Templesinindiainfo

Best Spiritual Website

Shri Krishnashtakam 9 Lyrics in Hindi | श्रीकृष्णाष्टकम् 9

श्रीकृष्णाष्टकम् 9 Lyrics in Hindi:

त्रिभुवनालिसरोजसरोवरं परममोदपयःसुपयोनिधिम् ।
विमलयोगिमनोऽलिकुशेशयं यदुकुलैकमणिन्तमहम्भजे ॥ १॥

जलजपीठमुखामरदेशिकं भवविरिञ्चिसुरेन्द्रकृतस्तवम् ।
निखिलकामितशीकरतोयदं यदुकुलैकमणिन्तमहम्भजे ॥ २॥

अदितिजाम्बुजपुञ्जदिवाकरं दितिजकञ्जतुषारजवोपमम् ।
विगतमोहमजञ्जननान्तकं यदुकुलैकमणिन्तमहम्भजे ॥ ३॥

त्रिजगदम्बुरुहोदितभास्करं सकलसत्त्वहृदब्जकृतालयम् ।
स्वजनमोहमहार्णवपोतकं यदुकुलैकमणिन्तमहम्भजे ॥ ४॥

श्रुतिमयोज्ज्वलकौस्तुभमालिकं रवमुकभूतमयास्त्रचतुष्टयम् ।
सभुवनाण्डकदम्बकमेखलं यदुकुलैकमणिन्तमहम्भजे ॥ ५॥

दिनकरादिविभासकभासकं श्रुतिमुखाक्षगणाक्षमनक्षकम् ।
ज्वलनमारुतश्क्रमदापहं यदुकुलैकमणिन्तमहम्भजे ॥ ६॥

जलधिजाननकञ्जमधुव्रतं रुचिररूपविकृष्टवराङ्गनम् ।
यतिवरादरगीतचरित्रकं यदुकुलैकमणिन्तमहम्भजे ॥ ७॥

क्रतुपतिङ्कुपतिञ्जगताम्पतिं पतिपतिंविपतिङ्कमलापतिम् ।
फणिपतिङ्गजगोकुलगोपतिं यदुकुलैकमणिन्तमहम्भजे ॥ ८॥

यदुपतेरिदमष्टकमद्भुतं वृजिनशुष्कवनोग्रदवानलम् ।
पठतियस्तुसमाहितचेतसा सलभतेऽखिलयोगफलन्द्रुतम् ॥ ९॥

॥ इति श्रीस्वामिब्रह्मानन्दविरचितं श्रीकृष्णाष्टकं सम्पूर्णम् ॥

(द्रुतविलम्बितं वृत्तं)
समानार्थी शब्दाः
ज – ब्रह्मा, यतिवर – शुकादयः, कु – पृथिवी, विगतः पतिर्यस्मात्,
विपतिं – गरुडास्यवा, फणिपती – शेषः, गज – गजेन्द्रः

Shri Krishnashtakam 9 Lyrics in Hindi | श्रीकृष्णाष्टकम् 9

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top