुलं तरलमाह्वयन्तं मुदा
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ २॥

घनप्रणयमेदुरान् मधुरनर्मगोष्ठीकला
विलासनिलयान् मिलद्विविधवेशविद्योतिनः ।
सखीन् अखिलसारया पथिषु हासयन्तं गिरा
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ३॥

श्रमाम्बुकणिकावलीदरविलीढगण्डान्तरं
समूढागिरिधातुभिर्लिखितचारुपत्राङ्कुरम् ।
उदञ्चदलिमण्डलीद्युतिविडम्बिवक्रालकं
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ४॥

निबद्धनवतर्णकावलिविलोकनोत्कण्ठया
नटत्खुरपुटाञ्चलैरलघुभिर्भुवं भिन्दतीम् ।
कलेन धवलाघटां लघु निवर्तयन्तं पुरो
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ५॥

पद्माङ्कततिभिर्वरां विरचयन्तमध्वश्रियं
चलत्तरलनैचिकीनिचयधूलिधूम्रस्रजम् ।
मरुल्लहरिचञ्चलीकृतदुकूलचूडाञ्चलं
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ६॥

विलासमुरलीकलध्वनिभिरुल्लसन्मानसाः
क्षणादखिलवल्लवीः पुलकयन्तमन्तर्गृहे ।
मुहुर्विदधतं हृदि प्रमुदितां च गोष्ठेश्वरीं
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ७॥

उपेत्य पथि सुन्दरीततिभिराभिरभ्यर्चितं
स्मिताङ्कुरकरम्बितैर्नटदपाङ्गभङ्गीशतैः ।
स्तनस्तवकसञ्चरन्नयनचञ्चरीकाञ्चलं
व्रजे विजयिनं भजे विपिनदेशतः केशवम् ॥ ८॥

इदं निखिलवल्लवीकुलमहोत्सवोल्लासनं
क्रमेण किल यः पुमान् पठति सुष्ठु पद्याष्टकम् ।
तमुज्ज्वलधियं सदा निजपदारविन्दद्वये
रतिं दददचञ्चलां सुखयताद् विशाखासखः ॥ ९॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकेशवाष्टकं सम्पूर्णम् ।

Keshavashtakam Lyrics in Hindi | केशवाष्टकम्

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top